पृष्ठम्:सिद्धान्तकौमुदी (बालमनोरमा उत्तर-१).djvu/६३

विकिस्रोतः तः
एतत् पृष्ठम् परिष्कृतम् अस्ति
५२
[भ्वादि
सिध्दान्तकौमुदीसहिता

२२६३ । न शसददवादिगुणानाम् । (६-४-१२६ )

शसेर्ददेर्वकारादीनां गुणशब्देन भावितस्य च योऽकारस्तस्यैत्वाभ्यासलोपौ न । दददे । दददाते । दददिरे । 'ष्वद १८ स्वर्द १९ आस्वादने' । अयमनुभवे सकर्मकः । रुचावकर्मकः ।

२२६४ । धात्वादेः षः सः । (६-१-६४)

धातोरादेः षस्य सः स्यात् । 'सात्पदाद्योः' (२१२३) इति षत्वनिषेधः । अनुस्वदते । सस्वदे । स्वर्दते । सस्वर्दे । 'उर्द २८ माने क्रीडायां च' ।

२२६५ । उपधायां च । (८-२-७८)

धातोरुपधाभूतयो रेफवकारयोर्हल्परयोः परत इको दीर्घः स्यात् । ऊर्दते ।


न शासददेति ॥ शस दद वादिगुण एषान्द्वन्द्वः । अवयवषष्ठी । गुणशब्देन विद्दित एव गुणशब्देन विवक्षित । अन्यथा शसिददिग्रहणवैयर्थ्यात् । अत एकहल्मध्य इत्यस्मात् अत इति, घ्वसोरेद्धावित्यत एदिति, अभ्यासलोप इति, चानुवर्तते । तदाह । शसेरित्यादिना ॥ गुणशब्देनेति किम् । पेचे, अत्र पचेरकारस्य गुणत्वेपि गुणशब्देन विद्दितत्वाभावान्नायन्निषेध.। पॄधातोः पपरतुरिति तु गुणस्योदाहरणम् । गुणशब्देन विहित यः अर् तदवयवत्वादकारस्येति बोध्यम् । ददद इति ॥ ददेर्लिटस्तादेशस्य एशि द्वित्वे अत एकहल्मध्य इति प्राप्तावेत्वाभ्यासलोपौ न भवतः । ष्वद स्वर्देति ॥ आस्वादनं अनुभवः । प्रीतिविषयीभावात्मिका रुचिर्वा । तदाह । अयमिति ॥ प्रत्येकाभिप्रायमेकवचनम् । धात्वादेरिति ॥ ष इति षष्ठ्यन्तम् । तदाह । धातोरादेः षस्य सस्स्यादिति ॥ षकारस्य सः स्यादित्यर्थः । धातुग्रहणङ्कि । षट् । अत्र धात्वादित्वाभावान्न सकारः । आदिग्रहण किम् । लषति ॥ न चैवमपि षकारीयतीत्यादौ सुब्धात्वादेरपि षस्य सकारः स्यादिति वाच्यम् । आदेच उपदेशेऽशितीत्यत उपदेश इत्यनुवृत्ते । एवञ्च षडित्यादावपि उपदेशग्रहणानुवृत्यैव व्यावृत्तिसिद्धेर्द्धातुग्रहण भाष्ये प्रत्याख्यातम् । ननु धातुपाठे स्वदस्वर्देत्येव सकार एव उपदिश्यताम् । एवञ्च धात्वादेष्षस्स इत्यपि मास्तु इति चेन्मैवम् । ण्यन्तात् लुङि असिष्वददित्यत्र षकारश्रवणार्थकत्वात् । धातुपाठे सकारस्यैवोपदेशे तु असिष्वददित्यत्र सकारस्य आदेशसकारत्वाभावेन षत्वासम्भवात् । नन्वेव सति अनुस्वदत इत्यत्रादेशसकारत्वात् षत्वापत्तिरित्यत आह । सात्पदाद्योरिति । सस्वद इति ॥ लिटि द्वित्वे सयुक्तहल्मध्यस्थत्वादेत्वाभ्यासलोपौ नेति भावः । उर्देति ॥ चकारादास्वादनेपीति केचित् । उपधायाञ्चेति ॥ सिपि धातोरित्यतः धातोरिति । र्वोरुपधाया इत्यतः र्वोरिक इति, हलिचेत्यतः हलीति, चानुवर्तते । उपधयोरित्यर्थे उपधायामित्यार्षम् । तदाह । धातोरित्यादि । ऊर्दत इति ॥ अत्र धातोः रेफवान्तत्वाभावात् र्वोरुपधाया इत्यस्य हलिचेत्यस्य चाप्राप्तौ उपधायाञ्चेत्यारम्भः । धातोरित्यभावे पदाधिकारस्थन्वात्