सामग्री पर जाएँ

पृष्ठम्:सिद्धान्तकौमुदी (बालमनोरमा उत्तर-२).djvu/११७

विकिस्रोतः तः
एतत् पृष्ठम् परिष्कृतम् अस्ति
प्रकरणम्]
३३१
बालमनोरमा ।

इह नित्यमपि द्वित्वं गुणेन बाध्यते । 'उपधाकार्यं हि द्वित्वात्प्रबलम्' ओणेरॄदित्करणस्य सामान्यापेक्षज्ञापकत्वात् ।

२६१८ । सनीवन्तर्धभ्रस्जदम्भुश्रिस्वृयूर्णुभरज्ञपिसनाम् ।

(७-२-४९)

इवन्तेभ्यः ऋधादिभ्यश्च सन इड्वा स्यात् । इडभावे 'हलन्ताच्च' (सू २६१३) इति कित्त्वं । 'च्छ्वोः -' (सू २५६१) हति वस्य ऊठ् । यण् । द्वित्वम् दुद्यूषति-दिदेविषति । 'स्तौतिण्योरेव–' (सू २६२७) इति वक्ष्यमाणनियमान्न षः । सुस्यूषति-सिसेविषति ।


धात्ववयवस्य इकारस्य उपधात्वाभावादेव गुणाप्रसत्तेर्हलादेरिति व्यर्थमित्यत आह । इह नित्यमपि द्वित्वं गुणेन बाध्यते इति ॥ कुत इत्यत आह । उपधाकार्यं हि द्वित्वात्प्रबलमिति ॥ तच्च कुत इत्यत आह । ओणेरिति ॥ ओणे. ॠदित्करणस्य ज्ञापकत्वादित्यन्वय. । तथाहि । ओणृधातोः ण्यन्ताल्लुडि चडि 'णौ चड्युपधायाः' इति ह्रस्वस्य 'नाग्लोपिशास्वृदिताम्' इति निषेधे सति ओणि अ त् इति स्थिते णि इत्यस्य द्वित्वे मा भवानोणिणदिति रूपम् । अत्र उपधाह्रस्वनिषेधार्थमोणेः ॠदित्करणम् । उपधाह्रस्वे कृते तु उण् इ अ त् इति स्थिते णि इत्यस्य द्वित्वे मा भवानुणिणदिति स्यात् । ओकारो न श्रूयेत इति स्थितिः । यदि तु नित्यत्वात् उपधाह्रस्वात् प्रागेव ओण् इ अ त् इत्यस्यां दशाया द्वित्वं स्यात् । तदा ओकारस्य उपधात्वाभावादेव ह्रस्वाप्रसक्तेस्तन्निषेधार्थमृदित्करणमनर्थक स्यात् । तस्मादुपधाह्रस्वात्मक उपधाकार्य द्वित्वात् प्रबलमिति विज्ञायते इत्यर्थ. । ननु भवतु उपधाह्रस्वो द्वित्वात् प्रबलः । प्रकृते तु उपधागुणः कथ द्वित्वात् प्रबलः स्यादित्यत आह । सामान्यापेक्षेति ॥ उपधाह्रस्वस्य उपधाकार्यत्वेन रूपेण द्वित्वात् प्राबल्यविज्ञानादित्यर्थः । वस्तुतस्तु 'णौ चड्युपधाया.' इति सूत्रे यदयमोणिमृदितङ्करोति तत् ज्ञापयति द्विर्वचनाध्द्रस्वत्व बलीय इति भाष्ये विशिष्य उपधाह्रस्वग्रहणात् सामान्यापेक्षत्वं ज्ञापकस्य चिन्त्यमिति शब्देन्दुशेखरे प्रपञ्चितम् । सनीवन्तर्ध ॥ सनि इवन्तेति च्छेद । इवन्त ॠध भ्रस्ज दन् भु श्रि स्वृ यु ऊर्णु भर ज्ञपि सन् एषान्द्वन्द्वः । इव् अन्ते येषान्ते इवन्ताः 'स्वरति' इत्यतः वेति 'इण्निष्ठायाम्' इत्यतः इडिति चानुवर्तते । तदाह । इवन्तेभ्यः इत्यादि॥ इवन्तस्य दिव्धातोरुदाहरिष्यन्नाह । इडभावे इति । वस्येति ॥ वकारस्येत्यर्थः । यणिति ॥ दकारादिकारस्य इति शेषः । द्वित्वमिति ॥ द्यु इत्यस्येति शेषः । दुद्यूषतीति ॥ 'अज्झन' इति दीर्घः । इट्पक्षे आह । दिदेविषतीति ॥ अझलादत्वान्न सनः कित्व अतो नोठ् किन्तु लघूपधगुण इति भावः । इवन्तस्योदाहरणान्तर सिवुधातोः सुस्यूषतीति वक्ष्यते । तत्र द्वितीयस्य षत्वमाशङ्क्य आह । स्तौतिण्योरिति । सुस्यूषतीति ॥ सिवुधातोः सनि इडभावे दुद्यूषतीतिवद्रूपम् । इट्पक्षे आह । सिसेविषतीति ॥ ॠध्धातोः सनि ईर्त्सतीति रूप वक्ष्य-