पृष्ठम्:सिद्धान्तकौमुदी (बालमनोरमा उत्तर-१).djvu/९५

विकिस्रोतः तः
एतत् पृष्ठम् परिष्कृतम् अस्ति
८४
[भ्वादि
सिध्दान्तकौमुदीसहिता

२३०३ । गुपूधूपविच्छिपणिपनिभ्य आयः । (३-१-२८)

एभ्य आयप्रत्ययः स्यात्स्वार्थे । 'पुगन्त-' (२१८९) इति गुणः ।

२३०४ । सनाद्यन्ता धातवः । (३-१-३२)

सनादय: कमेर्णिङन्ताः प्रत्यया अन्ते येषां ते धातुसंज्ञाः स्युः । धातुत्वाल्लडादयः । गोपायति ।

२३०५ । आयादय आर्धधातुके वा । (३-१-३१)

आर्धधातुकविवक्षायामायादयो वा स्युः ।

२३०६ । कास्प्रत्ययादाममन्त्रे लिटि । (३-१-३५)

कास्धातो: प्रत्ययान्तेभ्यश्चास्स्याल्लिटि न तु मन्त्रे ।

कास्यनेकाज्ग्रहणं कर्तव्यम् ।


एभ्य इति ॥ गुपू धूप विच्छि पणि पनि इत्येभ्य इत्यर्थ । अर्थनिर्देशाभावादाह । स्वार्थ इति ॥ आयप्रत्ययः अकारान्तः । तत्फलन्तु गोपायतन्नसुमनस्यमान इत्यत्र गोपायेत्यस्य धातुस्वरेणान्तोदात्तस्य शबकारेण एकादेशस्यापि, एकादश उदात्तेनोदात्त इत्युदात्तत्वे, तमित्यस्य अदुपदेशात्परसार्वधातुकत्वेन अनुदात्तस्य 'उदात्तादनुदात्तस्य स्वरितः' इति स्वरितत्वमिति बोध्द्यम् । धातोरेकाच इत्यतो धातोरित्यनुवृत्या धातोरिति विहितत्वादायप्रत्ययस्यार्धधातुकत्वात् तत्कार्यं गुणादि भवति । तदाह । पुगन्तेति । गुण इति ॥ नन्वायप्रत्ययान्तस्य भ्वादिषु पाठाभावेन धातुत्वाभावात् कथमस्माल्लडादय इत्यत आह । सनाद्यन्ता इति ॥ गुप्तिजिकिभ्द्य सनित्यारभ्य कमेर्णिङित्यन्तैः सूत्रैः सनादिप्रत्ययान्विधाय सूत्रमिदं पठितम् । सन् आदिर्येषां ते सनादयः णिङ्प्रत्ययपर्यन्ताः, ते अन्ते येषां ते सनाद्यन्ता इति विग्रहः । तदाह । सनादयः कमेर्णिङन्ता इति ॥ सनक्यचकाम्यच् क्यड् क्यषोऽथाचारक्विबणिज्यडौ तथा । यगायईयड णिड्चेति द्वादशामी सनादयः । इति सङ्गह. । संज्ञाविधौ प्रत्ययग्रहणे तदन्तग्रहणप्रतिषेधादिह तदन्तग्रहणम् । धातुत्वादिति ॥ आयप्रत्ययान्तस्येत्यर्थः । गोपायतीति ॥ शपि अतो गुण इति पररूपम् । आयादय इति ॥ आयः आदिः येषां ते आयादयः । आय ईयड् णिड्चेति त्रय आयादयो मताः । गुपूधूपविच्छिपणिपनिभ्य आयः, ॠतेरीयड् , कमेर्णिडित्युत्तरमस्य सूत्रस्य पाठात् । विवक्षायामिति ॥ आर्धधातुक इति विषयसप्तमीति भावः । परसप्तमीत्वेतु गोपायितेत्यत्र अतोलोपो न स्यात् । आर्धधातुकोपदेशकाले अदन्तत्वाभावादिति भावः । तथा च लिटि आयप्रत्ययस्य विकल्पः स्थितः । तत्र आयप्रत्ययपक्षे आह । कास्प्रत्ययादिति ॥ आम् अमन्त्रे इति च्छेदः । चकासृ दीप्तौ, जागृ निद्राक्षये, इत्यादिभ्योऽपि लिटि आमिष्यते । तदर्थमाह । कास्यनेकाजिति ॥ ननु यद्यस्मिन् वार्तिके, सूत्रस्थ प्रत्ययग्रहणमपि सम्बध्द्यते । तदा कासृधातोश्च