पृष्ठम्:सिद्धान्तकौमुदी (बालमनोरमा उत्तर-१).djvu/८९

विकिस्रोतः तः
एतत् पृष्ठम् परिष्कृतम् अस्ति
७८
[भ्वादि
सिध्दान्तकौमुदीसहिता

टान्तमध्ये पाठस्त्वर्थसाम्यान्नाथतिवत् । म्लेटति । म्रेडति । 'कटे २९४ वर्षावरणयोः' । 'चटे' इत्येके । चकाट । सिचि 'अतो हलादेर्लघोः' (२२८४) इति वृद्धौ प्राप्तायाम् ।

२२९९ । ह्म्यन्तक्षणश्वसजागृणिश्व्येदिताम् । (७-२-५)

हमयान्तस्य क्षणादेर्ण्यन्तस्य श्वयतेरेदितश्च वृद्धिर्नस्यादिडादौ सिचि । अकटीत् । 'अट २९५ पट २१६ गतौ' । आट । आटतुः । आटुः । पपाट । पेटतुः । पेटुः । 'रट परिभाषणे' । रराट । 'लट २९८ बाल्ये' । ललाट । 'शट २९९ रुजाविशरणगत्यवसादनेषु' । शशाट । 'वट ३०० वेष्टने' । ववाट । ववटतुः । ववटुः । ववटिथ । 'किट ३०१ खिट ३०२ त्रासे' । केटति । खेटति । 'शिट ३०३ षिट ३०४ अनादरे' । शेटति । शिशेट । सेटति । सिषेट । 'जट ३०५ झट ३०६ संघाते' । 'भट ३०७ भृतौ' । 'तट ३०८ उच्छ्राये' । 'खट ३०९


टवर्गतृतीयान्त इत्यर्थः । ननु टान्तेष्वस्य कथम्पाठ । चुड्डभावकरण इत्यारभ्यानुक्रम्यमाणेष्वेवास्य पठितुं युक्तत्वादित्यत आह । टान्त मध्येति । नाथतिवदिति ॥ एधवृद्धावित्यारभ्यानुक्रान्तेषु तवर्गचतुर्थान्तेषु यथा नाथृनाधृयाच्ञेति तवर्गद्वितीयान्तस्यापि अर्थसाम्यात्पाठस्तद्वदित्यर्थः । कटे इति ॥ कण्ठ्यादिः । चटे इति ॥ तालव्यादि आद्यस्य लिटि अभ्यासस्य चुत्वमित्याह । चकाटेति ॥ चकटतुः । द्वितीयस्य चेटतुः वैरूप्यापादकादेशादित्वाभावादेत्वाभ्यासलोपौ । प्राप्तायामिति ॥ हलन्तलक्षणाया नित्यवृद्धेर्न्नेटीति निषेधम्बाधित्वा अतोहलादेरिति वैकल्पिकवृद्धौ प्राप्तायामित्यर्थ । ह्म्यन्तेति ॥ ह्म्यन्त क्षण श्वस जागृ णि श्वि एदित् एषान्द्वन्द्वात्पष्ठी । ह् म् य् इत्येते वर्णा येषामन्ते ते ह्म्यन्ताः । तदाह । हमयान्तस्येति । क्षणादेरिति ॥ आदिना श्वसजागृ इत्यनयोर्ग्रहणं । ण्यन्तस्येति ॥ प्रत्ययग्रहणपरिभाषया णिग्रहणेन तदन्तग्रहणमिति भावः । श्वयतेरिति ॥ श्विधातोरित्यर्थः । एदित इति ॥ एत् इत् यस्येति विग्रहः । वृद्धिर्न स्यादिति ॥ सिचि वृद्धिरित्यतो नेटीत्यतश्च तदनुवृत्तेरिति भावः । इडादौ सिचीति ॥ सिचि वृद्धिरित्यत सिचीति नेटीत्यत इटीति चानुवर्तत इति भावः । अकटीदिति ॥ एदित्वान्न वृद्धिः । अटपटेति ॥ अत आदेरिति दीर्घे मत्वा आह । आटेति । पेटतुरिति ॥ एत्वाभ्यासलोपौ । वट वेष्टने । ववटतुरिति ॥ नशसददवादिगुणानामिति निषेधः । ववटिथेति ॥ अत्र थलि च सेटीति प्राप्तस्य नशसददेति निषेधः । किटखिट त्रास इति ॥ यद्यपि इटकिटकटीगताविति अग्रे किटधातुः पठ्यते । तथाप्यर्थभेदात् पुनरिह पाठः । खिटत्रासे किट गतौ चेति पठितुं युक्तम् । शिटषिटेति ॥ आद्यस्तालव्यादिः । द्वितीयस्तु षोपदेशः । जट झटेति ॥ आद्यस्य अवै-