पृष्ठम्:सिद्धान्तकौमुदी (बालमनोरमा उत्तर-१).djvu/४१

विकिस्रोतः तः
एतत् पृष्ठम् परिष्कृतम् अस्ति
३०
[भ्वादि
सिध्दान्तकौमुदीसहिता

सिज्लुक्यादन्तादेव झेर्जुस् स्यात् । अभूवन् । अभूः । अभूतम्। अभूत । अभूवम् । अभूव । अभूम ।

२२२८ । न माङ्योगे । (६-४-७४)

अडाटौ न स्तः । मा भवान् भूत् । मास्म भवत् भृद्वा ।

२२२९ ॥ लिङ्निमित्ते लङ् क्रियातिपत्तौ । (३-३-१३९)

हेतुहेतुमद्भावादिलिङ्निमित्तं तत्र भविष्यत्यर्थे लृङ् स्यात्क्रियाया अनिष्पत्तौ गम्यमानायाम् । अभविष्यत् । अभविष्यताम् । अभविष्यन् । अभविष्यः । अभविष्यतम् । अभविष्यत । अभविष्यम् । अभविष्याव । अभविष्याम ।



लभ्यते । सिजभ्यस्तेति पूर्वसूत्रेणैव सिद्धे नियमार्थमिदम् । तदाह । सिज्लुक्यादन्तादेवेति । अभूवन्निति ॥ झि च्लिX सिच् लुक अट झोन्त इतश्चेति इकारलोपः । तकारस्य सयोगान्तलोप । भुवो बुग्लुड्लिटोरिति बुक । सिज्लुकि आन परम्यैवेति नियमात् सिजभ्यस्तेति न जुसिति भावः । अभृरिति ॥ सिप न्लिःX सिच् लुक अट रुत्ववेिसर्गौ । अभूतमिति ॥ थमस्तम् । च्लेस्सिजादेशः । सिज्लुक । अट । गुणनिषेधः ।एव थस्य तादेशे अभूतेति रूपम् । अभूवमिति ॥ मिप अम् च्लिः सिच लुक् अट बुक । अभूवेति ॥ वस च्लिः सिच् लुक अट नित्यड्डित इति गकारलोपः गुणनिषेधः । एव मसि अभूमेति रूपम् । अथ माडि लुडि विशषमाह । न माङ्योग इति ॥ शेषपुरणेनX सूत्र व्याचष्टे । अडाटौ न स्त इति ॥ लुड् लइ लृडक्ष्वडुदात्त इत्यतः आइजादीनामल्यतश्च, तदनुवृत्तरिति भावः । मा भवान् भूदिति ॥ मार्भाटल्यत्र अडागमे सति असति च विशेषाभावात् भवत्पदस्य मध्ये प्रयोगः । अथ स्मोत्तरे लइचेत्यस्य उदाहरति । मास्मभवद्भूद्वेति ॥ एव बहुवचने मास्म भवन् मास्म भूवन्निति चोदाहरणम् बोद्भयम् । इति लुड्प्रक्रिया ॥ लिड्निमित्त इति । हेतुहेतुमद्भावादीति ॥ हेतुहेतुमनोर्लिड । इच्छार्धेषु लिड्लोटावित्यादिलिड्निमित्त लकारार्थप्रक्रियायां स्पष्टीभाविाष्यति । भविष्यदर्थ इति ॥ भविष्यति मर्यादावचन इत्यतः तदनुवृत्तेरिति भावः । क्रियातिपत्तिपद व्याचष्टे । क्रियाया अनिष्पत्ताविति ॥ सुवृष्टिश्चेदभविष्यत तदा सुभिक्षमभविष्यत् । इत्युदाहरणम् बोध्यम् । अभविष्यदिति ॥ लृड् तिप इतश्चेतीकारलोपः । स्यतासी ललृटोरिति शबपवादः स्यप्रत्ययः । वलादिलक्षणः इद् । गुणावादेशौ । षत्वम्। अभविष्यतामिति ॥ तमस्तामादेशः । स्यः अट् इट् गुणावादेशौ षत्वम् । अभविष्यान्निति ॥ झिः स्यः अट इट गुणावादेशौ । झोऽन्तः इति झेरन्तादेशः इतश्चेतीकारलोपः । तकारस्य संयोगान्तलोपः । षत्वम् । अभाविष्य इति ॥ सिप् स्यः अट् इट गुणः अवादेशः इतश्चेतीकाग्लोपः षत्वम् । रुत्वविसर्गौ । अभविष्यतमिति ॥ थसस्तमादेशः स्यः अट् इट् गुणावौ षत्वम् । एव थस्य तादेशादि पूर्ववत् । अभविष्यमिति ॥ मिप अम् स्य. अट् इट् गुणादौ इतश्चेतीकारलोपः ।