पृष्ठम्:सिद्धान्तकौमुदी (बालमनोरमा उत्तर-१).djvu/७१

विकिस्रोतः तः
एतत् पृष्ठम् परिष्कृतम् अस्ति
६०
[भ्वादि
सिध्दान्तकौमुदीसहिता


२२८१ । झलो झलि । (८-२-२६)

झलः परस्य सस्य लोपः स्याज्झलि । असैद्धाम् । असैत्सुः । असैत्सीः । असैद्धम् । असैद्ध । असैत्सम् । असैत्स्व । असैत्स्म । पक्षे असेधीत् । असेधिष्टामित्यादि । 'खादृ ४९ भक्षणे' । ॠकार इत् । खादति । चखाद । । 'खद ५० स्थैर्ये हिंसायां च' । चाद्भक्षणे । स्थैर्येऽकर्मकः । खदति ।

२२८२ । अत उपधायाः । (७-२-११६)

उपधाया अतो वृद्धिः स्यात् ञिति णिति च प्रत्यये परे । चखाद ।

२२८३ । णलुत्तमो वा । (७-१-९१)

उत्तमो णल्वा णित्स्यात् । चखाद-चखद ।

२२८४ । अतो हलादेर्लघोः । (७-२-७)

हलादेर्लघोरकारस्येडादौ परम्मैपदे परे सिचि वृद्धिर्वा स्यात् । अखादीत्-अखदीत् । 'बद ५१ स्थैर्ये' । पवर्गीयादिः । बदति । बबाद । बेदतुः । बेदिथ ।


त्वाभावादीडभावादिडभावाच्च, इट ईटीति सिचो लोपे अप्राप्ते । झलोझलीति ॥ झल इति पञ्चमी । सयोगान्तस्येत्यतो लोप इति, रात्सस्येत्यतः सस्येतिचानुवर्तते । तदाह । झलः परस्य सस्य लोपः स्यादिति । असैद्धामिति ॥ असैध् स् तामिति स्थिते सलोपे धत्वे जश्त्वे च रूपम् । पक्ष इति ॥ इट्पक्षे इत्यर्थ । असेधीदिति ॥ इट ईटीति सलोपः । नेटीति वृद्धिप्रतिषेधः । लघूपधगुणः । खादृ इति ॥ अत्र ॠदित्वन्नाग्लोपीत्याद्यर्थमित्यभिप्रेत्याह । ॠक्रार इदिति ॥ खदेति ॥ स्थैर्यम् स्थिरीभवनम् । णलि अजन्तत्वाभावादचोघणितीति वृद्धेरप्राप्तौ । अत उपधायाः इति । वृद्धिः स्यादिति ॥ मृजेर्वृद्धिरित्यतः तदनुवृत्तेरिति भावः । ञिति णिति चेति ॥ अचेञणितीत्यत. तदनुवृत्तेरिति भावः । चखादेति ॥ एत्वाभ्यासलोपौ तु नात्र भवत. । पित्वे अकित्त्वात् आदेशादित्वात् तदपेक्षया वृद्धेः परत्वान्न । णलुत्तम इति । णित् स्यादिति ॥ गोतोणिदित्यतस्तदनुवृत्तेरिति भावः । चखाद चखदेति ॥ णित्त्वे उपधावृद्धिः । तदभावे न । अतो हलादेरिति ॥ सिचि वृद्धिः परस्मैपदेष्वित्यनुवर्तते । नेटीत्यस्मादिटीति ऊर्णेतिर्विभाषेत्यतो विभाषेति च । तदाह । हलादेरिति ॥ हलाद्यङ्गावयवस्येत्यर्थः । आदिग्रहण स्पष्टार्थम् । हलः परस्येत्येव सिद्धेः । अखादीदखदीत् इति ॥ वृद्धौ तदभावे च इटईटीति सिज्लोपः । अखादिष्टामखदिष्टमित्यादि । बदेति ॥ स्थैर्यम् स्थिरीभवनम् । पवर्गीयादिरिति ॥ पवर्गतृतीयादिरित्यर्थः । नतु दंत्योष्ठ्यादिरिति भावः । बबादेति ॥ अत उपाधाया इति वृद्धिः । बेदतुरिति ॥ अभ्यासजशत्वेन आदेशादित्वेऽपि जश्त्वस्य वैरूप्यापादकत्वाभावादेत्वाभ्यासलोपाविति भावः । बबादेत्यत्र तु