पृष्ठम्:सिद्धान्तकौमुदी (बालमनोरमा उत्तर-१).djvu/९७

विकिस्रोतः तः
एतत् पृष्ठम् परिष्कृतम् अस्ति
८६
[भ्वादि
सिध्दान्तकौमुदीसहिता

धूपायाञ्चकार । दुधूप । धूपायितासि । धूपितासि । 'जप ३९७ जल्प ३९८ व्यक्तायां वाचि' । 'जप' मानसे च । 'चप ३९९ सान्त्वने' । 'पप ४०० समवाये' । समवाय: संबन्धः, सम्यगवबोधो वा । सपति । 'रप ४०१ लप ४०२ व्यक्तायां वाचि' । 'चुप ४०३ मन्दायां गतौ' । चोपति । चुचोप । चोपिता । 'तुप ४०४ तुम्प ४०५ त्रुप ४०६ त्रुम्प ४०७ तुफ ४०८ तुम्फ ४०९ त्रुफ ४१० त्रुम्फ ४११ हिंसार्थाः' । तोपति । तुतोप । तुम्पति । तुतुम्प । तुतुम्पतुः । संयोगात्परस्य लिटः कित्वाभावान्नलोपो न । 'किदाशिषि' (२२१६) इति कित्त्वान्नलोपः । तुप्यात् । 'प्राप्तुम्पतौ गवि कर्तरि' इति पारस्करादिगणे पाठात्सुट् । प्रस्तुम्पति गौः । श्तिपा निर्देशाद्यङ्लुकि न । प्रतोतुम्पीति । त्रोपति । त्रुम्पति । तोफति । तुम्फति । त्रोफति । त्रुम्फति । इहाद्यौ द्वौ पञ्चमषष्ठौ च नीरेफाः । अन्ये सरेफाः । आद्याश्चत्वारः प्रथमान्ताः । ततो द्वितीयान्ताः । अष्टावप्युकारवन्तः । 'पर्ष ४१२ रफ ४१३ रफि ४१४ अर्ब ४१५ पर्ब ४१६ लर्ब ४१७ बर्ब ४१८ मर्ब ४१९ कर्ब ४२० खर्ब ४२१ गर्ब ४२२ शर्ब ४२३ षर्ब ४२४ चर्ब ४२५ गतौ' । आद्यः प्रथमान्तः । ततो द्वौ द्वितीयान्तौ । तत एकादश तृतीयान्ताः । द्वितीयतृतीयौ मुक्त्वा सर्वे रोपधाः । पर्पति । पपर्प । रफति । रम्फति । अर्बति । आनर्ब । पर्बति । लर्बति । बर्बति । पवर्गीयादिरयम् । मर्बति । कर्बति । खर्बति । गर्बति । शर्बति । सर्बति । चर्बति । 'कुबि ४२६ आच्छादने' । कुम्बति । 'लुबि ४२७ तुबि ४२८ अर्दने' । लुम्बति । तुम्बति । 'चुबि ४२९ वक्त्रसंयोगे' । चुम्बति । 'पृभु ४३० पृम्भु ४३१


याभावपक्षे इटि रूपमाह । अगोपीदिति ॥ इट ईटीति सिज्लोपः । नेटीति हलन्तलक्षणवृद्धेर्निषेधः । इडभावेतु इटः परत्वाभावात् नसिज्लोप इत्याह । अगौप्सीदिति ॥ वदव्रजेति वृद्धिः । अगोपायिष्यत् । अगोपिष्यत् । अगोप्स्यत् । धूप सन्ताप इति ॥ गुपूधूप इत्यायः । आर्धधातुके तद्विकल्पः । षप समवाय इति ॥ षोपदेशोऽयम् । चुप मन्दायामिति ॥ चवर्गप्रथमादिरयं । चवर्गादिस्त्वनिट्कः । तुपतुम्पेति ॥ अष्टावप्युदुपधाः तृतीयचतुर्थौ सप्तमाष्टमौ च रेफवन्तः इति मूले स्पष्टीभविष्यति । तुतुम्पतुरित्यत्र नलोपमाशङ्क्याह । संयोगादिति ॥ आशीर्लिङि विशेषमाह । किदाशिषीति । प्राक्तुम्पताविति ॥ श्तिपा निर्देशोऽयम् । तुम्पधातौ परे सुट् स्यात् गविकर्तरि सतीत्यर्थः । आदेः परस्येति तुम्पधातोः सुट् आद्यवयवः सुड्विधावस्मिन् तुम्पताविति श्तिपानिर्देशस्य प्रयोजनमाह । श्तिपानिर्देशाद्यड् लुकि नेति ॥ श्तिपा शपाऽनुबन्धेनेत्युक्तेरिति भावः । षृभुषृम्भु इति ॥ ॠदुपधौ षोपदेशौ । सृभ्यादिति ॥ आशी-