पृष्ठम्:सिद्धान्तकौमुदी (बालमनोरमा उत्तर-१).djvu/८०

विकिस्रोतः तः
एतत् पृष्ठम् परिष्कृतम् अस्ति
प्रकरणम्]
६९
बालमनोरमा ।

अथ द्विसप्ततिर्व्रज्यन्ताः परस्मैपदिनः । 'शुच १८३ शोके' । शोचति । 'कुच १८४ शब्दे तारे' । कोचति । 'कुञ्च १८५ क्रुञ्च १८६ कौटिल्याल्पीभावयोः' । 'अनिदिताम्- '(४१५) इति न लोपः । कुच्यात् । कुञ्च्यात् । 'लुञ्च १८७ अपनयने' । लुच्यात् । 'अञ्चु १८८ गतिपूजनयोः' । अच्यात् । गतौ न लोपः । पूजायां तु अञ्च्यात् । 'वञ्चु १८९ चञ्चु १९० तञ्चु १९१ त्वञ्चु १९२ म्रुञ्चु १९३ म्लुञ्चु १९४ म्रुचु १९५ म्लुचु १९६ गत्यर्थाः' । वच्यात् । चच्यात् । तच्यात् । त्वच्यात् । अम्रुञ्चीत् । अम्लुञ्चीत् ।

२९१ । जॄस्तम्भुम्रुचुम्लुचुग्रुचुग्लुचुग्लुञ्चुश्विभ्यश्च । (३-१-५८)

एभ्यश्च्लेरङ् वा स्यात् । अम्रुचत् - अम्रोचीत् । अम्लुचत् - अम्लोचीत् । 'ग्रुचु १९७ ग्लुचु १९८ कुजु १९९ खुजु २०० स्तेयकरणे' । जुग्रोच । अग्रुचत्-


वर्चादय एकविंशतिः वृत्ताः । द्विसप्ततिरिति ॥ चवर्गीयान्ता इति शेषः । शुच शोक इति ॥ स्मृत्वा क्लेशः शोकः । शोचतीति ॥ वियुक्त पित्रादिक स्मृत्वा क्लिश्नातीत्यर्थ । कुचशब्द इति ॥ शब्दन शब्द । चुकोच । चुकुचतुः । अकोचीत् । कुञ्च, क्रुञ्चेति ॥ उभावपि चवर्गपञ्चमोपधौ । अनुस्वारपरसवर्णसम्पन्नस्य नकारस्थानिकञकारस्य धातुपाठे निर्देश । धातुपाठे नकारजावनुस्वारपञ्चमावित्यभियुक्तवादात् । तदाह । अनिदितामिति ॥ अनुस्वारपरसवर्णयोरसिद्धतया नकारस्य सत्वेन आशीर्लिङि अनिदितामिति लोपे कुच्यादिति रूपमित्यर्थः । लिटि तु, चुक्रुञ्च चुक्रुञ्चतुरित्यादौ पित्वेन सयोगात्परत्वेन च, कित्वाभावान्नलोपो न भवति । क्रुञ्चधातुस्तु स्वाभाविकञकारोपध एव । नत्वनुस्वारपरसवर्णसम्पन्नञकारोपध इति परेश्चघाङ्कयोरिति सूत्रे भाष्यकैयटयो. स्थितम् । अतस्तस्याशीर्लिडि अनिदितामिति नलोपस्य न प्रसक्तिरित्यभिप्रेत्योदाहरति । कुञ्च्यादिति ॥ ञकारहितपाठस्तु प्रामादिक इति शब्देन्दुशेखरे स्थितम् । लुञ्चेति ॥ अयमपि नोपधः । अनुस्वारपरसवर्णसम्पन्नस्य ञकारस्य निर्देशः । तथा व आशीर्लिडि अनिदितामिति नलोप. । तदाह । लुच्यादिति ॥ एवमञ्चुधातोरपि द्रष्टव्यम् । पूजायान्त्विति ॥ नाञ्चेः पूजायामिति निषेधादिति भावः । वञ्चुचञ्चुतञ्चु इति ॥ आद्या. षट् नोपधाः । अनुस्वारपरसवर्णाभ्यां ञकारनिर्देशः । तथा च तेषामाशीर्लिडि अनिदितामिति नलोपः । तदाह । वच्यादिति ॥ लुडि अम्रुञ्चीदम्लुञ्चीदिति नोपधयो रूपं । सिज्लोपः । जॄस्तंभ्विति ॥ च्ले सिजित्यत. च्लेरिति, अस्यतिवक्तिख्यातिभ्य इत्यतः अडिति, इरितोवेत्यतः वेतिचानुवर्तते । तदाह। एभ्यश्च्लेरड्वेति ॥ जॄष् वयोहानौ । स्तन्भु सौत्रो धातुः । म्रुचुम्लुचुगत्यर्थौ । ग्रुचु ग्लुचु स्तेयकरणे । ग्लुञ्चुगतौ । इत्येभ्य इत्यर्थः । अम्रुचदिति ॥ च्लेरडि सति डित्वान्नलघूपधगुणः । अम्रोचीदिति ॥ अडभावे इटईटि इति सिज्लोपः । ग्रुचुग्लुचु इति ॥ जॄस्तन्भ्विति अड्वेत्याह । अग्रुचदग्रोचीदिति ॥ आद्यस्य रूपे । अथ द्वितीयस्य अड्विकल्पमु-