पृष्ठम्:सिद्धान्तकौमुदी (बालमनोरमा उत्तर-१).djvu/९६

विकिस्रोतः तः
एतत् पृष्ठम् परिष्कृतम् अस्ति
प्रकरणम्]
८५
बालमनोरमा ।

सूत्रे प्रत्ययग्रहणमपनीय तत्स्थानेऽनेकाच इति वाच्यमित्यर्थः ।

२३०७ । आर्धधातुके । (६-४-४६)

इत्यधिकृत्य ।

२३०८ । अतो लोपः । (६-४-४८)

आर्धधातुकोपदेशकाले यदकारान्तं तस्याकारस्य लोपः स्यादार्धधातुके परे । गोपायांचकार । गोपायांबभूव । गोपायामास । जुगोप । जुगुपतुः । ऊदित्त्वाद्वेट् । जुगोपिथ-जुगोप्थ । गोपायिता-गोपिता-गोप्ता । गोपाय्यात्-गुप्यात् । अगोपायीत्-अगोपीत्-अगौप्सीत् । 'धूप ३९६ संतापे' । धूपायति ।


अनेकाचश्च प्रत्ययान्ताच्चेति । ततश्च अ इवाचरति अति क्विबन्ताल्लडादयः । लिटि औ अतुरित्यादीष्टन्न सिध्द्येत् । प्रत्ययान्तत्वेन आमः प्रसङ्गात् । यदि तु कासृधातोश्च अनेकाचः प्रत्ययान्ताच्चेति व्याख्यायेत, तदा चकासृ जाग्रादिभ्यो नस्यादित्यत आह । प्रत्ययग्रहणमपनीयेति ॥ तथाच कास्धातोरनेकाचश्च आमित्येतावतैव लभ्यत इति नोक्तदोषद्वयमितीति भावः । वस्तुतस्तु अ इवाचरति अतीत्यादि नास्त्येवेति सुब्धातुनिरूपणे वक्ष्यते । तथा च गोपाय आमिति स्थितम् । अतो लोप इति ॥ अनुदात्तोपदेशवनतीत्यत. उपदेशग्रहणमित्यनुवर्तते । आर्धधातुक इत्यधिकृतम् । तदिह आवर्तते । एकमुपदेशे अन्वेति । द्वितीयन्तु लोपे परनिमित्तम् । तदाह । आर्धधातुकोपदेश इत्यादिना ॥ आर्धधातुकोपदेश इति किम् । अयपय गतौ । आभ्या क्विपि, लोपो व्योरिति लोपे, ह्रस्वस्य पितीति तुकि, अपृक्तलोपे, अत् पत्, इतीष्यते । अत्र यलोपे सति अतो लोपो न भवति । आर्धधातुकोपदेशकाले धातुत्वाद्यकारान्तत्वात् । आर्धधातुकोपदेश इत्यत्र आर्धधातुकग्रहणाभावे चिकीर्षितमित्यत्र अल्लोपो न स्यात् । सन उपदेशकाले नकारान्तत्वात् । आर्धधातुकग्रहणेतु न दोषः । अनुबन्धविनिर्मुक्तात् सन्प्रत्ययादेव क्तप्रत्ययस्य आर्धधातुकस्योत्पत्तेः । आर्धधातुके पर इति किम् । कथयति । चुरादावदन्तोऽयम् । अत्र उपधावृद्धिर्न भवति । अचः परस्मिन्नित्यल्लोपस्य स्थानिवत्त्वात् । आर्धधातुके पर इत्यनुक्तौ तु अल्लोपस्य परनिमित्तकत्वाभावात् स्थानिवत्त्व नस्यात् । तथाच प्रकृते गोपाय आमिति स्थिते अतो लोपे गोपायामिति सिध्द्यति । यद्यपि सवर्णदीर्घेणाप्येतत्सिद्धम् । तथापि न्याय्यत्वादतो लोप उपन्यस्तः । आयप्रत्ययाभावपक्षे आह । जुगोपेति ॥ पित्त्वेन कित्त्वाभावाल्लघूपधगुणः । जुगुपतुरिति ॥ कित्त्वान्न गुणः । ऊदित्त्वाद्वेडिति ॥ थलादाविति शेष. । जुगुपिव । जुगुप्व । जुगुपिम । जुगुप्म । क्रादिनियमस्तु नञ्प्राप्तस्यैवाभावस्य । नतु विभाषादिलभ्यस्येति षिधू शास्त्र इत्यत्रोक्तम् । गोपायितेति ॥ लुटि आम्प्रत्ययपक्षे नित्यमिट् । आयप्रत्ययाभावपक्षे इड्विकल्प । ऊदित्त्वस्य केवले चरितार्थत्त्वात् । तदाह । गोपिता, गोप्तेति ॥ गोपायिष्यति। गोपिष्यति । गोप्स्यति । गोपायतु । अगोपायत् । गोपायेत् । आशीर्लिङि आयप्रत्ययपक्षे अतो लोपे रूपमाह । गोपाय्यादिति ॥ आयप्रत्ययाभावे आह । गुप्यादिति ॥ लुडि सिचि आयप्रत्ययपक्षे आह । अगोपायीदिति ॥ आयप्रत्य-