पृष्ठम्:सिद्धान्तकौमुदी (बालमनोरमा उत्तर-१).djvu/५६

विकिस्रोतः तः
एतत् पृष्ठम् परिष्कृतम् अस्ति
प्रकरणम्]
४५
बालमनोरमा ।


ऐधिढ्वम् । इड्भिन्न एव इणिह गृह्यत इति मते तु ऐधिध्वम् ढधयोर्वस्य मस्य च द्वित्वविकल्पात्षोडश रूपाणि । ऐधिषि । ऐधिष्वहि । ऐधिष्महि । ऐधिष्यत। ऐधिष्येताम् । ऐधिष्यन्त । ऐधिष्यथा: । ऐधिष्येथाम् । ऐधिष्यध्वम् । ऐधिष्ये । ऐधिष्यावहि । ऐधिष्यामहि । उदात्तत्वाद्वलादेरिट् । प्रसङ्गादनुदात्ताः संगृह्यन्ते ।

ऊद्दृदन्तैर्यौतिरुक्ष्णुशीस्नुनुक्षुश्विडीङ्श्रिभिः । वृङ्वृञ्भ्यां च विनैकाचोऽजन्तेषु निहताः स्मृताः ।।



इङ्ग्रहणात् पूर्वसूत्रे इणःषीघ्वमित्यत्र इड्भिन्न एव इण् गृह्यत इति केचिदाहुः । तन्मतेतु प्रकृते इटः परत्वातू धकारस्य ढत्वाभावे ऐधिध्वमित्येव रूपामिलयर्थः । इदन्तु मतान्तर भाष्यानारूढमिति सूचयितु तुशब्दः । ढधयोरिति ॥ मतभेदमाश्रित्येद । तत्र ढत्वाभावपक्षे धकारस्य अनचिचेति द्वित्वविकल्पात् द्विधमेकधमिति रूपद्वयम् । एव ढत्वे द्विढ एकढ इति रूपद्वयम् । रूपचतुष्टयेऽपि यणो मयो द्वे वाच्ये इत्यत्र मय इति पञ्चमीमाश्रित्य वकारस्य द्वित्वविकल्पादेकवकाराणि द्विवकाराणि च प्रागुक्तानि चत्वारि रूपाणि भवन्ति । तथाच अष्टौ रूपाणि सम्पन्नानि । मकारस्य द्वित्वविकल्पादेतान्यष्टौ रूपाणि एकमकाराणि द्विमकाराणि चेति षोडश रूपाणि सम्पन्नानीत्यर्थः । ऐधिषीति ॥ लुड: इडादेशः च्लिः सिच् इडागमः आट् वृद्धि । वहिमह्योस्तु च्लेस्सिचि इडागमे आटि वृद्धौ ऐधिष्वहि ऐधिष्महीति रूपे । इति लुड्प्रक्रिया ॥ ऐधिष्यतेति ॥ लृडः तादेशः स्य इट् आट् वृद्धि षत्वम् । ऐधिष्येतामिति ॥ आता स्यः इट् आकारस्य इय् आद्गुणः यलोपः आट् वृद्धिः षत्वम् । ऐधिष्यन्तेति ॥ झावयवझकारस्यान्तादेशः स्य इट् आट् वृद्धिः षत्वम् । ऐधिष्यथा इति ॥ थास् स्यः इट् आट् वृद्धिः रुत्वविसर्गौ । ऐधिष्येथामिति ॥ आथाम् स्यः इट् आकारस्य इय् आद्रुणः यलोपः आट् वृद्धिः षत्वम् । ऐधिष्यध्वमिति ॥ ध्वम् स्यः इट् आट् वृद्धिः षत्वम् । ऐधिष्य इति ॥ इडादेशः स्य इडागमः षत्वम् आद्गुणः वहिमह्योस्तु स्यः इट् अतो दीर्घः आट् वृद्धिः षत्वम् ऐधिष्यावहि ऐधिष्यामहि इति रूपे । नन्वेधधातोरनुदात्तेत्कत्वात् एकाच उपदेशेऽनुदात्तादितीण्णिषेधः कुतो न स्यादित्यत आह । उदात्तत्वादिति ॥ एधधातुर्यद्यपि अनुदात्तेत् । तथापि अनुदात्तस्येतः लोपे सति परिशिष्टो धातुर्नानुदात्त इति भाव । ननु कतिपये धातवः पाणिनिना अनुदात्ता उच्चरिता इति कथमिदानीन्तनैरवगन्तव्यमित्यत आह । प्रसंगादिति ॥ स्मृतस्योपेक्षानर्हत्वम्प्रसङ्गः । पाणिनिपठितानामनुदात्तधातूनान्तदानीन्तनशिष्यपरम्परया आनुनासिक्यवदिदानी ज्ञान सम्भवतीति भावः । ऊदृXदन्तैरिति ॥ अजन्तेषु धातुषु ऊदन्तैः ऋदन्तैश्च धातुभि विना यु रु क्षणु शीङ् स्नु नु क्षु श्वि डीड् श्रि