सामग्री पर जाएँ

पृष्ठम्:सिद्धान्तकौमुदी (बालमनोरमा उत्तर-२).djvu/११५

विकिस्रोतः तः
एतत् पृष्ठम् परिष्कृतम् अस्ति
प्रकरणम्]
३२९
बालमनोरमा ।


बिभित्सति । 'इकः' किम् । यियक्षते । 'झल्' किम् । विवर्धिषते । हल्ग्रहणं जातिपरम् । तृंहू तितृक्षति-तितृंहिषति ।

२६१४ । अज्झनगमां सनि । (६-४-१६)

अजन्तानां हन्तेरजादेशगमेश्च दीर्घः स्याज्झलादौ सनि । 'सन्लिटोर्जे:' (सू २३३१) । जिगीषति । 'विभाषा चे:' ( सू २५२५) । चिकीषति--चिचीषति । जिघांसति ।

२६१५ । सनि च । (२-४-४७)

इणो गमिः स्यात्सनि न तु बोधने । जिगमिषति । बोधने प्रतीषिषति ।


इत्यूदित्त्वेऽपि नित्यन्नेट् । हस्य ढत्वे भष्भावे कत्वषत्वे इति भावः । बिभित्सतीति ॥ भिदेस्सन. कित्त्वान्न गुण. । यियक्षते इति ॥ अत्र हल: इक्समीपत्वाभावान्न कित्त्वम् । सति तु कित्त्वे यजेस्सम्प्रसारण स्यादिति भावः । विवर्धिषते इति ॥ वृधेस्सनि रूपम् । अत्र सन इटि झलादित्वन्नेति भाव । ननु ‘तृहू हिंसायाम्’ तुदादि नोपधोऽयम् । कृतानुस्वारस्य निर्देशः । अस्मात्सन . 'अनिदिताम्' इति नलोपार्थङ्कित्त्वमिष्यते । तन्नोपपद्यते । न ह्यत्र इत्समीपादनुस्वारात् सन् परो भवति । हकारेण व्यवधानात् । हकारात्तु परः सन् इक्समीपाद्धल परो न भवति । अनुस्वारेण व्यवधानादित्यत आह । हल्ग्रहणं जातिपरमिति ॥ हल्त्वजात्याक्रान्तैकानेकव्यक्तिपरमित्यर्थ. । तृंह्विति ॥ तृहूधातोः प्रदर्शनमिदम् । तितृक्षतीति ॥ ऊदित्त्वादिडभावे पक्षे रूपम् । सनः कित्त्वान्नलोपः । लघूपधगुणाभावश्च । ढत्वकत्वषत्वानि । इट्पक्षे आह । तितृंहिषतीति ॥ झलादित्वाभावेन कित्त्वाभावान्नलोपो नेति भावः । अज्झनगमां सनि ॥ अच् हन् गम् एषान्द्वन्द्वः । 'नोपधाया.' इत्यतः उपधायाः इत्यनुवृत्त हनगमोरन्वेति नत्वजन्ते । असम्भवात् । अङ्गस्येत्यधिकृतम् । अचस्तद्विशेषणत्वात्तदन्तविधिः । गमधातुरिह अजादेश एव विवक्षित इति प्रकृतसूत्रभाष्ये स्पष्टम् । 'ढ्रलोपे पूर्वस्य' इत्यतो दीर्घ इत्यनुवर्तते । तदाह । अजन्तानामित्यादिना ॥ झलादौ सनीति ॥ 'च्छ्वो शूठ्' इति सूत्रभाष्ये 'अज्झनगमाम्' इत्यत्र सन झला विशेषयिष्याम इत्युक्तेरिति भाव. । अथ जिधातोरभ्यासात् परस्य कुत्वविधि स्मारयति । सन्लिटोर्जेरिति ॥ जिगीषतीति ॥ जेर्दीर्घे अभ्यासात्परस्य कुत्वम् । अथ चिञ्धातोरभ्यासात्परस्य कुत्वविकल्पं स्मारयति । विभाषा चेरिति ॥ चिकीषति--चिचीषतीति ॥ अजन्तत्वाद्दीर्घः । जिघांसतीति ॥ हनेः सनि 'अज्झन' इत्यकारस्य दीर्घः, न त्वन्त्यस्य नकारस्य । दीर्घश्रुत्या अच इत्युपस्थिते । द्वित्वं 'अभ्यासाच्च' इति कुत्वम् । 'नश्च' इत्यनुस्वारः । सनि च ॥ 'इणो गा लुडि ' इत्यत. इण इति 'णौ गमिरबोधने' इत्यतः गमिरबोधने इति चानुवर्तते । तदाह । इणो गमिरित्यादि ॥ जिगमिषतीति ॥ गमेरिति इट् । अत्र 'अज्झनगमाम्' इति दीर्घो न । झलादौ सनीत्युक्तेः । प्रतीषिषतीति ॥ 42