पृष्ठम्:सिद्धान्तकौमुदी (बालमनोरमा उत्तर-१).djvu/८७

विकिस्रोतः तः
एतत् पृष्ठम् परिष्कृतम् अस्ति
७६
[भ्वादि
सिध्दान्तकौमुदीसहिता

२२९८ । अकृत्सार्वधातुकयोर्दीर्घः । (७-४२५)

अजन्तस्याङ्गस्य दीर्घः स्याद्यादौ प्रत्यये परे । नतु कृत्सार्वधातुकयोः । क्षीयात् । अक्षैपीत् । 'क्षिज २३७ अव्यक्ते शब्दे' । कूजिना सहायं पठितुं युक्तः । चिक्षेज । 'लज २३८ लजि २३९ भर्त्सने' । 'लाज २४० लाजि २४१ भर्जने च' । 'जज २४२ जजि २४३ युद्धे' । 'तुज २४४ हिंसायाम्' । तोजति । तुतोज । 'तुजि २४५ पालने' । 'गज २४६ गजि २४७ गृज २४८ गृजि २४९ मुज २५० मुजि २५१ शब्दार्थाः' । 'गज' मदने च । 'वज २५२ व्रज २५३ गतौ' । ववजतुः । 'वदव्रज--' (२२६७) इति वृद्धिः । अव्राजीत् ।

अथ टवर्गीयान्ताः शाड्रन्ता अनुदात्तेतः पट्त्रिंशत् । 'अट्ट १५४ अतिक्रमहिंसयोः' । दोपधोऽयम् 'तोपधः' इत्यन्ये । अट्टते । आनट्टे । 'वेष्ट २५५


चिक्षियिव चिक्षियिमेति ॥ क्षेता । क्षेष्यति । क्षयतु । अक्षयत् । क्षयेत् । आशीर्लिङि विशेषमाह । अकृत्सार्वधातुकयोरिति ॥ अङ्गस्येत्यधिकृतम् । अयडयिक्डितीत्यत. यीतिराप्तभ्यन्तमनुवृत्तमङ्गाक्षिप्तप्रत्ययविशेषणम् । तदादिविधि । दीर्घश्रुत्या अच इत्युपस्थितमङ्गविशेषणम् । तदन्तविधिः । तदाह । अजन्तस्येत्यादिना ॥ अकृत्सार्वधातुकयोरिति किं । प्रकृत्या तुकम्बाधित्वा परत्वाद्दीर्घो न । चिनुयात् । सार्वधातुकत्वान्नदीर्घः । क्षिजेति ॥ इदुपधः । कृजिनेति ॥ कूज अव्यक्ते शब्दे इत्यनुपदमेव पठितम् । तत्रैव कूज क्षिज अव्यक्ते शब्दे इति पठितुं युक्तमित्यर्थः । अर्थैक्यादिति भाव. । लजलजि भर्त्सन इति ॥ 'भर्त्सन त्वपवादगीः' इत्यमरः । द्वितीय इदित् । आशीर्लिङि लज्यात् । लञ्ज्यात् । लाजलाजि भर्जन इति ॥ आदुपधौ । द्वितीय इदित् । जजजजीत्यादि स्पष्टम् । वजव्रजेति ॥ आद्यस्य असयुक्तहल्मध्यस्थाकारवत्वेऽपि नशसददवादिगुणानामित्येत्वाभ्यासलोपौ नेत्याह । ववजतुरिति ॥ अवाजात् अवजात् । द्वितीयस्य तु सयुक्तहल्मध्यस्थाकारवत्वादेवैत्वाभ्यासलोपयोर्न प्रसक्तिः । अव्राजीदित्यत्र अतो हलादेरिति वृद्धिविकल्पमाशङ्क्याह । वदद्रवजेति वृद्धिरिति ॥ हलन्तत्वादेव सिद्धे व्रजग्रहणस्य अतो हलादेरिति विकल्पनिरासार्थत्वादिति भावः । शुचादयोद्विसप्ततिर्वृत्ताः । शादन्ता इति ॥ शाडृश्लाघायामित्यन्ता इत्यर्थ. । शाड्यन्ता इति क्वचित्पाठ. । अट्टेति ॥ तवर्गतृतीयोपधोऽयम् । चर्त्वष्टुत्वाभ्यां टोपधनिर्देशः । तदाह । दोपधोऽयमिति ॥ तथा च अट्टधातोः सनि इटि अट्टि स इति स्थिते । ष्टुत्वचर्त्वयोरसिद्धत्वादजादेर्द्वितीयस्येति प्रवर्तमानं द्वित्वम् नन्द्रास्संयोगादय इति दकार विहाय टिस् इत्यस्य भवति । ततो हलादिशेषे दकारस्य ष्टुत्वचर्त्वयोः अट्टिटिषत इतीष्टं सिध्यति । स्वाभाविकमूर्धन्योपधत्वे नन्द्रा इति निषेधाभावात् टकारद्वयसहितस्यैव द्वित्वे हलादिशेषेण द्वितीयटकारस्य निवृत्तौ अटिट्टिषत इत्यनिष्टं प्रसज्येतेति भावः । तोपध इति । अन्य इति ॥ ष्टुत्वेन तोपधनिर्देश