पृष्ठम्:सिद्धान्तकौमुदी (बालमनोरमा उत्तर-२).djvu/१३

विकिस्रोतः तः
एतत् पृष्ठम् परिष्कृतम् अस्ति
प्रकरणम्]
२१५
बालमनोरमा ।

४१४२) । 'सनि ण्वुलि ल्युटि च न' (वा ५०५८) । दरिद्रता । अदरिद्रात् । अदरिद्रिताम् । अदरिद्रुः । दरिद्रियात् । दरिद्र्यात् । अदरिद्रीत् । इट्सकौ अदरिद्रासीत् । चकासृ १०७४ दीप्तौ । झस्य अत् । चकासति । चकासाञ्चकार । 'धि च' (सू २२४९) इति सलोपः सिच एवेत्येके । चकाद्धि । 'चकाधि' इत्येव भाष्यम् ।

२४८४ । तिप्यनस्तेः । (८-२-७३)


सनि ण्वुलि ल्युटि च नेति ॥ एतेषु दरिद्रातेराल्लोपो नेति वक्तव्यमित्यर्थः । ण्वुलि यथा दरिद्रायकः आतो युक् । ल्युटि यथा दरिद्राणः । अनादेशे कृते आल्लोपाभावात् सवर्णदीर्घ । सनि यथा दिदरिद्रासति । अनन्तरस्येति न्यायादस्य वार्तिकप्राप्तस्यैव लोपस्यायन्निषेध. । तेन ‘तनिपतिदरिद्राणामुपसङ्खयानम्’ इति दरिद्रातेस्सनः इट्पक्षे ‘आतो लोप इटि च' इत्याल्लोपो भवत्येव । दिदरिद्रिषति । तदुक्त भाष्ये । 'न दरिद्रायके लोपो दरिद्राणे च नेष्यते । दिदरिद्रासतीत्येके दिदरिद्रिषतीति वा ॥' इति । दरिद्रितेति ॥ तासि इटि उदाहृतवार्तिकेन आल्लोप । 'आतो लोप इटि च' इत्यस्य सम्भवेऽपि न्याय्यत्वादत्र वार्तिकोपन्यासः । दरिद्रिष्यति । दरिद्रातु-दरिद्रितात् । दरिद्रिताम् । दरिद्रतु। दरिद्रिहि-दीरद्रितात् । दरिद्रितम् । दरिद्रित । दरिद्राणि । दरिद्राव । दरिद्राम । लङ्याह । अदरिद्रादिति ॥ इत्त्वम्मत्वा आह । अदरिद्रितामिति ॥ अदरिद्रुरिति ॥ जक्षित्यादित्वेन अभ्यस्तत्वाज्जुसिति भाव. । अदरिद्राः । अदरिद्रितम् । अदरिद्रित । अदरिद्राम् । अदरिद्रिव । अदरिद्रम । दरिद्रियादिति ॥ विधिलिङि सार्वधातुकत्वादित्त्वमिति भाव । आशीर्लिङ्याह। दरिद्र्यादिति ॥ 'आतो लोप' इति भाव । लुङि आतो लोपपक्षे आह। अदरिद्रीदिति ॥ अदरिद्रिष्टामित्यादि । आल्लोपाभावपक्षे त्वाह । इट्सकाविति ॥ अदरिद्रिष्यत् । चकासृदीप्ताविति ॥ ऋदित् सेट्। चकास्ति। चकास्तः इति सिद्धवत्कृत्य आह । झस्य अदिति ॥ जक्षित्यादित्वेन अभ्यस्तत्वादिति भाव.| चकासतीति ॥ चकास्सि । चकास्थः । चकास्थ । चकास्मि । चकास्वः । चकास्मः । चकासाञ्चकारेति ॥ अनेकाच्त्वादामिति भाव. । चकासिता । चकासिष्यति । चकास्तु । चकास्ताम् । चकासतु । हेर्धिभावे चकास् धि इति स्थिते धि च इति सलोप इति मतान्तरमाह । सिच एवेत्येके इति ॥ 'धि च' इति लोपः सिच एवेत्येके मन्यन्ते इत्यर्थः। 'धिसकारे सिचो लोपः' चकाद्धि इति प्रयोजनम् इति वार्तिकादिति तदाशयः। अस्मिन्पक्षे सकारस्य जश्त्वेन दकार. । तदाह । चकाद्धीति ॥ एक इत्यस्वरसोद्भावनम् । तद्बीजन्तु 'धिसकारे सिचो लोपः' इति वार्त्तिक प्रत्याख्याय सकारमात्रस्य 'धि च' इति लोपस्याभ्युगमः । तदाह । चकाधीत्येव भाष्यमिति ॥ चकास्तात् । चकास्तम् । चकास्त । चकासानि । चकासाव । चकासाम । लङि अ चकास् त् इति स्थिते । तिप्यनस्तेः ॥ न अस्तिः अनस्तिः तस्येति विग्रहः । पदस्येत्यधिकृतम् । 'झलाञ्जशोऽन्ते ' इत्यतः अन्ते