पृष्ठम्:सिद्धान्तकौमुदी (बालमनोरमा उत्तर-१).djvu/८१

विकिस्रोतः तः
एतत् पृष्ठम् परिष्कृतम् अस्ति
७०
[भ्वादि
सिध्दान्तकौमुदीसहिता

अग्रोचीत् । जुग्लोच । अग्लुचत् - अग्लोचीत् । अकोजीत् । अखोजीत् । ग्लुञ्चु २०१ पस्ज २०२ गतौ' । लुङि अङ्वा । अग्लुचत् - अग्लुञ्चीत् । सस्य श्चुत्वेन शः, तस्य जश्त्वेन जः । सज्जति । अयमात्मनेपद्यपि । सज्जते । 'गुजि २०३ अव्यक्ते शब्दे' । गुञ्जति गुञ्ज्यात् । 'अर्च पूजायाम्' । आनर्च । म्लेच्छ २०५ अव्यक्ते शब्दे' । अस्फुटेऽपशब्देचेत्यर्थः । म्लेच्छति । मिम्लेच्छ । 'लछ २०६ लाछि २०७ लक्षणे' । ललच्छ ललाञ्छ । वाछि २०८ इच्छायाम्' । वाञ्छति । आछि २०९ आयामे' आञ्छति । 'अत आदेः' (२२४८) इत्यत्र तपरकरणं स्वाभाविकह्रस्वपरिग्रहार्थ । तेन दीर्घाभावान्न नुट् । आञ्छ तपरकरणं मुखसुखार्थमिति मते तु नुट् । आनाञ्छ । 'ह्रीच्छ २१० लज्जाया 'जिह्रीच्छ' । 'हुर्च्छा २११ कौटिल्ये' । 'कौटिल्यमपसरणम्' इति मैत्रेयः 'उपधायां च' (२२६५) इति दीर्घः । हूर्च्छति। 'मुर्छा २१२ मोहसमुच्छ्राययोः' । मूर्छति । 'स्फुर्छा २१३ विस्तृतौ' । स्फूर्छति । 'युच्छ २१४ प्रमादे' । युच्छति । 'उछि २१५' उञ्छे' । 'उञ्छः कणश आदानं कणिशाद्यर्जनं शिलम्' इति


दाहरति । अग्लुचदग्लोचीदिति ॥ आढि सति डित्वान्नलघूपधगुणः । अडभावे सिज्लोपः । ग्लुञ्चुषस्जेति ॥ आद्यो नोपधः । द्वितीयस्तु षोपदेशः । अच्परकसादित्वात् । तत्र आद्यस्य लुडि विशेषमाह । आड्वेति ॥ जॄस्तनभ्वित्यनेनेति शेषः । ग्लुचुज्लुञ्च्वोः पृथकग्रहणसामर्थ्यात् नलोपो नेति वृत्तिकृत् । सस्येति ॥ धात्वादेः सत्वे ससज इति स्थिते । द्वितीयस्य सकारस्य श्चुत्वेन शकारइत्यर्थ.। तस्येति ॥ शकारस्य झलाञ्जश्झशीति जकार इत्यर्थः । गुजीति ॥ इदित्वादाशीर्लिडि नलोपो नेत्याह । गुञ्ज्यादिति । अर्चेति ॥ लिटि तस्मान्नुडद्विहल इति नुट मत्वाऽऽह । आनर्चेति ॥ म्लेच्छेत्यादि स्पष्टम् । तुकि लच्छतीति रूपम् । ललच्छ ललच्छतुः । आछीति ॥ लिटि णलि द्वित्वे हलादिशेषे अभ्यासह्रस्वे अ आञ्छ् अ इति स्थिते अत आदेरिति दीर्घः । तस्मान्नुडद्विहल इति नुटमाशङ्क्याह । अत आदेरिति ॥ तत्र हि दीर्घस्याकारस्य दीर्घविधौ प्रयोजनाभावादेव ह्रस्वाकारस्य दीर्घ इति सिद्धौ अत इति तपरकरण स्वाभाविकस्यैव ह्रस्वाकारस्य परिग्रहार्थमित्यर्थः । ततः किमित्यत आह । तेनेति ॥ अत आदेरिति दीर्घविधौ स्वाभाविकह्रस्वाकारस्यैव ग्रहणेन अत आदेरिति दीर्घस्याभावान्ननुडित्यर्थः । आञ्छेति ॥ द्वित्वे हलादिशेषे अभ्यासह्रस्वे सवर्णदीर्घ इति भावः । मुखसुखार्थमिति ॥ तथाच । ह्रस्वस्थानिकदीर्घाकारादपि परस्य नुड् भवत्येवेति भावः । ह्रीच्छलज्जायामित्यादि स्पष्टम् । युच्छप्रमाद इति ॥ यकारादिरुदुपधोऽयम् । युच्छतीति ॥ अन्तरङ्गत्वात् छेचेति तुकि लघूपधत्वाभावात् न गुणः । युयुच्छ । युयुच्छतुः । उछि उञ्छ इति ॥ अयमप्युदुपधः ।