पृष्ठम्:सिद्धान्तकौमुदी (बालमनोरमा उत्तर-१).djvu/७

विकिस्रोतः तः
एतत् पृष्ठम् परिष्कृतम् अस्ति
उपोध्दातः ।

परीक्षकेषु प्रतिभूषु च प्रथितमहागिरिगुरुबुध्दिषु प्रायशो महाशयेषु व्याख्योडुपं विना वाचमुत्तरीतुमनलम्भूष्णुषु, वर्णश। पदशो वाक्यशश्र्च व्याख्यानान्यवश्यङ्करणीयानीति भवितव्यतायां च भुवनमनु भावितायां जगदुपकर्तुमना मनोरमेयं बालानामिति स्वनिगदव्याख्यातस्वविभवां बालमनोरमां वासुदेवाध्वरी व्यररचत् । तदियं न केवलमारुरुक्षतामध्वानमाक्षरसमाम्नायिकमाम्रायभाषापदप्रक्रियाणामुपकारिका परमभ्यम्तभाष्यप्रदीपोद्द्योतविवरणमञ्जूपाभूषणसारवाक्यपदीयानामपि परमोपकारिणीति निश्र्चप्रचम ॥

एष च वासुदेवाध्वरी तञ्जौरनगरमहाराष्ट्रमहीपतिमालभारिश्रीशाहजीप्रभृतिपञ्चपुरुषीपोप्यप्रवृत्तिरासीदधिश्रीवशवटारण्यगोविन्दपुराद्याधिकरणमधिनवतिपञ्चवत्सर इति कर्णाकर्णिकया तत्प्रवन्धपरिसमाप्तिपर्याप्तपरिलिप्ततज्ज्ञप्ति साधकतद्विरुदापदानवैखरीमौखरीतश्र्च सुविशदमधिगम्यते । सर्वथाप्येप दक्षिणा हि चिदम्बरादुत्तरा च तञ्जौरादास्त कश्र्चिद्दक्षिणतमो वाग्मी वल्लभश्र्च पदप्रमाणतन्त्रयोः कैस्तहायनीयाष्टादशशतकचरमपादकालिक इति चतुरश्रम । अम्य च ग्रन्थस्य प्रचिचारयिषा परं प्रथितयशसां प्रभूणां प्रौढवचसां प्रकटनपरायणानां पण्डितानाञ्च तत इतश्च मुहुर्मुहुरुदयमस्तमयञ्च लभमाना क्वचिच्छिरोमात्रम् , क्वचिदुरोवधि, क्वचिदुदरान्तं च प्रदर्श्य प्रदर्श्य प्रणाशं प्रणाशं "प्रकटिता बालमनोरमा प्रकटिता बालमनोरमा" इति प्रघोषघण्टमात्रा प्रत्यक्षमध्यैक्ष्यत । तदियङ्कथञ्चिदखिलभुवनालोकनाय ममग्रमधिसन्निधि सन्निधापयितव्येति श्रध्दाय परमहमसमृध्दोपकरणोऽपि बध्दादरमध्दात्र प्रावृनम् । अहो ! बत ! बहोः कालादुपक्रान्तापि सेयं बालमनोरमा पिपीलिकाप्रौढशिखराधिरोहन्यायेन मन्दंमन्दमवसानवचनरचनावसम्पर्चनामधिगेहन्ती सन्तन्तनीति सन्तोषिणम्मामधुनैव संपरिणतफलं सस्यमिव संव्यवसायिनम् । अत्र चेत्थमनुमोमुदति मुदितमनसः मानितपदनयप्रबन्धप्रकटनप्रकियाः मान्यमानाद्यष्टादशाधिकशतप्रबन्धकृतोऽभिनवदवनपुरकुंभघोणाभिजनाः भट्टश्रीबालसरस्वतीनारायणशास्त्रिमहाशयाः ॥ ‌----तद्यथा

न हि शब्दरत्नकौस्तुभशेखरसुभगीकृतापि सा प्रौढा ।
कुरुते कौमुद्यामिह कुतुकं बाला मनोरमैकैव ॥