पृष्ठम्:सिद्धान्तकौमुदी (बालमनोरमा उत्तर-१).djvu/९२

विकिस्रोतः तः
एतत् पृष्ठम् परिष्कृतम् अस्ति
प्रकरणम्]
८१
बालमनोरमा ।

'लड ३५९ विलासे' । लडति । डलयोर्लरयोश्चैकत्वस्मरणाल्ललतीति स्वाम्यादयः । 'कड ३६० मदे' । कडति । 'कडि' इत्येके । कण्डति । 'गडि ३६१ वदनैकदेशे' । गण्डति । इति टवर्गीयान्ताः ।

अथ पवर्गीयान्ताः । तत्रानुदात्तेतः स्तोभत्यन्ताश्चतुस्त्रिंशत् । 'तिपृ ३६२ तेपृ ३६३ ष्टिपृ ३६४ ष्टेपृ ३६५ क्षरणार्थाः' । आद्योऽनुदात्तः । क्षीरस्वामी त्वयं सेडिति बभ्राम । तेपते । तितिपे । क्रादिनियमादिट् । तितिपिषे । तेप्ता । तेप्स्यते ।

२३०० । लिङ्सिचावात्मनेपदेषु। (१-२-११)

इक्समीपाद्धलः परौ झलादी लिङात्मनेपदपरः सिच्चेत्येतौ कितौ स्तः । कित्त्वान्न गुणः । तिप्सीष्ट । तिप्सीयास्ताम् । तिप्सीरन् । लुङि 'झलो झलि' (२२८१) इति सलोपः । अतिप्त । अतिप्साताम् । अतिप्सत । तेपते । तितेपे । तेपिता । तिष्टिपे । तिष्टिपाते । तिष्टिपिरे । तिष्टेपे । तिष्टेपाते । तिष्टेपिरे ।


एकत्वस्मरणादिति ॥ शीक्षादाविति शेषः । गडि वदनेति ॥ तवर्गान्तेषु गदीति गतम् । परस्मैपदिनः शौटृ गर्व इत्यादयो गता । तिपृ इति ॥ प्रथमत्रयाविदुपधौ । द्वितीयचतुर्थौ एदुपधौ । तृतीयचतुर्थौ षोपदेशौ च । तकारस्य ष्टुत्वेन दकारस्य निर्दिष्टतया दन्त्यपरकसादित्वात् । आद्य इति ॥ तिपृ धातुरित्यर्थ । भाष्यादौ अनुदात्तोपदेशेष्वस्य पाठादिति भावः । बभ्रामेति ॥ भाष्यविरुद्धत्वादिति भावः । आद्यस्योदाहरति । तेपत इति ॥ शपि लघूपधगुण । तितिप इति ॥ असयोगादिति कित्त्वान्न गुणः । अथ तितिपिष इत्यत्र एकाच उपदेश इति निषेधमाशङ्क्याह । क्रादिनियमादिति । तेप्स्यत इति ॥ लोडादौ तु, तेपताम् । अतेपत । तेपेत । अथाशीर्लिङि सीयुटि सुटि तिप्सीष्टेति रूप वक्ष्यति । तत्र लघूपधगुणे प्राप्ते । लिङिति ॥ इको झलिति हलन्ताच्चेति च, सूत्रमनुवर्त्तते । असयोगादित्यतः किदिति । इक इति सामीण्ये षष्ठी । हलि अन्वेति । तदाह । इक्समीपादित्यादिना ॥ आत्मनेपदपरकत्व सिच एव विशेषणम् । नतु लिडः । लिडादेशस्यात्मनेपदस्य लिडः परत्वाभावात् । इकः कि । वह् वक्षीष्ट। सति तु कित्त्वे वचिस्वपीति सम्प्रसारणं स्यात् । आत्मनेपदेषु किम् । अद्राक्षीत् । इह कित्त्वे सति सृजिदृशोर्झल्यमकितीत्यम्न स्यात् । अतिप्तेति ॥ लुडस्तादेशे, च्लि, सिच् । झलोझलीति लोप । आत्मनेपदपरकत्वेन सिच कित्वात् न लघूपधगुणः । अथ तेपृधातोरेदुपधत्वस्य प्रयोजनमाह । तितेपे इति ॥ इदुदुपधत्वेतु कित्त्वाद्गुणो न स्यादिति भावः । सेट्कोऽयमिति सूचयति । तेपितेति ॥ तेपिषीष्ट । अतेपिष्ट । ष्टिपृ धातोस्तु धात्वादेः षस्स इति सत्वे ष्टुत्वनिवृत्या लटि स्तेपत इति रूप सिद्धवत्कृत्य लिटि रूपमाह । तिष्टिप इति ॥ शर्पूर्वाः खय इति तकार शिष्यते । षकारस्य निवृत्तौ ष्टुत्वनिवृत्ते कित्वान्न गुण । तिष्टेप इति ॥