(सू २२९९) इति न वृद्धिः । अजङ्गमीत् । अजङ्गमिष्टाम् । हन्तेर्यङ्लुक् । 'अभ्यासाच्च' (सू २४३०) इति कुत्वम् । यद्यपि 'हो हन्तेः--' (सू ३५८) इत्यतो 'हन्तेः' इत्यनुवर्त्य विहितम्। तथापि यङ्लुकि भवत्येवेति न्यासकारः । 'श्तिपा शपा' (प १३२) इति निषेधस्त्वनित्यः । 'गुणो यङ्लुकोः' (सू २६३०) इति सामान्यापेक्षज्ञापकादिति भावः । जङ्घनीति । जङ्घन्ति । जङ्घतः । जङ्घ्नति । जङ्घनिता । श्तिपा निर्देशाज्जादेशो न । जङ्घहि । अजङ्घनीत्--अजङ्घन् । जङ्घन्यात् । आशिषि तु वध्यात् । अवधीत् । अवधिष्टामित्यादि । वधादेशस्य द्वित्वन्तु न भवति । स्थानिवत्त्वेन 'अनभ्यासस्य' इति निषेधात् । तद्धि समानाधिकरणं धातोर्विशेषणम् । बहुव्रीहिबलात् । आङ्पूर्वात्तु 'आङो
'श्तिपा शपा' इति निषेधात्कथमिह 'हो हन्ते.' इति कुत्वमित्याक्षेप. । गुणः इति ॥ 'गुणो यङ्लुकोः' इति ज्ञापकादित्यन्वय. । 'एकाचो द्वे प्रथमस्य' इत्यत्र एकग्रहणाद्यङ्लुकि द्विर्वचनस्याभावादभ्यासाभावात् 'गुणो यङ्लुको' इत्यभ्यासस्य गुणविधान 'श्तिपा शपा' इत्यादि निषेधस्य क्वचिद्यङ्लुकि अप्रवृत्ति ज्ञापयतीत्यर्थ । नन्वेकाज्ग्रहणविधेरेव यङ्लुकि क्वचिदप्रवृत्तिज्ञापनलाभेऽपि 'हो हन्तेः' इति श्तिपा निर्देशनिमित्तकनिषेधस्य कथं यङ्लुकि अप्रवृत्ति स्यादित्यत आह । सामान्यापेक्षेति ॥ 'गुणो यङ्लुकोः' इत्यभ्यासस्य गुणविधानमेकाज्ग्रहणस्यानित्यत्व ज्ञापयत् तद्वचनोपात्तत्वसामान्यात् 'श्तिपा शपा' इत्यादिसर्वनिषधाना यङ्लुकि क्वचिदप्रवृत्ति ज्ञापयतीत्यर्थः । इति भावः इति ॥ न्यासकृत इति शेषः । जङ्घनीतीति ॥ 'नुगतः' इति नुक् । जङ्घतः इति ॥ 'अनुदात्तोपदेश' इत्यनुनासिकलोपः । जङ्घ्नतीति ॥ 'गमहन' इत्युपधालोपः । जङ्घनितेति ॥ एकाज्ग्रहणादिण्निषेधो न ।जङ्घहीत्यत्र 'हन्तेर्जः' इत्याशङ्क्य आह । शितपेति ॥ अजङ्घन्निति ॥ लडस्तिपि ईडभावे अजङ्घन् त् इति स्थिते हल्ड्यादिलोप इति भावः । आशिषि तु वध्यादिति ॥ अयं भावः । जङ्घन् इत्यस्मादाशीर्लिङि 'हनो वध लिङि' इति वधादेशः । प्रकृतिग्रहणेन यङ्लुगन्तस्यापि ग्रहणादिति भावः । अवधीदिति ॥ जङ्घन् इत्यस्माल्लुडस्तिपि 'लुडि च' इति वधादेशे 'अस्तिसिचः' इति नित्यमीडिति भाव । ननु हनो यङ्लुगन्तात् आशीर्लिङो लुङश्च तिपि द्वित्वात्प्रागेव वधादेशे कृते तस्य द्वित्व कुतो न स्यादित्यत आह । वधादेशस्य द्वित्वन्तु न भवतीति ॥ कुत इत्यत आह । स्थानिवत्त्वेनेति ॥ वधादेशात्परत्वादादौ द्वित्वे कृते सति कृतद्विर्वचनस्य स्थाने वधादेश. । तस्य च स्थानिवत्त्वेन साभ्यासतया अनभ्यासस्येति निषेधान्न द्वित्वमित्यर्थः । ननु साभ्यासस्य स्थाने भवन् वधादेशः स्थानिवत्त्वेन साभ्यासोऽस्तु । द्वित्वन्दुर्वारम् । साभ्यासत्वेऽप्यभ्यासानात्मकत्वात् अनभ्यासस्येत्यनेन धातोरवयवस्याभ्यासद्वित्वनिषेधादित्यत आह । तद्धीति ॥ धात्ववयवस्य अभ्यासस्येति नार्थः । किन्तु अनभ्यासो यो धातुः तदवयवस्यैकाच इत्येव । अनभ्यासग्रहणं सामानाधिकरण्येन धातोर्विशेषण-