पृष्ठम्:सिद्धान्तकौमुदी (बालमनोरमा उत्तर-१).djvu/७९

विकिस्रोतः तः
एतत् पृष्ठम् परिष्कृतम् अस्ति
६८
[भ्वादि
सिध्दान्तकौमुदीसहिता

दर्शने' । लोचते । लुलोचे । 'शच १६५ व्यक्तायां वाचि' शेचे । 'श्वच १६६ श्वचि १६७ गतौ' । श्वचते । श्वञ्चते । 'कच १६८ बन्धने' । कचते । 'कचि १६९ काचि १७० दीप्तिबन्धनयोः' । चकञ्चे । चकाञ्चे । 'मच १७१ मुचि १७२ कल्कने' कल्कनं दम्भः, शाठ्यं च । 'कथनम्' इत्यन्ये । मेचे । मुमुञ्चे । 'मचि १७३ धारणोच्छायपूजनेषु' । ममञ्चे । 'पचि १७४ व्यक्तीकरणे' । पञ्चते । 'ष्टुच १७५ प्रसादे' । स्तोचते । तुष्टुचे । 'ॠज १७६ गतिस्थानार्जनोपार्जनेषु' । अर्जते । नुड्विधौ ॠकारैकदेशो रेफो हल्त्वेन गृह्यते । तेन द्विहल्त्वान्नुट् । आनृजे । 'ॠजि १७७ भृजी १७८ भर्जने' । ॠञ्जते । 'उपसर्गादृति-' (७४) इति वृद्धिः । प्रार्ञ्जते । ॠञ्जांचक्रे । आर्ञ्जिष्ट । भर्जते । बभृजे । अभर्जिष्ट । 'एजृ १७९ भ्रेजृ १८० भ्राजृ १८१ दीप्तौ' । एजांचक्रे । 'ईज १८२ गतिकुत्सनयोः । ईजांचक्रे ।


शाठ्यंचेति ॥ परविस्रम्भार्थन्धर्माद्याचरणण्ड्म्भः । कापट्यापरपर्याय: । 'कपटोऽस्त्री व्याजदम्भोपधय' इत्यमरः । श ठ्य ङ्कुटिलीभाव । 'निकृतस्त्वनृजु शठ' इत्यमरः । पचि व्यक्तीकरण इति ॥ पचि विस्तार इति चुरादौ वक्ष्यते । ष्टुच प्रसाद इति ॥ ष्ठत्वसम्पन्नः टकार । ततश्च दन्त्यपरकसादित्वात् षोपदेशोऽयम् । स्तोचत इति ॥ पख्य सत्वे सति ष्टुत्व निवर्तत इति भावः । तुष्टुचे इति ॥ शर्पूर्वाः स्वस्य इति तकारशेषः । आदेशसकारत्वात् षत्वम् । ऋज गतीति ॥ आर्जनम् सम्पादनम् । उपार्जनम् सेवनम् । अर्जत इति ॥ शपि लघूपधगुणः । रपरत्वम् । नुडविधाविति ॥ वार्तिकमिदम् । आनृज इति ॥ लिटः असयोगादिति कित्वात् गुणाभावे द्वित्वे उरदत्वे रपरत्वे हलादिशेषे अत आदेरिति दीर्घे नुडिति भावः । ऋजिभृजी इति ॥ ॠदुपधौ द्वौ । आद्यः इदित् । द्वितीयस्य ईदित्वात् श्वीदितोनिष्ठायामिति नेट् । इदित्वान्नुम् । अनुस्वारपरसवर्णौ । ऋञ्जाञ्चक्र इति ॥ नुमि सति सयोगे गुर्विति ॠकारस्य गुरुत्वादिजादेश्चेत्याम् । ॠञ्जिता । ॠञ्जिष्यते । ॠञ्जताम् । आर्ञ्जत । ॠञ्जेत । ॠञ्जिषीष्ट । अथ लुङि रूपम् दर्शयति । आर्ञ्जिष्टेति ॥ लुङः तादेशः । च्लि । सिच । इट । लघूपधत्वान्न गुणः । आट । वृद्धिः । षत्वं । ष्टुत्व । लृङि, आर्ञ्जिष्यत । भर्जत इति ॥ शपि लघूपधगुणः । रपरन्वम् बभृजे । भर्जिता । भर्जिष्यते । भर्जताम् । अभर्जत । भर्जेत । भर्जिषीष्ट । लुङि रूपमाह । अभर्जिष्टेति ॥ लृङस्तादेशः च्लिः सिच् इट गुणः रपरत्वम् अडागम षत्वं ष्टुत्वं । लृटि अभर्जिष्यत । एजृभ्रेजृभ्राजृ इति ॥ आद्ययो ॠदित्वम् नाग्लोपित्वार्थम् । तृतीयस्य तु अकारेत्कत्वेऽप्यात्मनेपदं सिध्यति । ॠदित्वस्य न किञ्चित्फलमस्ति । न च नाग्लोपीति चड्परे णौ उपधाह्रस्वः फलम्भवितुमर्हति । भ्राजभासेत्यादिना तत्र उपधाह्रस्वविकल्पस्य वक्ष्यमाणत्वात् । ईजगतीति ॥ अलघूपधत्वान्नगुणः । ईजते । ईजाञ्चक्र इति ॥ इजादेश्चेत्याम् ।