पृष्ठम्:सिद्धान्तकौमुदी (बालमनोरमा उत्तर-१).djvu/६८

विकिस्रोतः तः
एतत् पृष्ठम् परिष्कृतम् अस्ति
प्रकरणम्]
५७
बालमनोरमा ।


२२७० । उपसर्गात्सुनोतिसुवतिस्यतिस्तौतिस्तोभतिस्थासेनयसेधसिचसञ्जस्वञ्जाम् । (८-३-६५)

उपसर्गस्थान्निमित्तादेषां सस्य षः स्यात् ।

२२७१ । सदिरप्रतेः । (८-३-६६)

प्रतिभिन्नादुपसर्गात्सदेः सस्य षः स्यात् ।

२२७२ । स्तन्भेः । (८-३-६७)

सौत्रस्य सस्य षः स्यात् । योगविभाग उत्तरार्थः । किंच 'अप्रतेः' इति नानुवर्तते । 'बाहुप्रतिष्टम्भविवृद्धमन्युः' इति ।

२२७३ । अवाच्चालम्बनाविदूर्ययोः । (८-३-६८)

अवात्स्तन्भेरेतयोरर्थयोः षत्वं स्यात् ।


शङ्क्याह । सात्पदाद्योरिति ॥ उपसर्गात्सुनोतीति । उपसर्गस्थादिति ॥ उपसर्गशब्द उपसर्गस्थे लाक्षणिक इति भाव. । निमित्तादिति ॥ इण्रूपादित्यर्थः । इण्कोरित्यधिकारेऽपि कोरिति नात्र सम्बध्यते । असम्भवात् । सस्येति ॥ सहे. साढ. स इत्यत. स इति षष्ठ्यन्तमनुवर्तत इति भाव । षः स्यादिति ॥ अपदान्तस्य मूर्धन्य इत्यधिकारादिति भावः । अत्र सुनोतीत्यादिश्तिपानिर्देशो यड्लुङ्निवृत्यर्थ इति प्राञ्चः । स्पष्टार्थ इति प्रौढमनोरमायाम् । सेनयेति णिजन्तो नामधातु । सेधतीति शपानिर्देशात् सिध्यतेर्न ग्रहणम् । अभिषुणोतीत्याद्युदाहरण । प्रकृते निषेधतीत्याद्यर्थमिह सूत्रोपन्यासः । प्रसङ्गादाह । सदिरप्रतेरिति ॥ उपसर्गादिति । उपसर्गस्थादिणः परस्येत्यर्थ । सदिरिति ॥ षष्ठ्यर्थे प्रथमेत्यभिप्रेत्याह । सदेस्सस्येति ॥ निषीदतीत्युदाहरणम् । स्तन्भेरिति ॥ नकारोपधनिर्देशस्य प्रयोजनमाह । सौत्रस्येति ॥ स्तन्भु स्तुन्भु इति सूत्रनिर्दिष्टस्य नोपधस्येत्यर्थः । सहि प्रतिपदोक्तः । ष्टभि प्रतिबन्ध इत्यस्य तु धातोरिदित्वान्नुमि लाक्षणिकत्वान्न ग्रहणम् । तेन विस्तम्भत इत्यादौ न षत्वम् । उदस्थास्तम्भ्वोरिति सूत्रे तु मोपधग्रहणादुभयोरपि ग्रहणम् । मकारस्य उभयत्रापि लाक्षणिकत्वात् । ननु सदिस्तन्भ्योरप्रतेरित्येकमेव सूत्र कुतो न कृतमित्यत आह । योगविभाग उत्तरार्थ इति ॥ अवाच्चालम्बनाविदूर्ययोरित्युत्तरसूत्रे सदेरननुवृत्यर्थ इत्यर्थः । ननु सदेरस्वरितत्वादालम्बनाविदूर्ययोर्वृत्यभावादेवच अनुवृत्यभावः सिद्ध इत्यस्वारस्यादाह । किञ्चेति । नानुवर्तत इति ॥ स्तन्भेरित्यत्र अप्रतेरित्यस्य अनुवृत्तिर्नेष्टा । एकसूत्रत्वे तु अप्रतेरित्यस्य स्तन्भिनाऽपि सम्बन्धः स्यादिति भावः । अप्रतेरित्यस्य स्तन्भावनन्वयो वृद्धप्रयोगानुगत इत्याह । बाहुप्रतिष्टम्भेति । अवाच्चेति ॥ आलम्बनञ्च आविदूर्यञ्चेति