पृष्ठम्:सिद्धान्तकौमुदी (बालमनोरमा उत्तर-१).djvu/६४

विकिस्रोतः तः
एतत् पृष्ठम् परिष्कृतम् अस्ति
प्रकरणम्]
५३
बालमनोरमा ।

ऊर्दांचक्रे । 'कुर्द २१ खुर्द २२ गुर्द २३ गुद २४ क्रीडायामेव' । कूर्दते । चुकूर्दे । खूर्दते । गूर्दते । गोदते । जुगुदे । 'पूद २५ क्षरणे' । सूदते । सुषूदे ।

सेक्सृप्सृस्तृसृजस्तॄस्त्यान्ये दन्त्याजन्तसादयः ।

एकाचः षोपदेशाः ष्वक्स्विद्स्वद्स्वञ्जिस्वपस्मिङः ॥


पदस्य उपधाभूतयोरित्यर्थ. स्यात् । ततश्च क्विबन्ते ऊर्द् इत्यत्रैव स्यात् । ऊर्दत इत्यादौ न स्यात् । रेफवकारयो. किम् । पुष्यति । हल्परयो किम् । चिरिणोति । इक कि । नर्दति । ऊर्दाञ्चक्र इति ॥ इजादित्वादाम् । कृञ्चानुप्रयुज्यत इत्यनुप्रयोगः । कुर्देति ॥ गुदेत्यपि पृथग्धातु. । क्रीडायामेवेत्यर्थनिर्देश । एवकारस्तु इतोऽन्यत्र धात्वर्थनिर्देशस्य उपलक्षणत्व ज्ञापयति । कूर्दत इति ॥ उपधायाञ्चेति दीर्घः । चुकूर्द इति ॥ कुहोश्चुरिति चुत्वम् । खूर्दत इति ॥ उपधायाञ्चेति दीर्घ । एव गूर्दत इति । गोदत इति । शपि लघूपधगुण । जुगुद इति ॥ असयोगादिति कित्वान्नगुण. । षूदेति ॥ क्षरणं प्रस्रवणम् । सूदत इति ॥ प्रस्रवतीत्यर्थः । धात्वादेरिति षस्य सः । अलघूपधत्वान्न गुणः । सुषूद इति ॥ धात्वादेरिति षस्य सत्वे लिटि द्वित्वादौ इण परस्यादेशसकारत्वात् षत्वम् । यदि धातुपाठे सकारस्यैव पाठ तर्हि इहादेशसकारत्वाभावात् षत्व न स्यात् । षोपदेशे तु षस्य सत्वे सति आदेशसकारत्वात् षत्व सूपपादमिति भावः । ननु धातुपाठे के धातवष्षादयः पठिता, के वा सादय । पाणिनिकृतषोपदेशपाठस्य इदानीम्परिभ्रष्टत्वादित्याशङ्क्य पाणिनीयपरम्परासिद्धान् षोपदेशान् पठति । सेगिति श्लोकेन । दत्याजन्तसादय एकाच. षोपदेशास्स्युरित्यन्वयः । दत्यश्च अच्च दत्याचौ तौ अन्तौ अव्यवहितपरौ यस्य स. दत्याजन्तः तथाविधः षः षकार. आदिर्येषान्ते दत्याजन्तषादय । दत्यपरक. अच्परकश्च यः षकारः तदादय एकाचो धातवः इदानीं कृतसत्वास्सकारादित्वेन परिदृश्यमाना अपि षकारादित्वेन पाणिनिना उपदिष्टा प्रत्येतव्या इत्यर्थः । सादय इति पाठेप्येवमेव व्याख्येयम् । अज्दत्यपराः षादयष्षोपदेशा इति भाष्यम् । षूद क्षरणे इत्यादय अच्परकषोपदेशा. । ष्ठा गतिनिवृत्तावित्यादयस्तु दत्यपरकषोपदेशा. । दत्याजन्तेति किम् । स्कुदि आप्रवणे । चुस्कुन्दे । अत्र सकारो न दत्यपरक नाप्यच्परकः । एकाच. किम् । सोसूत्र्यते । सूत्र वेष्टने, चुरादिरजन्त अनेकाच् । यद्यप्येकाच इति भाष्ये न दृश्यते । तथापि यड्विधौ सोसूच्यत इति भाष्यन्तत्र मानामिति भाव । एवञ्च साध संसिद्धौ, इत्यादौ सकारपाठस्यैव दृश्यमानत्वेऽपि षोपदेशत्वमेव । ननु सेकृ गतौ, सृप्लृ गतौ, सृ गतौ, सृज विसर्गे, एते चत्वार अच्परकसादय, स्तृञ् आछादने, ॠदन्तः श्नुविकरणः । स्तॄञ् आछादने ॠदन्त. श्नाविकरणः, स्त्यै शब्दसङ्घातयोः, एते त्रय. दत्यपरकसादयः । एतेषां सप्तानामपि षोपदेशत्व स्यादित्यतिव्याप्तिमाशङ्क्य तद्भिन्नत्व विशेषणमाह । सेक् सृप् सृ स्तृ सृज स्तॄ स्त्या न्ये इति ॥ स्त्यै धातोः कृतात्वस्य निर्देश. श्लोके समावेशार्थः । स्त्यै इत्यैकारान्तस्य निर्देशे स्त्यायन्य इत्येकस्याक्षरस्याधिक्यापत्तेः । नन्वेवमपि ष्वक्क गतौ, ञिष्विदा गात्रप्रस्रवणे, ष्वद आस्वादने, ष्वञ्ज परिष्वङ्गे, ञिष्वप् शये, ष्मिड् ईषद्धसने, इत्येतेषु सकारस्य दत्यपरकत्वाभावात् अच्परकत्वाभावाच्च षोपदेशेष्वसङ्ग्रहः स्यादित्यव्याप्तिमाशङ्क्य तानपि सगृण्हाति । ष्वक्क् स्विद् स्वद् स्वाञ्जि स्वपि