पृष्ठम्:सिद्धान्तकौमुदी (बालमनोरमा उत्तर-१).djvu/५७

विकिस्रोतः तः
एतत् पृष्ठम् परिष्कृतम् अस्ति
४६
[भ्वादि
सिध्दान्तकौमुदीसहिता

शक्लृपच्मुचिरिच्वच्विच्सिच्प्रच्छित्यज्निजिर्भजः ।

भञ्ज्भुज्भ्रस्ज्मस्जियज्युज्रुज्रञ्ज्विजिर्स्वञ्जिसञ्ज्सृजः ॥

अद्क्षुद्खिद्छिद्तुदिनुदः पद्यभिद्विद्यतिर्विनद् ।

शद्सदी स्विद्यति स्कन्दिहदी क्रुध् क्षुधिबुध्यती ॥

बन्धिर्युधिरुधी राधिव्यध्शुधः साधिसिध्यती ।

मन्यहन्नाप्क्षिप् छुपितप्तिपस्तृप्यतिदृप्यती ॥

लिप्लुप्वप्शप्स्वप्सृपियभ्रभ्लभ्गम्नम्यमो रमिः ।



एतैश्च धातुभिर्विना बृङ् बृञ् आभ्याञ्च विना अन्य एकाच - अजन्तधातव निहताः अनुदात्ता स्मृता: । पाणिनिशिष्यपरम्परया ज्ञाता इत्यर्थ । अथ हलन्तेषु अनुदात्तात् धातून् परिगणयति । शक्लृ पच् मुचीति ॥ शक्लृ पच् मुच् रिच् वच् विच् सिच् प्रच्छ् त्यज् निजिर् भज् एषां द्वन्द्वः । तत्र कान्तेषु शक्लृ इत्येकः । लृकार इत् । भाष्ये तु अनुबन्धरहितः पाठो दृश्यते । चान्तेषु पच् मुच् रिच् वच् विच् सिच् इति पट । अत्र उपचप् इत्यस्यैव ग्रहण प्रसिद्धत्वात् । न तु पचि व्यक्तीकरणे इत्यस्येत्याहुः । मुचल मोक्षणे इत्यस्यैव ग्रहण न तु मुचि कल्कन इति भौवादिकस्य । अविशेषात्सर्वस्येत्यन्ये । छान्तेषु प्रच्छ एक: । प्रच्छेत्यकार उच्चारणार्थः । णिजिरित्यत्र इर इत्संज्ञा वक्ष्यते । भञ्ज भुजित्यादि सृज इत्यन्तमेकपदम् । जान्तेषु त्यज् निज् भज् भञ्ज् भुज् भ्रस्ज् मस्ज् यज् युज् रुज् रञ्ज् विज् स्वञ्ज् सञ्ज् सृज् इति पञ्चदश । अद क्षुदित्यादि नुद इत्यन्तमेकम्पदम् । तत्र तुदेरिकार उच्चारणार्थः । पद्यभिदित्येकम्पदम् । समाहारद्वन्द्वः । पद्येति श्यनानिर्देशः । विद्यतिरिति श्यनानिर्देशः । विनदिनि श्नमानिर्देशः । शदसदीत्यादि बुध्यतीत्यन्तमेकम्पद । समाहारद्वन्द्वः । सदिस्कन्दिहदिक्षुधि इति इका निर्देशः । स्विद्यति बुध्यतीति श्तिपा श्यन्विकरणयोर्निर्देशः । ततश्च दान्तेषु अद् क्षुद् खिद् छिद् तुद् नुद् (पद् श्यन्विकरण:) (विद् श्यन्विकरण:) (विनद् श्यन्विकरण) शद् सद् (स्विद् श्यन्विकरणः) स्कन्द् हद् इति पञ्चदश । बन्धिरिति इका निर्देश. । युधिरुधी इत्येकम्पदम्, इका निर्देशः । राधि व्यध् शुध् इत्येक पदम् । राधीति इका निर्देशः । साधिसिध्यती इति द्वन्द्वः । साधीति इका निर्देशः । ततश्च धान्तेषु क्रुध् क्षुध् बुध् श्यन्विकरणः बन्ध् युध् रुध् राध् व्यध् शुध् साध् सिध् श्यन्विकरणः इत्येकादश । मन्येत्यादि तिप इत्यन्तमेकम्पदम् । मन्येति श्यना निर्देशः । छपीति इका निर्देशः । तृप्यतिदृप्यती इति द्वन्द्वः श्यना निर्देशः । लिबित्यादि यम इत्यन्तमेकम्पदम् । सृपीति इका निदेशः । रमिरिति भिन्नम्पदम् । इका निर्देशः । तथा च नान्तेषु मन् हन्निति द्वौ । मनिः श्यन्विकरण । पान्तेषु आप् क्षिप् छुप् तप् तिप् तृप् दृप् लिप् लुप् वप् शप् स्वप् सृप् इति त्रयोदश । भान्तेषु यभ् रभ् लभ् इति त्रयः । मान्तेषु गम् नम् यम् रम् इति चत्वारः ।