पृष्ठम्:सिद्धान्तकौमुदी (बालमनोरमा उत्तर-१).djvu/९३

विकिस्रोतः तः
एतत् पृष्ठम् परिष्कृतम् अस्ति
८२
[भ्वादि
सिध्दान्तकौमुदीसहिता

'तेपृ' कम्पने च । 'ग्लेपृ ३६६ दैन्ये' ग्लेपते | 'टु वेपृ ३६७ कम्पने' । वेपते । 'केपृ ३६८ गेपृ ३६९ ग्लेपृ ३७० च' । चात्कम्पने गतौ च । सूत्रविभागादिति स्वामी । मैत्रेयस्तु चकारमन्तरेण पठित्वा कम्पन इत्यपेक्षत इत्याह । ग्लेपेरर्थभेदात्पुनः पाठः । 'मेपृ ३७१ रेपृ ३७२ लेपृ ३७३ गतौ' । 'त्रपूष् ३७४ लज्जायाम्' । त्रपते ।

२३०१ । तॄफलभजत्रपश्च । (६-४-१२२)

एषामत एकारोऽभ्यासलोपश्च स्यात्किति लिटि सेटि थलि च । त्रेपे । त्रेपाते । त्रेपिरे । ऊदित्त्वादिड्वा । त्रपिता-त्रप्ता । त्रपिषीष्ट-त्रप्सीष्ट । । 'कपि ३७५ चलने' कम्पते । चकम्पे । 'रवि ३७६ लबि ३७७ अबि ३७८ शब्दे' । ररम्बे । ललम्बे । आनम्बे । 'लबि ३७९ अवस्रंसने च' । 'कबृ ३८० वर्णे' । चकबे । 'क्लीबृ ३८१ अधार्ष्ट्ये' । चिक्लीबे । 'क्षीबृ ३८२ मदे' । क्षीबते । 'शीभृ ३८३ कत्थने' । शीभते । 'चीभृ ३८४ च' । 'रेभृ ३८५ शब्दे' । रिरेभे । 'अभिरभी' क्वचित्पठ्येते । अम्भते । रम्भते । 'ष्टभि ३८६ स्कभि ३८७ प्रतिबन्धे' । स्तम्भते । उत्तम्भते । नुम्यनुस्वारः । 'उदः स्थास्तम्भ्वोः-' (११८) इति पूर्वसवर्णः । विस्तम्भते । 'स्तन्भेः' (२२७२) इति षत्वं तु न भवति ।


ष्टेपृधातोः रूपम् । तेपृ कम्पने चेति ॥ चात्क्षरणे । वस्तुतस्तु चकारेण क्षरणार्थस्य लाभात् । पूर्वत्रास्य पाठस्त्यक्तु शक्यः । केचित्तु, देपृ इति वर्गतृतीयादिं पठन्ति । चात्कम्पने गतौ चेति ॥ अनुक्तसमुच्चयार्थ इति भावः । एतच्च टुवेपृकेपृगेपृग्लेपृकम्पन इत्येव सिद्धे पृथक्पाठाल्लभ्यते । अर्थभेदादिति ॥ ग्लेपृ दैन्य इति पूर्व पठितम् । इह तु अर्थभेदात् पुनः पाठः । अन्यथा ग्लेपृ दैन्ये कम्पने गतौचेति गौरव स्यादिति भावः । त्रपूषिति ॥ ऊकारष्षकारश्च इत् । अदुपधः । असंयुक्तहल्मध्यस्थत्वादेत्वाभ्यासलोपयोरप्राप्तावाह । तॄफलेति ॥ अत एकहल्मध्ये इत्यतः अत इति लिटीति चानुवर्तते । घ्वसोरित्यत एदिति अभ्यासलोपश्चेति च । गमहनेत्यस्मात्. कितीति । थलिच सेटीति सूत्रञ्च । तदाह । एषामिति ॥ गुणशब्देन भाविताकारवत्त्वाद्विरूपादेशाद्द्वित्वादेकहल्मध्यस्थत्वाभावाच्च प्राप्ते विधिरयम् । आनम्ब इति ॥ द्विहल्त्वान्नुट् । ष्टभिस्कभीति ॥ आद्यः षोपदेश. । ष्टुत्वेन तकारस्य टकारनिर्देशेन दत्यपरकसादित्वात् ततः षस्य सन्वे ष्टुत्वस्य निवृत्तिः । तदाह । उत्तम्भत इति । नुम्यनुस्वार इति ॥ इदित्वान्नुमि नश्चापदान्तस्येति तस्यानुस्वारः । अनुस्वारस्य ययीति तस्य परसवर्णः मकारः । ष्टम्भ इत्येव पाठे तु आशीर्लिङि अनिदितामिति नलोपः स्यादिति भावः । पूर्वसवर्ण इति ॥ सकारस्य थकारः । तस्य खरिचेति चर्त्वे तकार इत्यर्थः । अत्र यद्वक्तव्य तत् उदस्थास्तम्भ्वोरित्यत्र हल्सन्धौ प्रपञ्जितम् ।