पृष्ठम्:सिद्धान्तकौमुदी (बालमनोरमा उत्तर-१).djvu/५४

विकिस्रोतः तः
एतत् पृष्ठम् परिष्कृतम् अस्ति
प्रकरणम्]
४३
बालमनोरमा ।

ऐधेताम् । ऐधन्त । ऐधथा: । ऐधेथाम् । ऐधध्वम् । ऐधे । ऐधावहि । ऐधामहि ।

२२५५ । लिङः सीयुट् । (३-४-१०२)

लिङात्मनेपदस्य सीयुडागमः स्यात् । सलोपः एधेत । एधेयाताम्

२२५६ । झस्य रन् । (३-४-१०५)

लिडो झस्य रन्स्यात् । एधेरन् । एधेथाः । एधेयाथाम् । एधेध्वम् ।

२२५७ । इटोऽत् । (३-४-१०६)

लिङादेशस्येटोऽत्स्यात् एधेय । एधेवहि । एधेमहि । आशीर्लिङि आर्ध



पररूप स्यादिति भाव । आटश्चेत्यनन्तर वृद्धिरिति शेषः । यद्यपि वृद्धिरेचीति एत्येधतीति वा वृद्धौ इद सिध्यति । तथापि ऐक्षतेल्याद्यर्थम् सूत्रमिहापि न्याय्यत्वादुपन्यस्तम् । ऐधतेति ॥ लडस्तादेशे शपि आडागमे आटश्रेति वृद्धिः । लडादेशाना टिदादेशत्वाभावात् एत्वम् न भवति । आडजादीनामिति सूत्र भाष्ये प्रत्याख्यातम् । ऐधेतामिति ॥ आतामि शपि आटि वृद्धिः । आतोडित इत्याकारस्य इय् । आद्गुणः यलोपः । ऐधन्तेति ॥ झेरन्तादेशः शप् आट् वृद्धिः । ऐधथा इति ॥ थास् शप् आट् वृद्धिः । ऐधेथामिति ॥ आथाम् शप् आट् वृद्धिः इय् आद्गुणः यलोपः । ऐधध्वमिति ॥ ध्वम् शप् आट् वृद्धिः । ऐधे इति ॥ इट् शप् आद्गुणः आटो वृद्धिः । ऐधावहि । ऐधामहि इति ॥ वहिमह्योश्शप् आट् वृद्धिः अतो दीर्घ ॥ इति लङ्प्रक्रिया ॥ लिङस्सीयुडिति ॥ स्पष्टम् । परस्मैपदानां लिडादेशानां यासुडागमविधानादात्मनेपदविषयमिदम् । सीयुटि टकार इत् । उकार उच्चारणार्थः । सलोप इति ॥ लिडस्सलोप इत्यनेनेति शेष । एधेतेति ॥ लिडस्तादेशः सीयुट् शप् सलोप आद्गुणः यलोपः । एधेयातामिति ॥ आतामि सीयुट् शप् सलोपः आद्गुण । झस्य रान्निति ॥ लिडस्सीयुडित्यतो लिड इत्यनुवर्तते । तदाह । लिङो झस्येति ॥ लिडादेशस्य झस्येत्यर्थः । अनेकाल्त्वात्सर्वादेशः । एधेरन्निति ॥ झस्य रन् शप् सीयुट् सलोपः आद्गुणः यलोपः । एधेथा इति ॥ थास् सीयुट् शप् सीयुटस्सस्य लोप आद्गुणः यलोपःथासस्सस्यरुत्वविसर्गौ। एधेयाथामिति ॥ आथाम् सीयुट् सलोपः शप् आद्गुण: । एधेध्वमिति ॥ ध्व सीयुट् शप् सलोपः आद्गुणः यलोपः । इटोऽदिति ॥ इट: अत् इति च्छेदः। लिडस्सीयुडिल्यतो लिड इत्यनुवर्तते । तदाह। लिङादेशस्येति ॥ अच्च घेरित्यत्रेव आदेशे तकार उच्चारणार्थ एव नत्वित्सज्ञक इति शब्देन्दुशेखरे दिव औदित्यत्र प्रपश्चितम् । इत्सज्ञक एवेत्यन्ये । न विभक्ताविति निषेधस्तु न । अदेषत्वात् प्राक् विभक्तित्वाभावात् । झस्य रात्रित्यत्र तु लक्ष्यानुरोधेन संयोगान्तलोपमाश्रित्य नकारान्तरप्रश्लेषादुपदेशे अन्त्यत्वाभावान्नकारस्य नेत्सज्ञेल्यलम् । एधेयेति ॥ इट् तस्य अकारादेशः । सीयुट् शप् सलोपः आद्रणः । एधेवहि। एधेमहीति ॥ वहिमह्योस्सीयुट् सलोपः शप