पृष्ठम्:सिद्धान्तकौमुदी (बालमनोरमा उत्तर-१).djvu/८२

विकिस्रोतः तः
एतत् पृष्ठम् परिष्कृतम् अस्ति
प्रकरणम्]
७१
बालमनोरमा ।

यादवः । उञ्छति । उञ्छांचकार । 'उछी २१६ विवासे' । विवासः समाप्तिः । प्रायेणायं विपूर्वः । व्युच्छति । धृज २१७ धृजि २१८ ध्रज २१९ ध्रजि २२० ध्वज २२१ ध्वजि २२२ गतौ' । धर्जति । धृञ्जति । ध्रजति । ध्रञ्जति । ध्वजति । ध्वञ्जति । 'कूज २२३ अव्यक्ते शब्दे' । चुकूज । 'अर्ज २२४ षर्ज २२५ अर्जने' । अर्जति । आनर्ज । सर्जति । ससर्ज । 'गर्ज २२६ शब्दे' । गर्जति । 'तर्ज २४७ भर्त्सने' । तर्जति । ततर्ज । 'कर्ज २२८ व्यथने' । चकर्ज । 'खर्ज २२९ पूजने च' चखर्ज । 'अज २३० गतिक्षेपणयोः' । अजति ।

२२९२ । अजेर्व्यघञपोः । (२-४-५६)

अजेर्वी इत्ययमादेशः स्यादार्धधातुकविषये घञमपं च वर्जयित्वा । 'वलादावार्धधातुके वेष्यते' । विवाय । विव्यतुः । विव्युः । अत्र वकारस्य हल्प-


उञ्छतीति ॥ इदित्वान्नुमि अलघूपधत्वान्नगुणः । उञ्छाञ्चकारेति ॥ नुमिकृते सयोगे गुर्वित्यकारस्य गुरुत्वादिजादेश्चेत्यामिति भावः । धृजेति ॥ आद्यौ ॠदुपधौ । इतरे चत्वारः अदुपधाः । द्वितीयचतुर्थषष्ठाः इदित । धर्जतीति ॥ शपि लघूपधगुण । रपरत्वम् । दधर्ज । दधृजतुः । धृज्यात् । अधर्जीत् । धृञ्जतीति ॥ इदित्वान्नुम् । दधृञ्ज । इदित्वान्नलोपो न । धृज्यात् । अधृञ्जीत् । ध्रजतीति ॥ णलि दध्राज । दध्रजतु । अध्राजीत् । अध्रजीत् । ध्रञ्जतीति ॥ अदुपधोऽयम् । दध्रञ्ज । इदित्वान्नलोपो न । दध्रञ्जतुः । ध्वजतीति ॥ दध्वाज । ध्वञ्जतीति ॥ दध्वञ्ज । कूज अव्यक्त इति ॥ स्पष्टम् । सर्जतीत्यत्र षोपदेशत्वात् सत्वम् । अजगतीति ॥ लटि अजतीत्यादि सिद्धवत्कृत्य लिटि विशेषमाह । अजेर्व्यघञपोरिति ॥ वी इति दीर्घान्त लुप्तप्रथमाकम् । आर्धधातुक इत्यधिकृतम् । विषयसप्तम्येषा । नतु परसप्तमी । व्याख्यानात् । तदाह । आर्धधातुकविषय इत्यादि ॥ अजेरिति इका निर्देशः । अजधातोरित्यर्थ । आर्धधातुक इति परसप्तम्याश्रयणेतु वेवीयत इति न स्यात् । वीभावात्प्राक् हलादित्वाभावात् यडसम्भवात् । विषयसप्तम्याश्रयणेतु यडि विवक्षिते वीभावे सति हलादित्वाद्यङ्निर्बाध । अघञपोः किम् । घञि समाजः । समुदोरज पशुष्वित्यपि । समज । अत्र अघञपोरिति न वक्तव्यम् । लिटिवेत्यतो वेत्यनुवर्तते । व्यवस्थितविभाषेयम् । घञि अपिच न भवति । ल्युटि वलादावार्धधातुके च विकल्पः । अन्यत्रतु आर्धधातुके नित्यमिति भाष्यकैय्यटयो. स्थितम् । तदाह । वलादावार्धधातुके वेष्यत इति ॥ उक्तव्यवस्थितविभाषोपलक्षणमिदम् । विवायेति ॥ लिटो णलि विवक्षिते वीभावे सति णलि द्वित्वे अभ्यासह्रस्वे अचोञिणितीति वृद्धौ आयादेश इति भाव । विव्यतुरिति ॥ वीभावे सति अतुसि द्वित्वे अभ्यासह्रस्वे असयोगादिति कित्वात् गुणाभावे इयडपवादे एरनेकाच इति यणि रूपम् । एव उसि विव्युरिति रूपम् । ननु विव्यतुः विव्युरित्यत्र द्वितीयवकारस्य यकारात्मकहल्परकत्वादुपधायाञ्चेति इकारस्य दीर्घः स्यादित्याशङ्क्यम् । ईकार-