पृष्ठम्:सिद्धान्तकौमुदी (बालमनोरमा उत्तर-१).djvu/९१

विकिस्रोतः तः
एतत् पृष्ठम् परिष्कृतम् अस्ति
८०
[भ्वादि
सिध्दान्तकौमुदीसहिता

कल्ये' । कुण्डति । कुण्डत इति तु दाहे गतम् । 'मुड ३२३ प्रुड ३२८ मर्दने' । 'चुडि ३२५, अल्पीभावे' । 'मुडि ३२३ खण्डने' । मुण्डति । 'पुडि च' इत्येके । पुण्डति । 'रुटि ३२७ लुटि ३२८ स्तेये' । रुण्टति । लुण्टति । 'रुठि लुठि' इत्येके । 'रुडि लुडि' इत्यपरे । 'स्फुटिर् ३२९ विशरणे' । इरित्त्वादङ्वा । अस्फुटत्-अस्फोटीत् । 'स्फुटि' इत्यपि केचित् । इदित्त्वान्नुम् । स्फुण्टति । 'पठ ३३० व्यक्तायां वाचि' । पेठतुः । पेठिथ । अपठीत्-अपाठीत् । 'वठ ३३१ स्थौल्ये' । ववठतुः । ववठिथ । 'मठ ३३२ मदनिवासयोः' । 'कठ ३३३ कृच्छ्रजीवने' । 'रट ३३४ परिभाषणे' । 'रठ' इत्येके । 'हठ ३३५ हुतिशठत्वयोः' । 'बलात्कारे' इत्येके । हठति । जहाठ । 'रुठ ३३६ लुठ ३३७ उठ ३३८ उपघाते' । ओठति । 'ऊठ' इत्येके । ऊठति । उठांचकार । 'पिठ ३३९ हिंसासंक्लेशनयोः' । 'शठ ३४० कैतवे च' । 'शुठ ३४१ प्रतिघाते' । शोठति । 'शुठि' इति स्वामी । शुण्ठति । 'कुठि ३४२ च' । कुण्ठति । 'लुठि ३४३ आलस्ये प्रतिघाते च' । 'शुठि ३४४ शोषणे' । रुठि ३४५ लुठि ३४६ गतौ । 'चुड्ड ३४७ भावकरणे' । भावकरणमभिप्रायसूचनम् । चुड्डति । चुचुड्ड । 'अड्ड ३४८ अभियोगे' । अड्डति । आनड्ड । 'कड्ड ३४९ कार्कश्ये' । कड्डति । चुड्डादयस्त्रयो दोपधाः । तेन व्किपि । चुत् । अत् । कत् । इत्यादि । 'क्रीडृ ३५० विहारे' । चिक्रीड । 'तुडृ ३५१ तोडने' । तोडति । तुतोड । 'तूडृ' इत्येके । 'हुडृ ३५२ हूडृ ३५३ होडृ ३५४ गतौ' । हुड्यात्--हूड्यात्—होड्यात् । 'रौडृ ३५५ अनादरे' । 'रोडृ ३५६ लोडृ ३५७ उन्मादे' । 'अड ३५८ उद्यमे' । अडति । आड । आडतुः । आडुः ।


ईधातोरामि गुणे अयादेशः अनुप्रयोगश्च । कुडि वैकल्य इति ॥ वैकल्यम् अविवेक इत्याहुः । अपूर्णभावो वा । मुडप्रुड मर्दन इत्यादि ॥ स्पष्टम् । पठधातोर्लिटि अतुसादौ किति एत्वाभ्यासलोपौ । तदाह । पेठतुरिति । पेठिथेति ॥ पित्वे अकित्वेऽपि थलिचसेटीत्येत्वाभ्यासलोपौ । अपठीत् । अपाठीदिति ॥ अतो हलादेर्लघोरिति वृद्धिविकल्पः । वठ स्थौल्य इति ॥ स्थौल्य स्थूलीभवनम् । नशसददवादिगुणानामित्येत्वाभ्यासलोपनिषेध इति मत्वा आह । ववठतुः । ववठिथेति । दोपधा इति ॥ ष्टुत्वेन डोपधनिर्देश इति भावः । चुदिति ॥ चुड्डधातोः क्विपि हल्ड्यादिना सुलोपे द्वितीयस्य डस्य संयोगान्तलोपे ष्टुत्वनिवृत्तौ वावसान इति चर्त्वे चुत् इति रूपम् । अदिति ॥ अड्डधातोः क्विपि पूर्ववत् रुपम् । कदिति ॥ कड्डधातोः क्विपि रूपम् । इत्यादीति ॥ आदिना जश्त्वेन चुदित्यादिसंग्रहः ।