क्षुभ्नादित्वान्न णः । नरीनृत्यते । जरीगृह्यते । उभयत्र लत्वम् । चलीक्लृप्यते । 'रीगृत्वत इति वक्तव्यम्' (वा ४६६२) । परीपृच्छ्यते । वरीवृश्च्यते ।
२६४५ । स्वपिस्यमिव्येञां यङि । (६-१-१९)
सम्प्रसारणं स्याद्यङि । सोषुप्यते । सेसिम्यते । वेवीयते ।
२६४६ । न वशः । (६-१-२०)
वावश्यते ।
२६४७ । चायः की । (६-१-२१)
चेकीयते ।
तदनुवृत्तेरिति भावः । यङ्लुकोरिति ॥ 'गुणो यङ्लुकोः' इत्यतस्तदनुवृत्तेरिति भावः । वरीवृत्यते इति ॥ 'वृतु वर्तने' अस्माद्यडि द्वित्वे उरदत्त्वे हलादिशेषे अभ्यासस्य रीक् । नृतेर्यङि नरीनृत्यते इत्यत्र णत्वमाशङ्क्य आह । क्षुभ्नादित्वान्न णः इति ॥ जरीगृह्यते इति ॥ 'ग्रह उपादाने' अस्माद्यडि 'ग्रहिज्या' इति सम्प्रसारणे द्वित्वे उरदत्त्वे हलादिशेषे अभ्यासस्य रीक् । उभयत्रेति ॥ कृपधातो. यङि द्वित्वे उरदत्त्वे रपरत्वे हलादिशेषे रीक् । चलीक्लृप्यते इत्यत्र 'कृपो रो लः' इत्यभ्यासे रेफस्य लकार । उत्तरखण्डे ॠकारस्यावयवो रेफः तस्य लकारसदृश इत्यर्थः । ननु व्रश्च्धातोर्यङि वरीवृश्च्यते इत्यत्र कथमभ्यासस्य रीक् । धातो शकारोपधत्वेन ॠदुपधत्वाभावादित्यत आह । रीगृत्वतः इति ॥ 'रीगृदुपधस्य' इत्यत्र ॠदुपधस्येत्यपनीय ॠत्वत इति वक्तव्यमित्यर्थ. । ॠत् अस्यास्तीति ॠत्वत् । 'तसौ मत्वर्थे' इति भत्वात् पदत्वाभावान्न जश्त्वम् । परीपृच्छ्यते इति ॥ प्रच्छधातोर्यङि 'ग्रहिज्या' इति रेफस्य सम्प्रसारणमृकार । पूर्वरूप द्वित्व रपरत्वं हलादिशेषः रीक् । वरीवृश्च्यते इति ॥ व्रश्चधातोर्यङि सम्प्रसारणे द्वित्वादि पूर्ववत् । स्वपिस्यमि ॥ सम्प्रसारण स्यादिति शेषपूरणम् । 'ष्यङ सम्प्रसारणम्' इत्यतस्तदनुवृत्तेरिति भाव । सोषुप्यते इति ॥ स्वप्धातोर्यङि वकारस्य सम्प्रसारणे उकारे पूर्वरूपे द्वित्वे अभ्यासगुणः । उत्तररवण्डे सस्य षत्वम् । सेसिम्यते इति ॥ स्यमुधातोर्यङि यकारस्य सम्प्रसारणे पूर्वरूपे द्वित्वादि । अषोपदेशत्वान्न षः । वेवीयते इति ॥ व्येञो यङि यकारस्य सम्प्रसारणे पूर्वरूपे द्वित्वादि । 'हल' इति वा 'अकृत्सार्वधातुकयोः' इति वा दीर्घः । अथ वशधातोर्यङि वावश्यते इत्यत्र 'ग्राहिज्या ' इति सम्प्रसारणे प्राप्ते तन्निषेध स्मारयति । न वशः ॥ वशधातोः छान्दसत्वम्प्रायिकमिति प्रागेवोक्तम् । चायः की ॥ यङीति शेष । 'स्वपिस्यमिव्येञां यङि' इत्यतस्तदनुवृत्तेरिति भावः । चेकीयते इति ॥ 'चायृ पूजानिशाम-