पृष्ठम्:सिद्धान्तकौमुदी (बालमनोरमा उत्तर-१).djvu/८

विकिस्रोतः तः
एतत् पृष्ठम् परिष्कृतम् अस्ति
उपोध्दातः ।

अत्र च एतत्प्रकटनसाह्यकर्तॄणाम् अन्तरान्तरा मातृकाप्रदानलेखावधानप्रकटनाप्रख्यापनादिद्वारा भृशमुपकारिणाम् अनसूयूनाम् अनहंयूनाम् अनशुभंयूनाम् अवदातधियाम् अनुवारम् अनुसन्ध्यम् अयुतशः प्रणामाः प्रतायन्ते प्रह्वशिरोवाङ्भनसेन मया ॥

अत्र च सर्वथा प्राधान्यं वहन्ति त्रिशिरःपुरस्थसैण्ट्जोसफाख्याङ्गलकलामहापाठालये गैर्वाण्यध्यापकपदमधितिष्ठन्तः सारस्वतसारज्ञाः श्रीमन्तः तट्टै वाधूलश्रीनिवाससूरयो महाभागाः । येषां च साहाय्येन मदीयमिदं बालमनोरमामुद्रणं प्रचलति स्मेति सतोषमभिधीयते । महेन्द्रमङ्गलम् आर्यब्रह्मश्रीमत्कृष्णशास्त्रिणां परिशोधनकर्मसहभावमतीव स्मरामि । परमत्र प्रख्यापनपथे सर्वथा समग्रसुव्यक्तलिपिसक्तमनोरमबालमनोरमामातृकाप्रेषकः परमरमणीयगुणाभोगराजमानः प्रसिध्दतञ्जौरनगरनिवासी आर्यश्रीत्यागराजस्वामी सर्वथा न विस्मरणीय इति तन्नाम नस्सौप्रभातिकमिति समञ्जसम् । अंशांशशश्च मातृका असमग्रा व्यक्ताव्यक्ताः खिलाखिला अपि साप्तपदीनेन सह्रुदयह्रुदयसाधारणेन संप्रेष्य यथाशक्ति साह्यं क्रुतवतां कार्यसंसिध्दिञ्च प्रतीक्षितवताम् अनृशंसमनसाम् आत्मवदग्रगण्यानाम् , श्रीचिदम्बरम् आर्यब्रह्मश्रीमद्दण्डपाणिस्वामिदीक्षित , चिदम्बरम् आर्यब्रह्मश्रीमध्दरिहरशास्त्रि , तिरुच्चेन्दुरै आर्यब्रह्मश्रीमदखिलाण्डनारायणदीक्षित, तेरळन्दूर् आर्यब्रह्मश्रीमद्वेदसुब्रह्मण्यशास्त्रि , श्रीनिवासनल्लूर् आर्यब्रह्मश्रीमत्सुन्दरशास्त्रि , नल्लूर् आर्यब्रह्मश्रीमत्कल्याणसुन्दरशास्त्रि , नाञ्जूर् आर्यब्रह्मश्रीमत्कुप्पुस्वामिशास्त्रि , कुम्भघोणं आर्यब्रह्मश्रीमत्सुन्दरशास्त्रिप्रभृतीनाम् अत्यन्तं अध्यन्तरङ्गं अनवरतं अस्मि स्मरन्नधिकमुपकारम् । इमं दुष्करमेतादृशमहाकार्यनिर्वाहं प्रतिज्ञाय यथाप्रतिज्ञातमतीव स्नेहेन अनुरोधेन च निर्वर्तितवतः सैण्ट् जोसफ्स् इण्डस्ट्रियल् स्कूल् मुद्राशालाध्यक्षस्य महानुपकारः स्मरणीयः ॥

अन्ते च पञ्चनदस्थराजकीयसंस्कृतमहाकलाशालाप्रथमपण्डितानामभिनवभट्टबाणशब्दतर्कालङ्कारविद्याभूषणबिरुदभाजां वात्स्यचक्रवर्तिनां श्रीकृष्णमाचार्याणामपि कृदन्तप्रकरणादारभ्य परिशोधनोपकारं नाहं विस्मर्तुं प्रभवामि ॥