पृष्ठम्:सिद्धान्तकौमुदी (बालमनोरमा उत्तर-१).djvu/५५

विकिस्रोतः तः
एतत् पृष्ठम् परिष्कृतम् अस्ति
४४
[भ्वादि
सिध्दान्तकौमुदीसहिता


धातुकत्वाल्लिङः सलोपो न । सीयुट्सुटोः प्रत्ययावयवत्वात्पत्वम् । एधिषीष्ट । एधिपीयास्ताम् । एधिषीरन् । एधिषीष्ठाः । एधिषीयास्थाम् । एधिषीध्वम् । एधिषीय । एधिषीवहि । एधिषीमहि। ऐधिष्ट । ऐधिषाताम् ।

२२५८ । आत्मनेपदेष्वनतः । (७-१-५)

अनकारात्परस्यात्मनेपदेषु झस्य ‘अन्’ इत्यादेशः स्यात् । ऐधिषत । ऐधिष्ठा: । ऐधिषाथाम् । ‘इण:षीध्वं लुङ्लिटां धोऽङ्गात्’ (२२४७) ।



आद्रुणः यलोपः। इति विधिलिङ्प्रक्रिया ॥ आर्धधातुकत्वादिति ॥ लिडाशिषीत्यनेनेति भावः । सलोपो नेति ॥ सार्वधातुकग्रहणस्य लिडस्मलोपः इत्यत्रानुत्तेरिति भावः । सीयुट् सुटेरिति ॥ लक्ष्यभेदान्पुनःप्रवृत्तिरिति भावः । युगपदेवोभयोः पन्वमित्यन्ये । एधिषीष्टेति ॥ आशिषि लिडः तादेशः । आर्धधाधुकत्वात् न शप् सीयुट् तकारस्य सुट् सीयुटस्सकारात् प्रागिडागमः यलोपः सीयुटस्सुटश्च सकारस्य षत्व तकारस्य ष्टुत्वेन टकारः । एधिषीयास्तामिति ॥ आताम् सीयुट् आकारादुपरि तकारात्प्राक सुट् । सीयुट् प्रागिट । तत उत्तरस्य सकारस्य षत्वम् । एधिषीरन्निति ॥ झस्य रन । सीयुट् इडागमः यकारलोपः षत्वम् । एधिषीष्टा इतेि ॥ थास् सीयुट् थकारस्य सुट् सीयुट् प्रागिट सकारद्वयस्य षत्वम् । थकारस्य ष्टुत्वेन ठकारः । रुत्वविसर्गौ । एधिषीयास्थामिति ॥ आथाम् सीयुट् । आकारादुपरि थकारात् प्राक् सुट् सीयुटः प्रागिट् । तत उत्तरस्य सकारस्य षत्वम् । 'एधिषीध्वमिति ॥ ध्वम् सीयुट् यलोपः सीयुटः प्रागिट् षत्वम्। इणः परत्वेऽपि इण्णन्तादन्नात्परत्वन्नास्ति । इटः प्रत्ययभक्तत्वात् । ततश्च इणः षीध्वमिति ढत्व न भवति । एधिषीयेति ॥ इटः अत् सीयुट् इट् षत्वम् । एधिषीवहि । एधिषीयीमहीति ॥ वहिमह्योस्सीयुट इटX षत्वम् । इत्याशीर्लिङ्प्रक्रिया ॥ ऐधिष्टेति ॥ लुङस्तादेशः ग्लिः सिच् इद धातोराट् वृद्धिः षत्वम् ष्टुत्वम् । ऐधिषातामिति ॥ आताम् च्लिः सिच इट् आट् वृद्धिः षत्वम्। अथ झस्य आदेर्झकारस्य झोन्त इत्यन्नादेशे प्राप्ते । आत्मने पद इति ॥ झोऽन्त इत्यतः झ इति षष्ठ्यन्तमनुवर्तते । आत्मनेपदेष्विति षष्ठ्यर्थे सप्तमी । आत्मनेपदावयवस्य झकारस्येति लभ्यते । अदभ्यस्तादित्यतः आदित्यनुवर्तते । न अत् अनत् । तस्मादिति विग्रहः । तदाह । अनकारादित्यादिना । ऐधिषतेति ॥ झावयवझकारस्य अत् इत्यादेशः च्लिः सिच इट आट् वृद्धिः षत्वम् । ऐधिष्ठा इति ॥ थास् च्लिः सिच् इट् आट् वृद्धिः षत्वं थकारस्य ष्टुत्वेन ठकारः रुत्वविसर्गौ । ऐधिषाथामिति ॥ आथाम् च्लिः सिच् इट् आट् वृद्धिः षत्वम् । अथ ध्वमो धस्य ढत्वम् स्मारयति । इणःषीध्वमिति । ऐधिढ्वमिति ॥ ध्वम् च्लिः सिच् इट्, आट् वृद्धिः धिचेति सस्य लोपः । इणःषीध्वमिति धकारस्य ढत्वम् । इटः लुप्तसिज्भक्ततया सिजन्ताङ्गान्तर्भूतत्वेन इडन्तस्य इण्णन्ताङ्गत्वादिति भावः । इडाभिन्न एवेति ॥ उत्तरसूत्रे विभाषेट इत्यत्र