पृष्ठम्:सिद्धान्तकौमुदी (बालमनोरमा उत्तर-२).djvu/१०३

विकिस्रोतः तः
एतत् पृष्ठम् परिष्कृतम् अस्ति
प्रकरणम्]
३१७
बालमनोरमा ।

२५८५ । शाच्छासाह्वाव्यावेपां युक् । (७-३-३७)

णौ । पुकोऽपवादः । शाययति । छाययति । साययति । ह्वाययति । व्याययति |

२५८६ । ह्वः सम्प्रसारणम् । (६-१-३२)

सन्परे चङ्परे च णौ ह्वः सम्प्रसारणं स्यात् । अजूहवत्-अजुहावत् |

२५८७ । लोपः पिबतेरीच्चाभ्यासस्य । (७-४-४)

पिबतेरुपधायाः लोपः स्यात् अभ्यासस्य ईदन्तादेशश्च चङ्परे णौ । अपीप्यत् । 'अर्तिह्री-' (सू २५७०) इति पुक् । अर्पयति । ह्रेपयति । व्लेपयति । रेपयति । यलोपः । क्नोपयति । क्ष्मापयति । स्थापयति ।


इति वचनात्कृते सम्प्रसारणे द्वित्व पूर्वरूप सन्वत्त्वदीर्घौ षत्वमिति भावः । शाच्छासा ॥ 'शो तनूकरणे, छो छेदने, पो अन्तकर्मणि, ह्वेञ् स्पर्धाया शब्दे च, व्येञ् सवरणे' एषाङ्कृतात्वनिर्देश. 'वेञ् तन्तुसन्ताने' 'पा पाने' भ्वादि.।एषान्द्वन्द्वात् षष्ठीबहुवचनम् । णौ परे इति शेषपूरणम् । आदन्तलक्षणयुकोऽपवाद । युकि ककार इत् उकार उच्चारणार्थ कित्त्वादन्तागमः । अत्र 'लुग्विकरणालुग्विकरणयोरलुग्विकरणस्य ग्रहणम्' इति वचनात् 'पा रक्षणे' इति न गृह्यते । तस्य तु पालयतीति रूपमनुपदमेव वक्ष्यति । शाययतीति ॥ लुडि अशीशयत् । छाययतीति ॥ अचिच्छयत् । साययतीति ॥ असीषयत् । ह्वाययतीति ॥ लुडि तु विशेषो वक्ष्यते । व्याययतीति ॥ अविव्ययत् । वाययति । अवीवयत् । पाययति । लुडि तु विशेषो वक्ष्यते । ह्वः सम्प्रसारणम् ॥ ह्वेञ कृतात्त्वस्य ह्व इति षष्ठी । 'णौ च सश्चडो.' इत्यनुवृत्तिमभिप्रेत्य आह । सन्पर इत्यादि । अजूहवदिति ॥ ह्व इ अ त् इति स्थिते “सम्प्रसारणन्तदाश्रयञ्च कार्यम्बलवत्” इति वचनात् कृते सम्प्रसारणे पूर्वरूपे च हु इत्यस्य द्वित्वे उत्तरखण्डस्य वृध्द्यावादेशयो. कृतयोरुपधाह्रस्वे सन्वत्त्वदीर्घाविति भावः । अत्र कृते सम्प्रसारणे पूर्वरूपे च ह्वारूपाभावान्न युक् । पाधातोर्णौ युगागमे पायि इत्यस्माल्लुडि चडि द्वित्वादौ अपीपय् अ त् इति स्थिते । लोपः पिबतेः । चङ्परे णाविति ॥ 'णौ चड्युपधायाः' इत्यतस्तदनुवृत्तेरिति भावः । अपीप्यदिति ॥ “नानर्थकेऽलोऽन्त्यविधिः” इत्यस्य अनभ्यासविकार इति निषेधादभ्यासान्त्यस्य ईत्त्वम् । इह उपधालोपे कृते अग्लोपित्वादलघूपधत्वाच्च सन्वत्त्वदीर्घयोरप्राप्तावीत्त्वविधि । अर्तिह्री इति । पुगिति ॥ क्रमेणोदाह्रियत इति शेष । अर्पयतीति ॥ ॠधातोरुदाहरणम् । वृद्धि बाधित्वा नित्यत्वात् पुक् गुण । ह्रेपयतीति ॥ 'ह्री लज्जायाम्' इत्यस्य रूपम् । व्लेपयतीति ॥ व्ली विशरणे इत्यस्य रूपम् । रेपयतीति ॥ री क्षये इत्यस्योदाहरणम् । 'क्नूयी शब्दे' इत्यस्य क्नोपयतीत्युदाहरिष्यन्नाह । यलोपः इति ॥ क्नूयीधातोर्णौ पुकि 'लोपो व्योः' इति यलोप इत्यर्थः । तत. क्नूप् इ इति स्थिते अलघूपधत्वेऽपि पुगन्तत्वाद्गुण । क्ष्मापयतीति ॥ 'क्ष्मायी विधूनने' अस्माण्णौ पुकि यलोपः । आदन्तस्योदाहरति । स्थाप-