पृष्ठम्:सिद्धान्तकौमुदी (बालमनोरमा उत्तर-१).djvu/५०

विकिस्रोतः तः
एतत् पृष्ठम् परिष्कृतम् अस्ति
प्रकरणम्]
३९
बालमनोरमा ।

‘उपदेशे’ इत्युभयान्वयि । ‘एकाचः’ इति किम् । यङ्लुग्व्यावृत्तिर्यथा स्यात् । स्मरन्ति हि।

श्तिपा शपाऽनुबन्धेन निर्दिष्टं यद्गणेन च ।

यत्रैकाज्ग्रहणं चैव पञ्चैतानि न यङ्लुकि ।। इति ।

एतच्चेहैवैकाज्ग्रहणेन ज्ञाप्यते । ‘अचः’ इत्येवैकत्वविवक्षया तद्वतो ग्रहणे सिद्धे एकग्रहणसामर्थ्यादनेकाच्कोपदेशो व्यावर्त्यते । तेन वधेर्हन्त्युपदेशे एकाचोऽपि न निषेधः । आदेशोपदेशेऽनेकाच्कत्वात् । अनुदात्ताश्चानुपदमेव संग्रहीष्यन्ते । एधांचकृषे । एधांचक्राथे ।



दात्तादित्यनेनान्वेति । तदा यद्यपि नाय दोषः । कृते तुमुन्प्रत्यये उदात्तत्वेऽपि धातूपदेशकाले अनुदात्तत्वेन तत्र इण्णिषेधस्य निर्बाधत्वात् । तथाच एधाञ्चकृषे इत्यादौ इणिषेधो न स्यात् । द्वित्वे कृते अनकाच्त्वादित्यत आह । उपदेश इत्युभयान्वयीति ॥ उपदेश इत्येतत् एकाजित्यत्रानुदात्तादित्यत्र चान्वेति । मध्यमणिन्यायादिति भावः । ननु ऊXदन्तैरित्यादिना परिगणितानामनुदात्तेपेदशधातूनामेकाच्त्वाव्यभिचारादेकाज्ग्रहण मास्तु । उपदेशेऽनुदात्तादित्येवास्तु । एतावतैव कर्तु चकृष इत्यादाविण्निषेधसिद्धेरिति पृच्छति । एकाचः किमिति । यङ्लुग्व्यावृत्तिरिति ॥ यड्लुकि चर्करितेत्यादौ इण्णिषेणषेधव्यावृत्तये एकाज्ग्रहणमित्यर्थः । ननु कृतेप्येकाज्ग्रहणे कथ यड्लुग्व्यावृतिः । कृते द्वित्वे अनेनकाच्त्वेपि धातूपदेशे एकाच्त्वादित्यत आह । स्मरन्ति हीति ॥ प्राचीनाचार्या निबध्नन्तीत्यर्थः । श्तिपा शपेल्यादेरुदाहरणानि यड्लुड्निरूपणे स्पष्टीभविष्यन्ति । नन्विह एकाज्ग्रहणाद्यङ्लुकि इण्णिषेधस्य व्यावृत्तावपि श्तिबादिनिर्दिष्टानां यड्लुग्व्यावृतिः प्राचीनाचार्यसम्मताऽपि पाणिनेरसम्मतैवेत्यत आह । एतच्चेति ॥ एतत् श्तिपा शपेति श्लोकसिद्धं सर्वमपि, इह सूत्रे एकाज्ग्रहणेनैव एकदेशानुमत्या ज्ञाप्यत इत्यर्थः । ननु हनोवधलुडीति हनधातोर्वधादेशे कृते अवधीदित्यत्र इडागमो न स्यात् । वधादेशे कृते अनेकाचत्वेऽपि धातूपदेशे हन्तेरेकाच्त्वादित्यत आह । अच इत्येकत्वेत्यादि व्यावर्त्यत इत्यन्तम् ॥ एकाच उपदेशेऽनुदात्तादित्यत्र हि एकग्रहणमपनीयाचइत्युक्तेऽपि एकाच्कादिति लभ्यते । एकवचनोपात्तस्यैकत्वस्य त्यागे प्रमाणाभावात् । न चैव सति एकत्वविशिष्टादवः परस्येत्येव लभ्येत । नत्वेकाच्कादिति बहुव्रीह्यर्थ इति वाच्यम्। अनुदात्तोपदेशपरिगणने शक्लृ पाचि मुच्यादीनां परिगणनसामर्थ्येन अच इत्यस्य मत्वर्थलक्षणामाश्रित्य एकाज्वतो ग्रहणसभवात् । तदेवमच इत्यनेनैव एकाचकादिति सिद्धे यदेकग्रहणं करोति तत्सामर्थ्यादुपदेशे सर्वत्र एकाजेव न तु कास्मिंश्चिदप्युपदेशे अनेकाजित्यर्थकल्पनया कदाचिदनेकाच्कोपदेशधातुर्व्यावर्तत इत्यर्थः । तेनेति ॥ उपदेशे सर्वत्र एकाजेवेत्यर्थलाभेन हन्युपदेशे हानित्यनुदात्तोपदेशे एकाचोऽपि सतो हनिति धातोरादेशस्य वधेः परस्य इण् निषेधो नेत्यर्थः । कुत इत्यत आह । आदे-