पृष्ठम्:सिद्धान्तकौमुदी (बालमनोरमा उत्तर-१).djvu/९४

विकिस्रोतः तः
एतत् पृष्ठम् परिष्कृतम् अस्ति
प्रकरणम्]
८३
बालमनोरमा ।

श्नुविधौ निर्दिष्टस्य सौत्रस्यैव तत्र ग्रहणात् । तद्बीजं तु '-स्थास्तम्भ्वोः' (११८) इति पवर्गीयोपधपाठः 'स्तन्भेः' (२२७२) इति तवर्गीयोपधपाठश्चेति माधवः । केचिदस्य टकार औपदेशिक इत्याहुः । तन्मते विष्टम्भते । ष्टम्भते । टष्टम्भे । 'जभी ३८८ जृभि ३८९ गात्रविनामे' ।

२३०२ । रधिजभोरचि । (७-१-६१)

एतयोर्नुमागमः स्यादचि । जम्भते । जजम्भे । जम्भिता । अजम्भिष्ट । जृम्भते । जजृम्भे । 'शल्भ ३९० कत्थने' । शशल्भे । 'वल्भ ३९१ भोजने' । दन्योष्ठ्यादिः । ववल्भे । 'गल्भ ३९२ धार्ष्ट्ये' । गल्भते । 'श्रम्भु ३९३ प्रमादे' । तालव्यादिर्दन्त्यादिश्च । श्रम्भते । स्रम्भते वा । 'ष्टुभु ३९४ स्तम्भे' । स्तोभते । विष्टोभते । तुष्टुभे । व्यष्टोभिष्ट ।

अथ परस्मैपदिनः । 'गुपू ३९५ रक्षणे' ।


विस्तम्भत इति ॥ सात्पदाद्योरिति षत्वनिषेध इति भावः । नन्वेवमपि स्तन्भेरिति षत्वङ्कुतो न स्यादित्यत आह । स्तन्भेरिति ॥ षत्वन्तु न भवति । कुत इत्यत आह । श्नुविधाविति ॥ स्तन्भु स्तुन्भु स्कन्भु स्कुन्भु स्कुञ्भ्यश्नुश्चेति सूत्रे निर्दिष्टस्यैव प्रतिपदोक्तषत्वविधौ ग्रहणादित्यर्थः । नन्वेव सति उदस्थास्तम्भ्वोरिति पूर्वसवर्णविधावपि सौत्रस्यैव ग्रहण स्यादित्यत आह । तद्बीजन्त्विति ॥ षत्वविधौ सौत्रस्यैव ग्रहण पूर्वसवर्णविधौ तु तदन्यस्येत्यत्र प्रमाणमित्यर्थः । ननु पूर्वसवर्णविधौ मोपधस्य । षत्वविधौ तु नोपधस्य पाठ इत्यत्र किं प्रमाणमित्यत आह । इति माधव इति ॥ पाणिनिशिष्यपरम्परैव तत्र प्रमाणमिति भाव । लिटि शर्पूर्वाः खय इति षकारस्य निवृत्तौ ष्टुत्वनिवृत्या तकारः शिष्यते । तस्तम्भे । टकार औपदेशिक इति स्वाभाविक एव टकारो नतु ष्टुत्वसम्पन्न इत्यर्थः । तन्मते विष्टम्भत इति ॥ तथा च । षकारस्यापि स्वाभाविकत्वात् षत्वविधौ स्तन्भेरेव ग्रहणे षकारो निर्बाध इति भावः । टष्टम्भ इति ॥ शर्पूर्वा इति टकार एव शिष्यत इति भावः । जभी जृभि गात्रविनाम इति ॥ गात्रस्य विनामः वक्रभावः । आद्य ईदित् । द्वितीय इदित् । आद्यस्य ईदित्व श्वीदितो निष्ठायामिति इण्णिषेधार्थम् । रधिजभोरिति ॥ रध हिंसायामिति श्यन्विकरणस्य चतुर्थान्तस्य इका निर्देशः । इदितो नुम् धातोरित्यत नुमित्यनुवर्तते । तदाह । एतयोरिति ॥ अनिदित्वात् नुम्विधि । जम्भत इति ॥ शपि नुम् । जम्भितेत्यादाविटि अच्परकत्वान्नुम् । अचि किम् । रद्धा । जब्धा । श्रम्भु इति ॥ अकारमध्यः । ष्टुभुस्तम्भ इति ॥ ष्टुत्वेन तकारस्य टः षोपदेशोऽयम् । विष्टोभत इति ॥ उपसर्गात्सुनोतीति षत्वम् । व्यष्टोभिष्टेति ॥ प्राक्सितादड्व्यवायेऽपीति षत्वम् । तिपृ इत्यादयः स्तोभत्यन्ता अनुदात्तेतो गताः । गुपू रक्षण इति ॥ ऊदिदयम् । गुपूधूपेति ।