पृष्ठम्:सिद्धान्तकौमुदी (बालमनोरमा उत्तर-२).djvu/१४४

विकिस्रोतः तः
एतत् पृष्ठम् परिष्कृतम् अस्ति
३५८
[यङ्लुक्
सिद्धान्तकौमुदीसहिता

अयोयोत् । योयुयात् । आशिषि दीर्घः । योयूयात् । अयोयावीत् । नोनवीति-नोनोति । जाहेति-जाहाति । 'ई हल्यघो:' (सू २४९७) । जाहीतः । इह 'जहातेश्च' (सू २४९८) 'आ च हौ' (सू २४९९) 'लोपो यि' (सू २५००) 'घुमास्था' (सू २४६२) 'एर्लिङि' (सू २३७४) इत्येते पञ्चापि न भवन्ति । श्तिपा निर्देशात् । जाहति । जाहासि-जाहेषि । जाहीथः । जाहीथ । जाहीहि । अजाहेत्-अजाहात् । अजाहीताम् । अजाहुः । जाहीयात् । आशिषि जाहायात् । अजाहासीत् । अजाहासिष्टाम् । अजाहिष्यत् । लुका लुप्ते प्रत्ययलक्षणाभावात् 'स्वपिस्यमि--' (सू २६४५) इत्युत्त्वं न । 'रुदादिभ्यः–-' (सू २४७४) इति गणनिर्दिष्टत्वादीण्न । सास्व-


नोनवीतीति ॥ हाड्हाकोर्यङ्लुकि तुल्यानि रूपाणि । डित्त्वप्रयुक्तात्मनेपदस्य यङ्लुकि अप्रवृत्तेरुक्तत्वादिति मत्वा आह । जाहेतीति ॥ हाड्हाकोर्यङ्लुगन्ताल्लटस्तिपि ईटि आद्गुणे रूपम् । नच हाडोऽभ्यासस्य 'भृञामित्' इति इत्त्वम्। हाकस्तु तन्नास्ति । भृञ् माड् ओहाड् एषान्त्रयाणामेव तत्र ग्रहणात् कथं हाड्हाकोस्तुल्यत्वमिति शङ्क्यम् । 'भृञामित्' इत्यस्य श्लावेव प्रवृत्तेः । न चाकित इति निषेधात् हाकोऽभ्यासस्य दीर्घाभावात् कथमुभयोस्तुल्यरूपत्वमिति वाच्यम् । क् इत् यस्य सः कित् न विद्यते कित् यस्य सः अकित् तस्य अकित इति बहुव्रीहिगर्भबहुव्रीह्याश्रयणात् । इह च हाको धातो कित्त्वेऽपि न किद्वत्त्वम् । तदभ्यासस्य तु दूरेतरान्न किद्वत्त्वम् । 'द्विः प्रयोगो द्विर्वचन षाष्ठम्' इति सिद्धान्तात् । बहुव्रीह्याश्रयणसामर्थ्यादेव व्यपदेशिवत्त्वेन हाको न कित्त्वम् । अतो हाकोऽप्यभ्यासदीर्घो निर्बाध इति भावः । जाहीतः इति ॥ हाड्हाकोस्तसि ईत्वमेव । ननु हाको 'जहातेश्च' इति इत्त्वविकल्प कुतो नेत्यत आह । इहेति ॥ हलादौ क्डिति सार्वधातुके 'जहातेश्च' इति इत्त्वविकल्प । तथा 'आ च हौ' इति जहातेर्हौ परे आत्वमीत्वञ्च, तथा 'लोपो यि' इति यादौ सार्वधातुके जहातेरल्लोपश्च, तथा 'घुमास्था' इत जहातेर्हलादौ क्डित्यार्धधातुके ईत्वञ्च, तथा 'एर्लिडि' इति जहातेरार्धधातुके परे क्डित्येत्वञ्च, इत्येते पञ्चापि विधयो यङ्लुकि न भवन्तीत्यर्थ । कुत इत्यत आह । श्तिपेति ॥ एवञ्च जाहीत इत्यत्र 'ई हल्यघोः' इति ईत्वमेव । नत्वित्त्वविकल्प इति स्थितम् । जाहतीति ॥ 'अदभ्यस्तात्' इत्यदादेशः 'श्नाभ्यस्तयोः' इत्याल्लोपः । जाहाञ्चकार । जाहिता । जाहिष्यति । जाहेतु-जाहातु—जाहीतात् । जाहीताम् ।जाहतु । जाहीहीति ॥ हेरपित्त्वेन डित्त्वादीत्वम् । इह 'आ च हौ' इति न । विधिलिङ्याह । जाहीयादिति ॥ 'ई हल्यघोः' इति ईत्वमेव । 'लोपो यि' इत्याल्लोपस्तु न । आशिषि । जाहायादिति ॥ इह 'घुमास्था' इति ईत्वन्न । 'एर्लिङि' इत्यपि न । अजाहासीदिति ॥ 'यमरम' इति सगिटौ । 'ञि ष्वप् शये' अस्य यङ्लुकि 'स्वपिस्यमिव्यङा यडि' इति सम्प्रसारणमाशङ्क्य आह । लुका लुते इति ॥ उत्त्वन्नेति ॥ वस्य सम्प्रसारणन्नेत्यर्थः । ईडभावपक्षे 'रुदादिभ्यः'