पृष्ठम्:सिद्धान्तकौमुदी (बालमनोरमा उत्तर-१).djvu/६९

विकिस्रोतः तः
एतत् पृष्ठम् परिष्कृतम् अस्ति
५८
[भ्वादि
सिध्दान्तकौमुदीसहिता

२२७४ । वेश्च स्वनो भोजने । (८-३-६९)

व्यवाभ्यां स्वनतेः सस्य षः स्याद्भोजने ।

२२७५ । परिनिविभ्यः सेवसितसयसिवुसहसुट्स्तुस्वञ्जाम् । (८-३-७०)

परिनिविभ्यः परेषामेषां सस्य षः स्यात् । निषेधति ।

२२७६ । प्राक्सितादड्व्यवायेऽपि । ( ८-३-६३)

'—सेवसित--' (२२७५) इत्यत्र सितशब्दात्प्राक् ये सुनोत्यादयस्तेषामड्व्यवायेऽपि षत्वं स्यात् । न्यषेधत् न्यषेधीत् । न्यषेधिष्यत् ।

२२७७ । स्थादिष्वभ्यासेन चाभ्यासस्य । ( ८-३-६४)

प्राक्सितात्स्थादिष्वभ्यासेन व्यवायेऽपि षत्वं स्यात् । एषामेवचाभ्यासस्य न तु सुनोत्यादीनाम् । निषिषेध । निषिषिधतुः ।


द्वन्द्वात्सप्तमीद्विवचनम् । एतयोरिति ॥ आलम्बनाविदूर्ययेारर्थयोर्विद्यमानस्य अवात्परस्य स्तन्भेरित्यन्वयः । अपूर्वविधिरयम् । इण: परत्वाभावादप्राप्ते । आलम्बने यथा । यष्टिमवष्टभ्य तिष्ठतीति । आश्रित्येत्यर्थः । आविदूर्यं सामीप्यम् । अवष्टब्धा गौः । निरुद्धा सती समीपे आस्त इत्यर्थः । वेश्चेति ॥ अवादित्यनुकर्षणार्थश्चकारः । तदाह । व्यवाभ्यामिति ॥ विष्वणति । अवष्वणति । सशब्दम्भुङ्क्ते इत्यर्थः । अट्कुप्वाङिति णत्वम् । परिनिविभ्य इति ॥ सेवेत्यकार उच्चारणार्थः । षेवृ सेवायामितिधातोर्ग्रहणम् । परिषेवते । निषेवते । विषेवते । सितेत्यनेन षिञ् बन्धन इति क्तान्तस्य ग्रहणम् । अस्यैव धातोः एरजन्तो वा पचाद्यजन्तो वा सय शब्दः । विषितः विषयः । षिवु तन्तुसन्ताने परिषीव्यति । षह मर्षणे परिषहते । सुडागमः । परिष्करोति । स्तुस्वञ्जोरुपसर्गात् सुनोतीत्येव सिद्धे सिवादिना वेति विकल्पार्थम्पुनर्वचनम् । प्राक्सितादिति ॥ सुनोत्यादय इति ॥ उपसर्गात्सुनोतीत्यादिसूत्रेापात्ता इति शेषः । तेषामिति ॥ पञ्चदशानामित्यर्थः । न्यषेधदिति ॥ अकारेण व्यवहितत्वादिण: परत्वाभावादप्राप्तौ वचनम् । अभ्यषुणोदित्यप्युदाहार्यम् । स्थादिष्विति ॥ अभ्यासेनेति तृतीयान्तम् प्राक्सितादित्यनुवर्तते । तदाह । प्राक्सितादिति ॥ उपसर्गात्सुनोतीति सूत्रे स्थाधातुमारभ्य परिनिविभ्यःसेवसितेत्यत्र सितशब्दात्प्राक् ये धातव उपात्ताः तेषु दशस्वित्यर्थः । निषिषेधेत्यादौ अभ्यासात्परस्य सस्य अभ्यासव्यवहितत्वेन उपसर्गात्परत्वाभावादप्राप्तौ वचनम् । ननु निषिषेधत्यादौ अभ्यासस्थसकारस्य उपसर्गत्सुनोतीत्यनेनैव सिद्धत्वादभ्यासस्येति व्यर्थमित्याशङ्क्य नियमार्थमित्याह । एषामेवेति ॥ यद्यभ्यासस्थसकारस्य चेत् षत्व तर्हि स्थादिदशानामेवेत्यर्थः । एवञ्च षू प्रेरणे अभिसुसूषति । अत्राभ्यासस्य न षत्वम् । अभ्यासात्परस्य तु सस्य