पृष्ठम्:सिद्धान्तकौमुदी (बालमनोरमा उत्तर-१).djvu/७०

विकिस्रोतः तः
एतत् पृष्ठम् परिष्कृतम् अस्ति
प्रकरणम्]
५९
बालमनोरमा ।

२२७८ । सेधतेर्गतौ । (८-३-११३)

गत्यर्थस्य सेधतेः न षत्वं स्यात् । गङ्गां विसेधति । 'षिधू ४८ शास्त्रे माङ्गल्ये च' । शास्त्रं शासनम् ।

२२७९ । स्वरतिसूतिसूयतिधूञूदितो वा । (७-२-४४)

स्वरत्यादेरूदितश्च परस्य वलादेरार्धधातुकस्येड्वा स्यात् ।

२२८० । झषस्तथोर्धोऽधः । (८-२-४०)

झषः परयोस्तथोर्धः स्यान्न तु दधातेः । जश्त्वम् । सिषेद्ध-सिषेधिथ । सेद्धा-सेधिता । सेत्स्यति-सेधिष्यति । असैत्सीत् ।


स्तौतिण्योरेवेति नियमान्नषत्वम् । सेधतेरिति । नषत्वमिति ॥ नरपरेत्यतो नेत्यनुवृत्तेरिति भावः । गङ्गा विसेधतीति । गच्छतीत्यर्थ । इह उपसर्गात्सुनोतीति षत्वन्न भवति । अनन्तरस्येति न्यायेन उपसर्गात्सुनोतीत्यस्यैवायन्निषेधः । नत्वादेशप्रत्यययोरित्यस्यापि । तेन सिषेधेत्यादौ आदेशप्रत्यययोरिति षत्वम्भवत्येव । षिधू इति । ननु वाक्यसङ्घविशेषात्मकस्य शास्त्रस्य अक्रियारूपत्वात्कथं धात्वर्थत्वमित्यत आह । शास्त्रं शासनमिति ॥ माङ्गल्यन्तु शुभकर्म । षिधगत्यामितिवदस्यापि रूपाणि । तत्र वलादावार्धधातुके नित्यमिटि प्राप्ते । स्वरतीति ॥ आर्धधातुकस्येड्वलादेरित्यनुवर्तते । स्वरति सूति सूयति धूञ् ऊदित् एषा समाहारद्वन्द्वात्पञ्चम्येकवचनम् । फलितमाह । स्वरत्यादेरिति ॥ स्वरतीति स्वृधातो. शपा निर्देशः । सूतीति सूयतीति च लुग्विकरणस्य श्यन्विकरणस्यच सूधातोर्निर्देशः । एवञ्च षू प्रेरण इति तौदादिकस्य न ग्रहणम् । धूञ् कम्पने । स्वादि क्र्यादिश्च । ञकारानुबन्धनिर्देशात् । धू विधूनन इत्यस्य न ग्रहणम् । इट्सनिवेत्यतो वेत्यनुवर्तमाने वा ग्रहण लिड्सिचोरात्मनेपदेष्विति विकल्पनिवृत्यर्थमिति भाष्यम् । एवञ्च थलि इडभावपक्षे द्वित्वादौ सिसेध् थ इति स्थिते । झषस्तथोरिति ॥ झष इति पञ्चमी । तश्च थ्चेति द्वन्द्व । तकारादकार उच्चारणार्थ । तकारथकारयोरिति लभ्यते । ध इति प्रथमैकवचनम् । अकार उच्चारणार्थ । धकार इति लभ्यते । अध इति षष्ठ्यन्तम् । धाधातुभिन्नस्येति लभ्यते । तदाह । झषः परयोरिति । जश्त्वमिति ॥ सिसेध् ध इति स्थिते झलाञ्जश् झशीति प्रथमधकारस्य दकारे सिषेद्धेति रूपमित्यर्थः । सिषिधिव सिषिध्व सिषिधिम सिषिध्म । क्रादिनियमस्तु नेड्वशीति प्रक्रमान्नञ्प्रापितस्यैवाभावस्य निवर्तक. । नतु विभाषादिप्रापितस्यापि । अनन्तरस्येति न्यायात् । इट्पक्षे आह । सिषेधिथेति । सेद्धेति ॥ लुट् तास् इडभाव. डा टिलोपः गुण. धत्व । सद्धारौ सेद्धार इत्यादि । सेधितेति ॥ इट्पक्षे रूपम् । सेत्स्यति सेधिष्यतीति । लृटि स्य. इड्विकिल्पः । असौत्सीदिति ॥ लुडस्तिप् इकारलोप. च्लिः सिच् इडभावः अस्तिसिच इति ईट् वदव्रजेति वृद्धि धकारस्य चर्त्वम् । असैध् स् तामिति स्थिते । अपृक्त