पृष्ठम्:सिद्धान्तकौमुदी (बालमनोरमा उत्तर-१).djvu/७४

विकिस्रोतः तः
एतत् पृष्ठम् परिष्कृतम् अस्ति
प्रकरणम्]
६३
बालमनोरमा ।

पाठान्तरम् । 'गडि ६५ वदनैकदेशे' गण्डति | 'अन्तत्यादयः पञ्चैते न तिङ्विषया' इति काश्यपः । अन्ये तु तिङमपीच्छन्ति । 'णिदि ६६ कुत्सायाम्' । निन्दति । प्रणिन्दति । 'टुनदि ६७ समृद्धौ' ।

२२८९ । आदिर्ञिटुडवः । (१-३-५)

उपदेशे धातोराद्या एते इतः स्युः । नन्दति । इदित्त्वान्नलोपो न । नन्द्यात् । 'चदि ६८ आह्लादे' चन्दति । चचन्द । 'त्रदि ६९ चेष्टायाम्' त्रन्दति । तत्रन्द । 'कदि ७० क्रदि ७१ क्लदि ७२ आह्वाने रोदने च' । चकन्द । चक्रन्द । चक्लन्द । 'क्लिदि ७३ परिदेवने' । चिक्लिन्द । 'शुन्ध ७४ शुद्धौ' शुन्धति । शुशुन्ध । नलोपः । शुध्यात् ।

अथ कवर्गीयान्ता अनुदात्तेतो द्विचत्वारिंशत् । 'शीकृ ७५ सेचने' । तालव्यादिः । 'दन्त्यादिः' इत्येके । शीकते । शिशीके । 'लोकृ ७६ दर्शने' । लोकते । लुलोके । 'श्लोकृ ७७ संघाते' । संघातो ग्रन्थः । स चेह ग्रथ्यमा-


पाठान्तरमिति ॥ पवर्गीयचतुर्थादिरित्यर्थ । गडीति । वदनैकदेश इति ॥ तत्क्रियायामित्यर्थ । गण्डति अगण्डीत् । अन्तत्यादय इति ॥ अति अदि बन्धने । इदि परमैश्वर्ये । बिदि अवयवे । गडि वदनैकदेशे । इति पञ्च धातवः तिङ्प्रकृतयो न भवन्तीति काश्यपमतमित्यर्थः । अन्य इति ॥ काश्यपादन्ये मुनय तिङमपि एभ्य इच्छन्तीत्यर्थ. । णिदीति ॥ इदित्वान्नुम् । णोपदेशत्वात् णस्य नत्वम् । तदाह । निन्दतीति । प्रणिन्दतीति ॥ उपसर्गादसमासेऽपीति णत्वम् । टुनदीति ॥ समृद्धि प्रजापश्वादिसम्पत्ति । आदिरिति ॥ भूवादयो धातव इत्यस्मात् धातव इत्यनुवृत्त षष्ठ्या विपरिणम्यते । उपदेशेऽजनुनासिक इत्यस्मात् उपदेश इति इदिति चानुवर्तते । आदिरिति इदिति च बहुत्वे एकवचनम् । तदाह । उपदेश इति ॥ ट्वित्करण ट्वितोऽथुजित्येतदर्थम् । नन्दतीति ॥ इदित्वान्नुम् । इदित्वादिति ॥ आशीर्लिङि यासुट कित्वेऽपि इदित्वात् अनिदितामिति नलोपो नेत्यर्थः । नन्द्यादिति ॥ अन्त्यादन्द्यादित्यस्याप्युपलक्षणम् । चदीति ॥ इदित्वान्नुमित्याह । चन्दतीति । त्रदीति ॥ अदुपधोऽयम् । इदित्वान्नुमित्याह । त्रन्दतीति ॥ क्रदिक्लदीति ॥ अदुपधौ । क्लिदिपरिदेवन इति ॥ अनुदात्तेत्सु पठितस्येह पाठः परस्मैपदार्थः । शुन्धशुद्धाविति ॥ अकर्मकोऽयम् । शुन्धतीति ॥ शुचिर्भवतीत्यर्थः । ननु शुधीत्येवमिदिदेवाय कुतो न पठित इत्याह । नलोप इति ॥ आशीर्लिङि अनिदितामिति नलोपे शुध्द्यादिति रूपमिष्टम् । इदित्वेतु नलोपो न स्यादिति भाव । अथ कवर्गीयान्ता इत्यादि लोकृ इत्यन्त स्पष्टम् । श्लोकृ इति ॥ सङ्घातशब्द व्याचष्टे । ग्रन्थ इति ॥ ननु वाक्यसमुदायात्मकस्य ग्रन्थस्य अक्रियात्वात् कथन्धात्वर्थत्वमित्याशङ्क्याह । स चेहेति । ग्रन्थनङ्ग्रन्थः सङ्घीभावः सङ्घीकरणं वा । तत्र सङ्घीभवन सङ्घनिष्ठम् । सङ्घीकरणन्तु सङ्घीकर्तृनिष्ठम् । तत्र सङ्घीभवनार्थकत्वे