पृष्ठम्:सिद्धान्तकौमुदी (बालमनोरमा उत्तर-१).djvu/८३

विकिस्रोतः तः
एतत् पृष्ठम् परिष्कृतम् अस्ति
७२
[भ्वादि
सिध्दान्तकौमुदीसहिता

रत्वात् 'उपधायां च' (२२६५) इति दीर्घे प्राप्ते 'अचः परस्मिन्–(५०) इति स्थानिवद्भावेनाच्परकत्वम् । न च 'न पदान्त–(५१) इति निषेधः । 'स्वर-दीर्घयलोपेषु लोपाजादेश एव न स्थानिवत् । इत्युक्ते. । थलि 'एकाचः-(२२४६) इतीण्णिषेधे प्राप्ते ।

२२९३ । कृसृभृवृस्तुद्रुस्रुश्रुवो लिटि । (७-२-१३)

एभ्यो लिट इण्णस्यात् । क्रादीनां चतुर्णां ग्रहणं नियमार्थम् । प्रकृत्याश्रयः प्रत्ययाश्रयो वा यावानिण्णिषेधः स लिटि चेत्तर्हि क्रादिभ्य एव नान्येभ्य इति । ततश्चतुर्णां थलि भारद्वाजनियमप्रापितस्य वमादिषु क्रादिनियमप्रापितस्यचेटो निषेधार्थम् ।



स्थानिकस्य यकारस्य अचः परस्मिन्निति स्थानिवत्त्वेन द्वितीयवकारस्य हलपरकत्वाभावात् तस्मिन्वकारे परे इकारस्य न दीर्घ इति परिहरति । अत्रवकारस्येत्याद्यच्परकत्वमित्यन्तम् ॥ ननु दीर्घविधौ नपदान्तेति निषेधात्कथमिह यकारस्य स्थानिवत्त्वमित्याशङ्क्य निराकरोति । नचनपदान्तेति निषेध इति । शङ्क्य इति शेषः । कुत इत्यत आह । स्वरदीर्घेति । इत्युक्तेरिति ॥ वार्त्तिककृतेति शेषः । थलि एकाच इति ॥ अजधातोरनुदात्तोपदेशानन्तर्भावेऽपि वी इति तदादेशोऽनुदात्तः अजन्तेषु ऊदॄदन्तादिचतुर्दशधातूनामनुदात्तत्वाभ्युपगमादिति भावः । कृसृ इति ॥ कृ सृ भृ वृ स्तु द्रु स्रु श्रु इत्यष्टानां समाहारद्वन्द्वात्पञ्चमी । लिटीति षष्ठ्यर्थे सप्तमी । नेड्वशिकृतीत्यतो नेति इडितिचानुवर्तते । तदाह । एभ्य इति ॥ नन्वेकाच उपदेशेऽनुदात्तादिति श्य्रुकः कितीतिच सिद्धे किमर्थमिदं सूत्रमित्यत आह । क्रादीनामिति ॥ कृ सृ भृ यृ इत्येतेषामित्यर्थः । नियमस्वरूपमाह । प्रकृत्याश्रय इत्यादि ॥ कृसृभृवृ इन्येषां त्रयाणां अनुदात्तोपदेशान्तर्भूतानामेकाच उपदेश इति यः प्रकृत्याश्रयो निषेध., यश्च वृधातोः श्य्रुक कितीति प्रत्ययाश्रयोनिषेधः' तदुभयमपि यदि लिटि स्यात् तर्हि कृसृभृवृ इत्येभ्य एव परस्य लिटो भवति । नतु तदन्येभ्यः परस्येत्यर्थ । तेन बिभिदिव बिभिदिमेत्यादौ एकाच उपदेश इति निषेधः । बभूवेत्यादौ श्य्रुकः कितीति निषेधश्च न भवति । अथ स्तुद्रुस्रुश्रुवाङ्ग्रहणस्य प्रयोजनमाह । तत इति ॥ अन्येषामिति शेषः । चतुर्णामिति ॥ ग्रहणमिति शेषः । ततः तेभ्यः कृसृभृवृ इत्येभ्यः अन्येषां स्तुद्रुस्रुश्रुवाङ्ग्रहणं । थलि तुष्टोथ दुद्रोथ सुस्रोथ शुश्रोथ इत्यत्र ॠतो भारद्वाजस्येति वक्ष्यमाणेन ॠदन्तस्यैव थलि नेट् । अन्यस्य तु स्यादेवेति नियमेन प्राप्तस्य इण्णिषेधार्थम् । तथा तुष्टुव तु ष्टुमेत्यादौ कृसृभृवृ इत्युक्तेन क्रादिभ्य एव परस्य लिट इण्णिषेधः । अन्येभ्यस्तु परस्य इट् स्यादेवेति नियमेन प्राप्तस्य इटो निषेधार्थञ्चेत्यर्थ. । तदेवमजेस्थलि वीभावे एकाच इति निषेधाभावादिडागमो निर्बाध इति स्थितम् । अथ तस्य थलि इडागमस्य भारद्वाजनियमाद्विकल्पं