द्वित्वनिमित्तेऽचि परे अच आदेशो न स्याद्द्वित्वे कर्तव्ये ।
२२४४ । उरत् । (७-४-६६ )
अभ्यासऋवर्णस्यात्स्यात्प्रत्यये परे । रपरत्वम् । ‘हलादिः शेषः’ (२१७९) । ‘प्रत्यये’ किम् । वव्रश्च ।
२२४५ । कुहोश्चुः । (७-४-६२)
अभ्यासकवर्गहकारयोश्चवर्गादेशः स्यात् । एधाञ्चक्रे। एधञ्चक्राते। एधाञ्चक्रिरे
कर्तव्ये सतीत्यपि लभ्यते । तदाह । द्वित्वनिमित्ते अचीत्यादिना ॥ द्वित्वे कर्तव्ये सतीत्युत्तेः कृते द्वित्वे चक्रे इत्यादौ यणादयो भवन्ति । अन्यथा तु न स्युः । द्वित्वनिमित्तस्य अचस्सत्वात् । द्वित्वनिमित्त इति किम् । दुद्यूषति । दिव् धातोः सनि द्वित्वात्परत्वात् ऊठि कृते द्वित्वात्प्राग्यण् भवत्येव । तथा द्यु इत्यस्य द्वित्वे दुद्यूषतीति सिध्यति । द्वित्वे कर्तव्ये यणो निषेधे तु दिद्यूषतीत्यभ्यासे इकार एव श्रूयेत । नतूकार । द्वित्वनिमित्त इत्युक्तौ तु ऊठि परे द्वित्वात् प्राक् यणो न निषेध । ऊठो द्वित्वनिमित्तत्वाभावात् । अचीति किम् । जेघ्रीयते । अत्र घ्राधातोर्यडि द्वित्वात् प्राक् ‘ई घ्राध्मोः’ इति ईकारादेशो न निषिध्यते । ईत्वस्य द्वित्वनिमित्तयड्निमित्तकत्वेऽपि द्वित्वनिमित्ताज्निमित्तकत्वाभावात् । अचः किम् । असूषुपत् । इह स्वापेश्वडि द्वित्वात् प्राक् स्वापेश्चडीति वकारस्य सम्प्रसारण न निषिश्यते । तस्याजादेशत्वाभावात् । ततश्च कृते सम्प्रसारणे सुप् इत्यस्य द्वित्वे अभ्यासे उकारस्य श्रवण सम्भवति । सम्प्रसारणे निषिद्धे तु स्वप् इत्यस्य द्वित्वे अभ्यासे उकारो न श्रूयेत । एवञ्च प्रकृते यणादेशात् प्राक् लिटिधातोरिति द्वित्वे कृ कृ ए इति स्थिते । उरदिति ॥ उ: अत् इति च्छेदः । ऋ इत्यस्य उरिति षष्ठ्येकवचनम्। अत्र लोपोऽभ्यासस्येत्यस्मादभ्यासस्येत्यनुवर्तते । अङ्गस्येत्यधिकृतम् । तद्वशात् प्रत्यये परत इति लभ्यते । प्रत्यये परत एव अङ्गसज्ञाविधानात् । तदाह । अभ्यासऋवर्णस्येत्यादिना । रपरत्वमिति ॥ अभ्यासॠवर्णादेशस्याकारस्योरणूपर इति रपरत्वमित्यर्थः । तथाच कर् कृ ए इति स्थिते, हलादिश्शेष इति रेफस्य निवृत्तिरिति भाव । प्रत्यये किमिति॥ अङ्गेनैव प्रत्ययस्याक्षि प्तत्वात् प्रत्यये परत इति किमर्थमित्यर्थः । वव्रश्चेति ॥ ओ व्रश्चू च्छेदने, लिटि णल् द्वित्व लिट्यभ्यासस्येति अभ्यासरेफस्य सम्प्रसारणम् । ॠकार । उरत् । रपरत्वम् । हलादिश्शेष । वव्रश्चेति रूपम् । अत्र अभ्यासॠवर्णस्य रेफस्थानिकस्य सम्प्रसारणस्य य उरदत्वसम्पन्नः अकारः तस्य अच:परस्मिन्निति स्थानिवत्वेन सम्प्रसारणतया तस्मिन् परे वकारस्य न सम्प्रसारणे सम्प्रसारणमिति निषेधान्न सम्प्रसारणमिति स्थितिः । उरदित्यत्र प्रत्यये परत इत्यनुक्तौ तु सम्प्रसारणभूतॠकारस्थानिकस्य अकारस्य परनिमित्तकत्वाभावेन स्थानिवत्वाप्रसक्तेः सम्प्रसारणत्वाभावात्तस्मिन् परतो न सम्प्रसारणे सम्प्रसारणामिति निषेधो न स्यादिति भाव । एवञ्च क कृ ए इति स्थिते । कुहोश्चुरिति ॥ कु हु इत्यनयोर्द्वन्द्वात् षष्ठीद्विवचनम् । अत्र लोपोऽभ्यासस्येत्यतः अभ्यासस्येत्यनुवर्तते । तदाह । अभ्यासेति ॥ यद्यपि स्थानिनां कव