पृष्ठम्:सिद्धान्तकौमुदी (बालमनोरमा उत्तर-१).djvu/८५

विकिस्रोतः तः
एतत् पृष्ठम् परिष्कृतम् अस्ति
७४
[भ्वादि
सिध्दान्तकौमुदीसहिता

अजन्तोऽकारवान्वा यस्तास्यनिट् थलि वेडयम् ।

ॠदन्त ईदृड्नित्यानिट् क्राद्यन्यो लिटि सेड् भवेत् ॥

न च स्तुद्र्वादीनामपि थलि विकल्पः शङ्क्यः । 'अचस्तास्वत्-' (२२९४) इति 'उपदेशेऽत्वतः' (२२९५) इति च योगद्वयप्रापितस्यैव हि प्रतिषेधस्य भारद्वाजनियमो निवर्तक: 'अनन्तरस्य-' इति न्यायात् । विवयिथ-विवेथ


वेति ॥ ॠदन्तभिन्नात्परस्य थल इट् स्यादेवेत्यर्थः । तथा च ॠदन्तभिन्नाद्धातो परस्य थलो नेण्णिवृत्तिरिति भारद्वाजमते फलतीति न वैयर्थ्यमिति भाव । तथाच अनृदन्ताद्धातोः परस्य थलो भारद्वाजमते इट । मतान्तरे तु अचस्तास्वदिति उपदेशेऽत्वत इति च तत्र नेटिति विकल्पः फलतीति भावः । तद्यथा । पपिथ । पपाथ । पेचिथ । पपक्थ । अयमत्रेति ॥ कृसृभृवृस्तुद्रुश्रुवो लिटीति, अचस्तास्वत्थल्यनिटो नित्यमिति, उपदेशेऽत्वत इति, ॠतो भारद्वाजस्येति च, सूत्रचतुष्टयस्य विषयाणां सङ्ग्रहो वक्ष्यत इत्यर्थः । अजन्त इति ॥ यः धातुः ॠदन्तभिन्नाजन्त. ह्रस्वाकारवात् वा तासौ नित्यानिट् सोऽथ थलि विकल्पितेटक इति पूर्वार्धस्यार्थः । अत्र ईदृगित्यस्य तासौ नित्यानिडित्यर्थः । यः ॠदन्तस्तासौ नित्यानिट् सः थलि नित्यानिडित्यर्थ. । अचस्तास्वदिति पाणिनिमते ॠतो भारद्वाजस्येति भारद्वाजमतेऽपि तस्य अनिट्कत्वादिति भावः । क्राद्यन्य इति ॥ क्राद्यष्टभ्योऽन्यो धातुः लिटि नित्यं सेडित्यर्थः । क्राद्यष्टभ्य एव परस्य लिटि नेडिति कृसृभृवृ इति सूत्रेण नियमितत्वादिति भावः । नन्वत्र क्राद्यन्य इत्युक्त्या क्रादीनां अष्टानां लिटि नित्यानिट्कत्वमवगतम् । तदनुपपन्नम् । स्तुद्रुस्रुश्रुवां ॠदन्तभिन्नत्वेन तेभ्यस्थलि अचस्तास्वदिति निषेधस्य भारद्वाजमते अप्रवृत्या इड्विकल्पस्य दुर्वारत्वात् । नचैव सति कृसृभृवृ इति सूत्रे स्तुद्रुस्रुश्रुग्रहणमनर्थकमति वाच्यम् । तुष्टुव तुष्टुमेत्यादौ वमादिषु क्रादिनियमप्राप्तस्य इटो निवृत्या चरितार्थत्वादित्याशङ्क्य निराकरोति । न च स्तुद्रुस्रुश्रुवामपि थलि विकल्पः शङ्क्य इति कुत इत्यत आह । अचस्तास्वदिति । ॠदन्तादेव परस्य थल इण्णिषेधः । अनृदन्तात्परस्य तु थल इण्णिषेधो नेति भारद्वाज मतम् । अयञ्च इण्णिषेधस्य निषेधः अचस्तास्वदिति उपदेशेऽत्वत इति च सूत्रद्वयप्राप्तस्यैव इण्णिषेधस्य पक्षे निवर्तकः । न तु क्रादिसूत्रप्राप्तस्य इट्प्रतिषेधस्यापीत्यर्थ. । कुत इत्यत आह । अनन्तरस्येति ॥ अचस्तास्वदिति उपदेशेऽत्वत इति ॠतो भारद्वाजस्येति च सूत्रकमः । कृसृभृवृ इति सूत्रन्तु ततः प्राग्बहुव्यवहितमिति भावः । किञ्च नेड्वशिकृतीत्यादिप्रतिषेधकाण्डोत्तरं आर्धधातुकस्येड्वलादेरिति विधिकाण्डारम्भसामर्थ्यादपि स्तुद्रुस्रुश्रुवामिण्णिषेधो भारद्वाजनियमम्बाधत इति नेड्वशिकृतीत्यत्र वस्वेकाजाद्धसामित्यत्र च भाष्ये स्पष्टम् । ततश्च प्रकृते अजेस्थलि वीभावे तस्य अजन्तत्वात्तासौ नित्यानिट्त्वाच्च इड्विकल्प इति सिद्धम् । तदाह । विवयिथ विवेथेति ॥ सिबादेशस्य थलः पित्वादसंयोगादिति कित्वाभावाद्गुणः । इट्पक्षे अबादेशः ।