पृष्ठम्:सिद्धान्तकौमुदी (बालमनोरमा उत्तर-१).djvu/४९

विकिस्रोतः तः
एतत् पृष्ठम् परिष्कृतम् अस्ति
३८
[भ्वादि
सिध्दान्तकौमुदीसहिता


२२४६ । एकाच उपदेशेऽनुदात्तात् । (७-२-१०)

उपदेशे यो धातुरेकाजनुदात्तश्च ततः परस्य वलादेरार्धधातुकस्येड् न स्यात् ।



र्गीयाणा हकारस्य च षट्त्वात् चवर्गीयाणा पञ्चत्वान्न यथासख्यम्, नापि स्थानत् आन्तर्यम्, कण्ठतालुस्थानभेदात् । आभ्यन्तरप्रयत्नसाम्य तु कवर्गचवर्गयोगविशिष्टम् । हकारचवर्गयोस्तु नास्त्येव तन् । अतो बाह्यप्रयत्नत एवान्तर्यमिह व्यवस्थापकमाश्रयणीयम् । तत्र प्रथमस्य कवगायस्य प्रथम एव चवर्गीयो भवति । अघोषश्वासविवारात्पप्राणप्रयत्नसाम्यात्। नतु द्वितीय:। महाप्राणत्वात्। नापि तृतीयपञ्चमौ । घोषसवारनादप्रयत्नत्वात् । नापि चतुर्थः । घोषमवारनादमहाप्राणप्रयत्नत्वात् । तथा द्वितीयस्य कवर्गीयस्य द्वितीय एव चवर्गीयो भवति । अघोषश्वासविवारमहाप्राणप्रयत्नत्वात् । नतु प्रथमः । अल्पप्राणत्वात् । नापि तृतीयपञ्चमौ । घोषसंवारनादाल्पप्राणप्रयत्नत्वात् । नापि चतुर्थः । अघोषमंवारनादप्रयत्नत्वाटत् । तथा तृतीयस्य कवर्गस्य तृतीय एव चवर्गीयो भवति । घोषसवारनादाल्पप्राणप्रयत्नत्वात् । न तु प्रथमः । अघोषश्वासविवारप्रयत्नत्वात् । अत एव न द्वितीयोऽपि । महाप्राणप्रयत्नत्वाच्चX । नापि चतुर्थः । महाप्राणत्वात् । नापि पञ्चमः । घोषसवारनादाल्पप्राणसास्येऽपि अनुनासिकतया भेदात् । तथा चतुर्थस्य कवर्गीयस्य चतुर्थ एव चवर्गीयो भवति । घोषसवारनादमहाप्राणप्रयत्नत्वात् । न तु प्रथमः । अघोषश्वासविवाराल्पप्राणप्रयत्नत्वात् । नापि द्वितीयः । अघोषविवारश्वासXप्रयत्नत्वात् । नापि तृतीयपञ्चमौ । अल्पप्राणन्वात् । पञ्चमस्य तु कवर्गीयस्य अनुनासिकत्वात् ञकार एव । हकारस्य तु घोषसवारनादमहाप्राणवतः तादृशो वर्गचतुर्थ एव झकार इति विवेकः । प्रकृते तु क कृ ए इति स्थिते अभ्यासककारस्य चकारे ॠकारस्य यणि रेफः । तदाह । एधाञ्चक्र इति ॥ एककर्तृका भूतानद्यतनपरोक्षा वृद्धिरूपा कियेत्यर्थः । एधाञ्चक्रात इति ॥ कृञो लिट आतामि टेरेत्वम् । द्विर्वचनेऽचीति याणि निषिद्धे कृ इत्यस्य द्वित्वे उरदत्वम् । हलादिश्शेषः । चर्त्वम् । यण् । न च आतामित्यस्य द्वित्वनिमित्तत्वेऽपि आकार स्याचो द्वित्वनिमित्तत्वाभावात् कथमिह द्विर्वचनेऽचीति यण् निषेध इति वाच्यम् । साक्षाद्वा समुदायघटकतया वा द्वित्वप्रयोजकस्यैव द्वित्वनिमित्तशब्देन विवक्षितत्वादिति भावः । एधाञ्चक्रिर इति ॥ झस्य इरेच् । कृ इत्यस्य द्वित्वादि पूर्ववत् । अथ लिटि थासस्सेभावे कृ इत्यस्य द्वित्वादै एधाञ्चकृ से इति स्थिते आर्धधातुकस्येड्वलादेरिति इडागमे प्राप्ते । एकाच उपदेश इति ॥ ॠत इद्धातोरित्यतः धातोरित्यनुवर्तते । नेड्वशिकृतीत्यतः नेति च । तदाह । उपदेशे यो धातुरेकाजिति ॥ एकः अच् यस्येति बहुव्रीहिः । आर्धधातुकस्येति ॥ यद्यपदि न श्रुतम् । नाप्यनुवृत्तिलभ्यम् । तथाप्यार्थिकमिदम् । आर्धधातुकस्यैवेटः प्राप्तेः । वृत्तिग्रन्थे तु आर्धधातुकस्येति नोपात्तम् । नत्वेकाच उपदेशेऽनुदात्तादित्यत्र यदि उपदेश इत्येतदेकाच इत्यत्रान्वेति तदा कर्तुमित्यत्र इण्णीषेधो न स्यात् । कृञ्धातोरूद्दुXदन्तैरित्यादिना अनुदात्तत्वस्य वक्ष्यमाणत्वेऽपि तुमुन्प्रत्यये कृते ञ्नित्यादिर्नित्यमित्याद्युदात्तत्वात् । यदि तु उपदेश इत्येतत्, अनु