पदान्तस्य सस्य दः स्यात्तिपि न त्वस्तेः । [ससजुषोरित्यस्यापवाद:] अचकान्-अचकाद् । अचकासुः ।
२४८५ । सिपि धातो रुर्वा । (८-२-७४)
पदान्तस्य धातोः सस्य रुः स्याद्वा । पक्षे [जश्त्वेन] दः । अचकाः--अचकात् । शासु १०७५ अनुशिष्टौ । शास्ति ।
२४८६ । शास इदङ्हलोः । (६-४-३४)
शास उपधाया इत्यस्यादङि हलादौ कृिति च । 'शासिवसि-'(सू २४१०) इति षः । शिष्टः । शासति । शशास । शशासतुः । शास्तु-शिष्टात् । शिष्टाम् । शासतु
२४८७ । शा हौ । (६-४-३५)
शास्ते: शादेशः स्याद्धौ परे । तस्याभीयत्वेनासिद्धत्वाद्धेर्धिः । शाधि । अशात् । अशिष्टाम् । अशासुः । अशात्-अशाः । शिष्यात् । 'सर्तिशास्ति--'
इत्यनुवर्तते । 'ससजुषोः' इत्यतः स इति षष्ठ्यन्तमनुवर्तते । 'वसुस्रसुध्वंस्वनडुहां दः' इत्यतः द इति । तदाह । पदान्तस्येत्यादिना ॥ अनस्तेः किम् । 'सलिल सर्वमा इदम्' आः इत्यसधातोर्लडस्तिपि इकारलोपे 'बहुलं छन्दसि ' इति 'अस्ति सिच.' इति ईडभावे हल्ड्यादिलोपे रूपम् । प्रकृते तु चकासेर्लडस्तिपो हल्ङ्यादिलोपे सकारस्य दत्वे 'वाऽवसाने' इति चर्त्वजश्त्वे इत्यभिप्रेत्याह । अचकात्-अचकादिति ॥ अचकासुरिति ॥ सिजभ्यस्तेति जुसिति भावः । सिपि धातो रुर्वा ॥ पदस्येत्यधिकृतम् । 'झलाञ्जशोऽन्ते' इत्यतः अन्ते इत्यनुवृत्तम् 'ससजुषोः' इत्यतः स इति लुप्तषष्ठीकमनुवर्तते । तदाह । पदान्तस्येति | पक्षे इति ॥ वसुस्रस्वित्यत तदनुवृत्तेरिति धावः । सिपि धातुत्वस्य अव्यभि चाराद्धातोरित्युत्तरार्थम् । अचकासीत् । अचकासिष्यत् । शासुधातुरुदित् सेट् । शास इदङ्हलोः ॥ 'अनिदितां हल' इत्यतः उपधायाः क्डिति इत्यनुवर्तते । तदाह । शास उपधायाः इति । शासतीति ॥ जक्षादित्वेन अभ्यस्तत्वाददादेश इति भावः । शास्सि । शिष्ठः । शास्मि । शिष्वः । शिष्मः । आशासते इत्यत्र तु नेत्त्वम् । अङ्योग्यस्य परस्मैपदिन एव ग्रहणादिति भाष्ये स्पष्टम् । शशासेति ॥ शशासिथ । शासिता । शासिष्यति । शास् हि इति स्थिते आह । शा हौ ॥ शा इति लुप्तप्रथमाकम् । 'शास इदड्' इत्यतः शास इत्यनुवर्तते । तदाह । शास्तेरिति ॥ इत्त्वापवादः । ननु शासेश्शाभावे सति झल्परत्वाभावात्कथं हेर्धिरित्यत आह । तस्याभीयत्वेनेति ॥ यद्यपि 'धि च' इति सलोपे शाधीति सिद्धम् । तथापि सलोपस्यासिद्धत्वात् ‘शास इत्’ इति इत्त्वं स्यात् । तन्निवृत्तये शाविधानमित्याहुः । लङ्याह । अशादिति ॥ 'तिप्यनस्ते.' इति दत्वे चर्त्वविकल्प इति भावः । अशा-