पृष्ठम्:सिद्धान्तकौमुदी (बालमनोरमा उत्तर-१).djvu/५३

विकिस्रोतः तः
एतत् पृष्ठम् परिष्कृतम् अस्ति
४२
[भ्वादि
सिध्दान्तकौमुदीसहिता

२२५१ । आमेतः । (३-४-९०)

लोट एकारस्याम्स्यात् । एधताम् । एधेताम् । एधन्ताम् ।

२२५२ । सवाभ्यां वामौ । (३-४-९१

सवाभ्यां परस्य लोडेतः क्रमात् : ‘व’ ‘अम’ एतौ स्तः । एधस्व । एधेथाम् । एधध्वम् ।

२२५३ । एत ऐ । (३-४-९३)

लोडुत्तमस्य एत ऐ स्यात् । आमोऽपवादः । एधैः । एधावहै । एधामहै ।

२२५४ । आडजादीनाम् । (६-४-७२)

अजादीनामाट् स्याल्लुङादिषु । अटोऽपवादः । ‘आटश्च’ (२६९) । ऐधत ।



दीर्घः एधिष्यावहे एधिष्यामहे इति रूपे । इति लृट्प्रक्रिया ॥ आमेत इति ॥ आम् एतः इति च्छेदः । लोटो लड्वदित्यतो लोट इत्यनुवर्तते । तदाह । लोट एकागस्येति ॥ लोडादेशावयवस्य एकारस्येत्यर्थ । एधतामिति ॥ लोटस्तादेशे टेः एत्वे आमादेशे शपि रूपम् । एधतामिति ॥ आताम् टेरेत्व शप् सार्वधातुकमपिदिति डित्वादातोडित इत्याकारस्य इय गुणः यकारलोपः आमेत इत्येकारस्य आम् । एघन्तामिति ॥ झस्य टेरेत्वे शपि झकारस्य अन्तादेशे एकारस्य आम्। अथ लोटस्थासस्मेभावे शपि एधसे इति स्थिते । सवाभ्यामिति ॥ सश्च वश्च सवौ । ताभ्यामिति विग्रहः । अकारावुच्चारणार्थौ । वश्च अमच वामौ लोटो लड्वदित्यस्मात् लोट इति आमेत इत्यस्मादेत इति चानुवर्तते । तदाह । सकारेति ॥ आमेत इत्यस्यापवादः । एधस्वति ॥ एधसे इत्यत्र एकारस्य व इति वक्राराकारसXघात आदेशः । एधेथामिति ॥ आथाम् टेरेत्व शप् आतो डित इत्याकारस्य इय् गुणः यलोपः आमेत इत्याम् । एधध्वमिति ॥ ध्वमि शप् टेरेत्वे कृते सवाभ्यामिति वकारात् परत्वादेकारस्य अम् । उत्तमपुरुषैकवचने इटि टेरेत्वे शपि आमेत इत्येकारस्य आमि प्राप्ते । एत ऐ इति ॥ ऐ इति लुप्तप्रथमाकम् । लोटो लड्वदित्यस्माल्लोट इति आहुत्तमस्य पिबेत्यस्मादुत्तमस्येति आमेत इत्यस्मादेत इति चानुवर्तते । तदाह । लोडुत्तमस्येति । एधै इति ॥ एध ए इति स्थिते एकारस्य ऐत्वे आडुत्तमस्येत्याडागमे आटश्चेति वृद्धौ वृद्धिरेचीति वृद्धिः । एधावहै । एधामहै इति ॥ वहिमह्योष्टेरेत्वे शपि एकारस्य ऐत्वे आटि सवर्णदीर्घः ॥ इति लोटप्रक्रिया ॥ अथ एधधातोर्लडि लुङ्लङ्लृङ्क्षडुदान इत्यदागमे वृद्धिम्बाधित्वा परत्वादतोगुण इति पररूपे प्राप्ते । आडजादीनामिति । लुङादिष्विति ॥ लुङ्लङ्लूङ्क्ष्वित्यनुवृत्तेरिति भावः । अटोऽपवाद इति ॥ अटि सति