पृष्ठम्:सिद्धान्तकौमुदी (बालमनोरमा उत्तर-१).djvu/४२

विकिस्रोतः तः
एतत् पृष्ठम् परिष्कृतम् अस्ति
प्रकरणम्]
३१
बालमनोरमा ।

२२३० । ते प्राग्धातोः । (१-४-८०)

ते गत्युपसर्गसंज्ञका धातोः प्रागेव प्रयोक्तव्याः ।

२२३१ । आनि लोट् । (८-४-१६)

उपसर्गस्थान्निमित्तात्परस्य लोडादेशस्यानीत्यस्य नस्य णः स्यात् । प्रभवाणि । दुरः षत्वणत्वयोरुपसर्गत्वप्रतिषेधो वक्तव्यः । दुःस्थितिः । दुर्भवानि । अन्तः शब्दस्यांकिविधिणत्वेषूपसर्गत्वप्रतिषेधो वाच्यम् । अन्तर्धा । अन्तर्धिः । अन्तर्भवाणि ।

२२३२ । शेषे विभाषाऽकखादावषान्त उपदेशे । (८-४-१८)

उपदेशे कादिखादिपान्तवर्जे गदनदादेरन्यस्मिन्धातौ पर उपसर्गस्थान्निमित्तात्परस्य नेर्नस्य णत्वं वा स्यात् । प्रणिभवति-प्रनिभवति । इहोपसर्गाणामसमस्तत्वेऽपि संहिता नित्या । तदुक्तम् -


षत्वम् । अभविष्यावेति ॥ वस स्य अट् इट् नित्य डित इति सकारलोपः । अतो दीर्घः । षत्वम् । एवं मसि अभविष्यामेति रूपम् । इति लङ्प्रक्रिया ॥ अथ प्रसङ्गादाह । ते प्रागिति ॥ ते इत्यस्य विवरणम् । गत्युपसर्गसंज्ञा इति ॥ उपसर्गाः क्रियायोगे गतिश्चेति प्रकृतत्वादिति भाव । प्रागेवेति॥ न परतः नापि व्यवहिता इत्यर्थः । इह धातोः प्रागेव प्रयुज्यमाना गत्युपसर्गास्स्युरिति सज्ञानियमपक्षोऽपि भाष्ये स्थितः । आनि लोडिति ॥ लोडिति आनीति च लुप्तषष्ठीकम् पदम् । रषाभ्यां णोन इत्यनुवर्तते । उपसर्गदसमासेपीत्यतः उपसर्गादिति च । तदाह । उपसर्गस्थान्निमित्तादिति ॥ रेफषकारात्मकादित्यर्थः । असमानपदत्वार्थ आरम्भः । अट्कुप्वाड्नुम्व्यवायेपीति सूत्र णत्वप्रकरणे सर्वत्र भवतीति भाष्यम् । दुरः षत्वेति । षत्वणत्वयोः कर्तव्ययोः दुर उपसर्गत्वप्रतिषेध इत्यर्थ । दुःस्थितिरिति । अत्रोपसर्गात् सुनोतीति षत्वं न भवति । दुर्भवानीति । अत्रानि लोटि णत्वन्न भवति । अन्तश्शब्दस्येति ॥ अड्विधौ किविधौ णत्वे च कर्तव्ये अन्तर् इत्यस्य उपसर्गत्वमित्यर्थः । प्रादित्वाभावादप्राप्ते वचनम् । अन्तर्धेति ॥ स्त्रियामित्यधिकारे धाधातोः आतश्चोपसर्गे इत्यड् । टाप् । अन्तर्धिरिति ॥ उपसर्गे घोः किः ।अन्तर्भवाणीति ॥ आनि लोडिति णत्वम् । शेषे विभाषेति ॥ अकखादाविति च्छेदः । नेर्गदनदेति पूर्वसूत्रोक्तधातुभ्योऽन्यश्शेषः । तदाह । गदनदादेरन्यस्मिन्निति ॥ ननु णत्वप्रकरण सहिताधिकारस्थ ततश्चाविवक्षितायां सहितायां उपसर्गात्परत्वाभावात् णत्वाभावः । विवाक्षितायान्तु णत्वमिति विकल्पसिद्धेः किमिह विभाषाग्रहणेनेत्यत आह । इहोपसर्गाणामिति। उक्तमिति ॥