पृष्ठम्:सिद्धान्तकौमुदी (बालमनोरमा उत्तर-१).djvu/८६

विकिस्रोतः तः
एतत् पृष्ठम् परिष्कृतम् अस्ति
प्रकरणम्]
७५
बालमनोरमा ।

आजिथ । विव्यथुः । विव्य । विवाय-विवय । विव्यिव । विव्यिम । वेता--अजिता । वेष्यति-अजिष्यति । अजतु । आजत् । अजेत् । वीयात् ।

२२९७ । सिचि वृद्धिः परस्मैपदेषु । (७-२-१)

इगन्ताङ्गस्य वृद्धिः स्यात्परस्मैपदे परे सिचि । अवैषीत्-आजीत् । अवेष्यत्-आजिष्यत् । 'तेज २३१ पालने' । तेजति । ' खज २३२ मन्थे' । खजति । 'खजि २३३ गतिवैकल्ये' । खञ्जति । 'एजृ २३४ कम्पने' एजांचकार । 'टुओ स्फूर्जा २३५ वज्रनिर्घोषे' स्फूर्जति । पुस्फूर्ज । 'क्षि २३६ क्षये' । अकर्मकः । अन्तर्भावितण्यर्थस्तु सकर्मकः । क्षयति । चिक्षाय । चिक्षियतुः । चिक्षियुः । चिक्षयिथ-चिक्षेथ । चिक्षियिव । चिक्षियिम । क्षेता ।


आजिथेति ॥ वलादावार्धधातुके वेष्यत इति वीभावाभावपक्षे अजधातोरनुदात्तोपदेशबहिर्भूतत्वादिट् । द्वित्वम् । हलादिशेष । अत आदेरिति सवर्णदीर्घ. । विव्यथुरिति ॥ अथुसि वीभावे द्वित्वे अभ्यासह्रस्वे असयोगादिति कित्वात् गुणाभावे इयडपवादे एरनेकाच इति यणि रूपम् । विव्येति ॥ थस्य अकारे वीभावादि । विवाय विवयेति ॥ णलुत्तमो वेति णित्वविकल्पाद्वृद्धिविकल्प । विव्यिव विव्यिमेति ॥ क्राद्यन्यो लिटि सेट्भवेदिति नित्यमिटि यण् । वेता अजितेति ॥ लुटि तासि वीभावविकल्पः । वेष्यति । अजिष्यतीति ॥ लृटि स्ये वीभावविकल्प । वीयादिति ॥ आशीर्लिङादेशस्य आर्धधातुकत्वात् वीभाव. । अथ लुडि सिचि वीभावे सार्वधातुकार्धधातुकयोरिति गुणे प्राप्ते । सिचि वृद्धिरिति ॥ इगन्तस्येति ॥ वृद्धिश्रुत्या इक इत्युपस्थितमङ्गस्येत्यधिकृतस्य विशेषणम् । तदन्तविधिरिति भाव । एव च अकोषीदित्यादौ व्यञ्जनस्य न वृद्धिः । अवैषीदिति ॥ लुडस्तिप् इकारलोपः सिचि वीभावः एकाच इति इण्णिषेधः वृद्धि अडागमः षत्वम् । आजीदिति ॥ सिज्लोपः । वदव्रजेति हलन्तलक्षणायां वृद्धौ नेटि इति निषिद्धायामडागमे आटश्चेति वृद्धिः । लृङि अवेष्यत् । आजिष्यत् । तेजपालन इत्यादि स्पष्टम् । एजृ कम्पन इति ॥ दीप्तौत्वात्मनेपदी गतः । टुओ स्फूर्जेति ॥ आदिर्ञिटुडव इति टुरित् । उपदेशेऽनुनासिकत्वादोकार आकारश्च इत् । ट्वितोऽथुच् ओदितश्चेति निष्ठानत्वम् । आदितश्चेति निष्ठायामिण्णिषेधश्च । तत्फलानि उपधायाञ्चेति दीर्घस्यानित्यत्वज्ञापनार्थमिह दीर्घ ऊकारः पठितः । तेन हुर्छतीत्यादौ नदीर्घ इत्याहुः । स्फूर्जतीति ॥ लिटि पुस्फूर्ज अस्फूर्जीत् । क्षि क्षय इति ॥ क्षयो नाशः । अन्तर्भावितण्यर्थ इति नाशनार्थक इत्यर्थः । अजन्तेष्वेवास्य पाठो युक्तः । क्षयतीति ॥ नश्यतीत्यर्थः । नाशयतीति वा । शपि गुणे अयादेशः । चिक्षायेति ॥ णलि वृद्धिः अयादेशः । चिक्षियतुरिति ॥ असंयोगादिति कित्वान्न गुणः । इयड् । चिक्षयिथ चिक्षेथेति ॥ पित्वेन कित्वाभावात्गुणः । अजन्तत्वातासौ नित्यानिट्त्वाच्च । भारद्वाजनियमात्थलि वेट् । इट्पक्षे अयादेशः । चिक्षियथुः । चिक्षिय । चिक्षाय । चिक्षय । वस्मसोस्तु क्रादिनियमात् नित्यमिट् । तदाह ।