पृष्ठम्:सिद्धान्तकौमुदी (बालमनोरमा उत्तर-१).djvu/७५

विकिस्रोतः तः
एतत् पृष्ठम् परिष्कृतम् अस्ति
६४
[भ्वादि
सिध्दान्तकौमुदीसहिता


नस्य व्यापारो ग्रन्थितुर्वा । आद्येऽकर्मको द्वितीये सकर्मकः । श्लोकते । 'द्रेकृ ७८ ध्रेकृ ७९ शब्दनोत्साहयोः' । उत्साहो वृद्धिरौद्धत्यं च । एचइग्घ्रस्वादेशे इति ह्रस्वः । दिद्रेके । दिध्रेके । 'रेकृ ८० शङ्कायाम्' । रेकते । 'सेकृ ८१ स्रेकृ ८२ स्रकि ८३ श्रकि ८४ श्लकि ८५ गतौ' । त्रयो दन्त्यादयः । द्वौ तालव्यादी । अपोपदेशत्वान्न षः । सिसेके । 'शकि ८६ शङ्कायाम्' । शङ्कते । शशङ्के । 'अकि ८७ लक्षणे' । अङ्कते । आनङ्के । 'वकि ८८ कौटिल्ये' । वङ्कते 'मकि ८९ मण्डने' । मङ्कते । 'कक ९० लौल्ये' लौल्यं गर्वश्चापल्यं च । ककते । चकके । 'कुक ९१ वृक ९२ आदाने' कोकते । चुकुके । वर्कते । ववृके ।

ऋदुपधेभ्यो लिटः कित्त्वं गुणात्पूर्वविप्रतिषेधेन ।

'चक ९३ तृप्तौ प्रतिघाते च' । चकते । चेके । 'ककि ९४ वकि ९५ श्वकि ९६ त्रकि ९७ ढौकृ ९८ त्रौकृ ९९ ष्वक्क १०० वस्क १०१ मस्क



अकर्मकः । सङ्घीकरणार्थत्वे सकर्मक इत्यर्थः । श्लोकत इति ॥ सङ्घीभवतीत्यर्थः । सङ्घीकरोतीति वा । द्रेकृ धेकृ इति ॥ शब्दनम् शब्दः । एच इति ॥ लिट एशि च द्वित्वे हलादिशेषे देद्रेक् ए इति स्थिते अभ्यासे एकारस्य द्दध्रस्वो भवत् एच इग्घ्रस्वादेश इति इकारो भवतीत्यर्थः । दिध्रेके इति ॥ अभ्यासे धकारस्य जश्त्वेन दकारः । एकारस्य तु ह्रस्य इकारः । रेकृ इति ॥ शङ्का संशयः आक्षेपोवा । शीकृ सेचन इत्यारभ्य एतत्पर्यन्ता ॠदितः । सेकृ इति ॥ आद्यौ एकारमध्यौ ॠदितौ । इतरे त्रयः अदुपधाः इदितः । त्रय इति ॥ पञ्चसु आद्यास्त्रय इत्यर्थः । अषोपदेशत्वादिति ॥ सेकृधातोः पर्युदासान्नषोपदेशत्वम् । द्वितीयतृतीययोस्तु दत्याच्परकसादित्वाभावान्न षोपदेशत्वम् । ततश्च सकारस्यादेशसकारत्वाभावान्न षत्वमिति भावः । एच इग्घ्रस्वादेश इत्यभिप्रेत्याह । सिसेक इत्यादि ॥ सिस्रके इत्यादाविदित्वान्नुम् । शकीति ॥ इदित्वान्नुमित्याह । शंकत इति । शशंक इति । अकीति ॥ लक्षणञ्चिद्द्नीकरणम् । अंकत इति ॥ इदित्वान्नुम् । आनंक इति ॥ तस्मान्नुड्द्विहल इति नुट् । वकि कौटिल्ये इत्यादि स्पष्टम् । कुकवृकेति ॥ द्वितीयः ॠदुपधः । शपि लघूपधगुण मत्वा आह । कोकत इति । चुकुक इति ॥ असंयोगादिति कित्वात् न लघूपधगुणः । अभ्यासे चुत्वम् । लघूपधगुणेरपरत्वं मत्वाऽऽह । वर्कत इति ॥ लिटि असंयोगादिति कित्वान्न गुण इति मत्वाऽऽह । ववृके इति ॥ उरदत्वं हलादिश्शेषः । ननु कित्वात् परत्वात् गुणः स्यात् । कृते गुणे रपरत्वे संयोगात्परत्वेन कित्वस्याप्रवृत्या अनित्यत्वादित्यत आह । ऋदुपधेभ्यो लिटः किन्वं गुणात् पूर्वविप्रतिषेधेनेति । चकेति ॥ तृप्तावकर्मकः । प्रतिघाते सकर्मकः । एत्वाभ्यासलोपौ मत्वाऽऽह । चेक इति । ककीति ॥ एते पञ्चदश धातवः । आद्याश्चत्वार इदितः । द्वितीयो वकारादिः । तृतीयस्तालव्यादिः । पञ्चमषष्ठौ, दशमाद्याश्चत्वारश्च, ॠदितः । दशमद्वादशौ इदुपधौ । रघिंलघी-