पृष्ठम्:सिद्धान्तकौमुदी (बालमनोरमा उत्तर-२).djvu/१२

विकिस्रोतः तः
एतत् पृष्ठम् परिष्कृतम् अस्ति
२१४]
अदादि
सिद्धान्तकौमुदीसहिता


दरिद्रातेरिकारः स्याद्धलादौ क्ङिति सार्वधातुके । दरिद्रितः

२४८३ । श्नाभ्यस्तयोरातः । (६-४-११३)

अनयोरातो लोपः स्यात्क्ङिति सार्वधातुके। दरिद्रति । अनेकाच्त्वादाम् । दरिद्राञ्चकार । 'आत औ णल:' (सू २३७१) इत्यत्र 'ओ, इत्येव सिद्धे औकारविधानं दरिद्रातेरालोपे कृते श्रवणार्थम् । अत एव ज्ञापकादाम्नेत्येके । ददरिद्रौ । ददरिद्रतुरित्यादि । यत्तु णलि ददरिद्रेति तन्निर्मूलमेव । 'दरिद्रातेरार्धधातुके विवक्षिते आलोपो वाच्यः' (वा ४१४६) । 'लुङि वा' (वा


'ई हल्यघो' इत्यत: हलि इति ‘अत उत्' इत्यतः सार्वधातुके इति । तदाह । दरिद्रातेरिति ॥ 'श्नाभ्यस्तयोः' इत्याल्लोपापवादः । अलोऽन्त्यस्येत्यन्त्यस्य इकार । दरिद्रितः इति ॥ 'सार्वधातुकमपित्' इति तसो डित्त्वादाकारस्य इकारः । श्नाभ्यस्तयोरातः ॥ 'गमहन' इत्यतः लोपः क्डितीत्यनुवर्तते । 'अत उत्' इत्यतः सार्वधातुके इति । तदाह । अनयोरिति ॥ श्नाप्रत्ययस्य अभ्यस्तस्य चेत्यर्थ. । दरिद्रतीति ॥ जक्शित्यादित्वादभ्यस्तत्वाददभ्यस्तादिति झस्य अदादेशे आकारलोपः । दरिद्रासि । दरिद्रिथः । दरिद्रिथ । दरिद्रामि । दरिद्रिवः । दरिद्रिमः । लिड्याह । अनेकाच्त्वादामिति ॥ इदञ्च ‘कास्प्रत्ययात्’ इति सूत्रभाष्ये स्पष्टम् । दरिद्राञ्चकारेति ॥ आमि सवर्णदीर्घः । कैयटमतमाह । आतः इति ॥ 'आत औ णल:' इत्यत्र प्रथमातिक्रमे कारणाभावात् ओकार एव विधातुमुचितः । वृद्धौ सत्यान्तावतैव ययौ इत्यादिसिद्धेः । तस्मादौकारविधान दरिद्राधातोर्णलि 'दरिद्रातेरार्धधातुके लोपो वक्तव्यः' इत्याल्लोपे ददरिद्रौ इत्यौकारश्रवणार्थ सम्पद्यते । ओकारविधाने तु आल्लोपे सति वृद्धेरसम्भवात् ददरिद्रो इत्योकार एव श्रूयेतेत्यर्थः । अत एवेति ॥ अस्मादेव दरिद्रातेः औकारश्रयणार्थात् औकारविधानाद्दरिद्रातेर्लिटि आम् नेति विज्ञायते । आमि सति णल एवाप्रसक्तेरित्यर्थः । इदञ्च ‘वस्वेकाजाद्धसाम्’ इति सूत्रभाष्ये ध्वनित कैयटेन स्पष्टीकृतम् । तन्निर्मूलमेवेति ॥ 'कास्प्रत्ययात्' इति 'वस्वेकाच्’ इति सूत्रस्यभाष्यकैयटविरोधादिति भाव. । ददरिद्रतुः। ददरिद्रुः। ददरिद्रिथ | ददरिद्रथुः । ददरिद्र । ददरिद्रौ । ददरिद्रिव । ददरिद्रिम । आर्धधातुके विवक्षिते इति ॥ 'आतो लोप इटि च' इत्याल्लोपो दरिद्रातेर्भवन् क्डिति अक्डिति च अजादावार्धधातुके भवति । स च आर्धधातुके विवक्षिते ततः प्रागेव भवतीति वक्तव्यमित्यर्थः । तेन दरिद्रातीति दरिद्रः आल्लोपे कृते पचाद्यच् सिध्द्यति । आर्धधातुके परे आल्लोपप्रवृत्तौ तु 'श्याद्व्यधा' इत्यादन्तलक्षणो णप्रत्ययः स्यात् । ततश्च कृते णप्रत्यये आल्लोप बाधित्वा 'आतो युक् चिण्कृतो.' इति युकि दरिद्राय इति स्यात् । आर्धधातुके विवक्षिते तत प्रागेव आल्लोपे तु कृते आदन्तत्वाभावात् णप्रत्ययाभावे पचाद्यच्प्रत्ययो निर्बाध । तदिदं भाष्ये स्पष्टम् । लुङि वेति ॥ लुङि आल्लोपे वा वक्तव्य इत्यर्थः । 'अद्यतन्या वेति वक्तव्यम्’ इति वार्तिकार्थसङ्ग्रहोऽयम् । अद्यतन्यामित्यनेन अद्यतनभूतार्थकधातुविहितलुङ्विभक्तिर्विवक्षिता । भाष्ये तस्या एवोदाहरणात् ।