पृष्ठम्:सिद्धान्तकौमुदी (बालमनोरमा उत्तर-१).djvu/५१

विकिस्रोतः तः
एतत् पृष्ठम् परिष्कृतम् अस्ति
४०
[भ्वादि
सिध्दान्तकौमुदीसहिता

२२४७ । इणः षीध्वंलुङ्लिटां धोऽङ्गात् । (८-३-७८)

इण्णन्तादङ्गात्परेषां षीध्वंलुङ्लिटां धस्य मूर्धन्यः स्यात् । एधाञ्चकृढ्वेX । एधांचक्रे । एधाञ्चकृवहे । एधाञ्चकृमहे । एधाम्बभूव । अनुप्रयोगसामर्थ्यादस्तेर्भूभावो न । अन्यथा हि ‘ क्रस्चानुप्रयुज्यते’ इति ‘कृभु-’ इति वा ब्रXयात् ।

२२४८ । अत आदेः । ( ७-४-७०

अभ्यासस्यादेXरतो दीर्घः स्यात् । पररूपापवादः। एधामास । एधामासतुरित्यादि । एधिता । एधितारौ । एधितारः । एधितासे। एधितासाथे ।



शोपदेश इति ॥ अवधीदित्यत्रातोहलादेर्लघोरिति वृद्धिनिवृत्तये ह्वXनो वधादेशस्य अदन्ततया भाष्ये उक्तत्वादिति भावः । ननु के ते अनुदात्ता धातव इत्यत आह । अनुदात्तास्त्वनुपदमेवेति ॥ पदस्य पश्चादनुपदम् पदमात्रे अतीते सतीत्यर्थः । अनन्तरमेवेति यावत्। एधाञ्चकृषे इति ॥ इडभावे प्रत्ययावयवत्वान् पत्वम् । एधाञ्चक्राथ इति ॥ लिटः आथामादेशः । टेरेत्वम् । द्वित्वादि पूर्ववत् । लिटो ध्वमष्टरेत्वे द्वित्वादौ एधाञ्चकृध्वे इति स्थिते । इणः षीध्वमिति ॥ षीध्व लुड् लिट एषा द्वन्द्व ध इति षष्ट्येकवचनम् । इण इत्यङ्गविशेषणम् । तदन्तविधिः । अपदान्तस्य मूर्धन्य इत्याधिकृतम् । तदाह । इण्णन्तादित्यादिना ॥ धकारस्य ढकारो मूर्धन्यः । घोषसवारनादमहाप्राणप्रयत्नसाम्यात् । तदाह । एधाञ्चकृढ्व इति ॥ उत्तमपुरुषैकवचने इटि एत्वे पूर्ववत् द्वित्वादौ कृते रूपमाह । एधाञ्चक्र इति । एधाञ्चकृवह इति ॥ लिटो वहिभावे एत्वे द्विन्वादि पूर्ववत् । एवं लिटो महिभावे द्वित्वादि पूर्ववत् । सर्वत्रासयोगाल्लिटकिदिति कित्वाद्गुणाभावः। अथ भूधातोः लिडन्तस्यानुप्रयोगे उदाहरति । एधाम्बभूवेति ॥ एधाञ्चक्र इत्यनेन समानार्थकम्। अनुप्रयुज्यमानस्य भूधातोः क्रियासामान्यार्थकत्वात् नन्वस्तेरनुप्रयोगे लिडादेशस्यार्धधातुकत्वात् अस्तेर्भूरित्यार्धधातुके विहितो भूभावः कुतो न स्यादित्यत आह । अनुप्रयोगेति ॥ कृञ्चानुप्रयुज्यत इत्यत्र प्रत्याहारमाश्रित्य कृभ्वस्तीनामनुप्रयोगविधिसामर्थ्यादसधातोर्भूभावो नेत्यर्थः । तदेवोपपादयति । अन्यथेति ॥ अनुप्रयुज्यमानस्यास्तेर्भूभावाभ्युपगमे कृञ्चानुप्रयुज्यत इत्यनुप्रयोगविधौ क्रसूचानुप्रयुज्यत इति वा कृभुचानुप्रयुज्यत इतिवा ब्रूयात् । तावता एधाम्बभूवेति सिद्धेरित्यर्थः । यद्यपि कृञ्जित्युक्तौ लाघवमस्ति । तथापि एकस्यैव भवतेरधिकस्य लाभाय कृञिति प्रत्याहारक्लेशो न कर्तव्य इति भावः । अत एवात उत्सार्वधातुक इति सूत्रभाष्येऽनुप्रयोगे भूभावेन अस्तेरबाधनमिति भाष्य सङ्गच्छते । ततश्च अनुप्रयुज्यमानादस्धातोर्लिटि भूभावनिवृत्तौ णलि एधा अम् अ इति स्थिते द्वित्वे हलादिशेषे अ अस् इति स्थिते सवर्णदीर्घम्बाधित्वा अतो गुण इति पररूपे प्राप्ते । अत आदेरिति ॥ अत्रलोप इत्यस्मादभ्यासस्येत्यनुवर्तते । व्यथो लिटल्यतो दीर्घ इति । तदाह । अभ्यासस्येति ॥ अत्र यद्वक्तव्यन्तन्नामधातुप्रक्रियायां अ इवाचरति अतीत्यादि ग्रन्थस्य व्याख्या-