पृष्ठम्:सिद्धान्तकौमुदी (बालमनोरमा उत्तर-१).djvu/८८

विकिस्रोतः तः
एतत् पृष्ठम् परिष्कृतम् अस्ति
प्रकरणम्]
७७
बालमनोरमा ।

वेष्टने' । विवेष्टे । 'चेष्ट २५६ चेष्टायाम्' । अचेष्टिष्ट । 'गोष्ट २५७ लोष्ट २५८ संघाते' । जुगोष्टे । लुलोष्टे । 'घट्ट २५९ चलने' । जघट्टे । 'स्फुट २६० विकसने' । स्पोटते । पुस्फुटे । 'अठि २६१ गतौ' । अण्ठते । आनण्ठे । 'वठि २६२ एकचर्यायाम्' । ववण्ठे । 'मठि २६३ कठि २६४ शोके' । शोक इह आध्यानम् । मण्ठते । कण्ठते । 'मुठि २६५ पालने' । मुण्ठते 'हेठ २६६ विबाधायाम्' । विबाधा शाठ्यम् । जिहेठे । 'एठ २६७ च' । एठांचक्रे । 'हिडि २६८ गत्यनादरयोः । हिण्डते । जिहिण्डे । 'हुडि २६९ संघाते' । जुहुण्डे । 'कुडि २७० दाहे' । चुकुण्डे । 'वडि २७१ विभाजने' । 'मङि २७२ च' । ववण्डे । 'भडि २७३ परिभाषणे' । परिहासः सनिन्दोपालम्भश्च परिभाषणम् । बभण्डे । 'पिडि २७४ संघाते' । पिपिण्डे । 'मुडि २७५ मार्जने' । मार्जनं शुद्धिर्न्यग्भावश्च । मुण्डते । 'तुडि २७६ तोडने' । तोडनं दारणं हिंसनं च । तुण्डते । 'हुडि २७७ वरणे' । वरणं स्वीकारः । 'हरणे इत्येके' । हुण्डते । 'चडि २७८ कोपे ' । चण्डते । 'शडि २७९ रुजायां संघाते च' । शण्डते । 'तडि २८० ताडने' । तण्डते । 'पडि २८१ गतौ' । पण्डते । 'कडि २८२ मदे' । कण्डते । 'खडि २८३ मन्थे' । 'हेडृ २८४ होडृ २८५ अनादरे' । जिहेडे । जुहोडे । 'बाडृ २८६ आप्लाव्ये' । बशादिः । आप्लाव्यमाप्लवः । बाडते । 'द्राडृ २८७ ध्राडृ २८८ विशरणे' । द्राडते । ध्राडते । 'शाडृ २८९ श्लाघायाम्' । शाडते ।

अथ गड्यन्ताः परस्मैपदिनः । 'शौट्ट २९० गर्वे' । शौटति । शुशौट । 'यौट्ट २९१ बन्धे' । यौटति । 'म्लेटृ २९२ म्रेडृ २९३ उन्मादे' । द्वितीयो डान्तः ।


इति भावः । अस्मिन्पक्षे सनि द्वित्वे कर्तव्ये ष्टुत्वस्य सिद्धत्वेऽपि नन्द्रा इति निषेधाभावात्तकारविशिष्टस्याट्टि स इत्यस्य द्वित्वे हलादिशेषेण टकारस्य निवृत्या अतिट्टिषत इति रूपमिति भावः । आनट्ट इति ॥ इह नन्द्रा इति निषेधो न । तत्र द्वितीयस्यैकाच इत्यनुवृत्ते । घट्ट चलन इति ॥ अयञ्चुरादावपि । स्फुट विकसन इति ॥ अयङ्कुटादावपि । अठि गताविति ॥ लिटि नुमि द्वित्वे हलादिशेषे अत आदेरिति दीर्घे तस्मान्नुड्द्विहल इति नुडिति मत्वाऽऽह । आनण्ठ इति । वठि एकचर्यायामिति ॥ असहायचर्यायामित्यर्थ । मडिचेति ॥ विभाजन इत्यनुषज्यते । मडि भूषायामिति परस्मैपदिषु वक्ष्यते । शाडृश्लाघायामिति ॥ डलयोरैक्यात् । शालत इति काश्यपः । इत्यट्टादयः षट्त्रिंशद्गताः । अथ गड्यन्ता इति ॥ गडि वदनैकदेश इत्यन्ता इत्यर्थः । म्लेट्टम्रेडृ इति ॥ एदुपधौ । द्वितीयोडान्त इति ॥