पृष्ठम्:सिद्धान्तकौमुदी (बालमनोरमा उत्तर-१).djvu/४०

विकिस्रोतः तः
एतत् पृष्ठम् परिष्कृतम् अस्ति
प्रकरणम्]
२९
बालमनोरमा ।


सिच् च ‘अस्’ चेति समाहारद्वन्द्वः । सिच्छब्दस्य सौत्रं भत्वम् । अस्तीत्यव्ययेन कर्मधारयः । ततः पञ्चम्याः सैौत्नोX लुक् । विद्यमानात्सिचोऽस्तेश्च परस्यापृक्तहल ईडागमः स्यात् । इति ईंअट् न। इह सिचो लुप्तत्वात् । अभूत् । ‘हलः’ किम् ऐXधिषि । ‘अपृक्तस्य’ इति किम् । ऐधिष्ट । अभूताम् ।

२२२६ । सिजभ्यस्तविदिभ्यश्च । (३-४-१०९)

सिचोऽभ्यस्ताद्विदेश्च परस्य डित्संबन्धिनो झेर्जुस् स्यात् । इति प्राप्ते ।

२२२७ । आतः । (३-४-११०)


न्द्वात् पञ्चमी । ब्रुव ईडित्यत ईडित्यनुवर्तते । तस्मादित्युत्तरस्येति परिभाषया पञ्चमी । अपृक्तस्येति षष्ठी प्रकल्पयति । ततश्च अस्तेस्सिचश्च परस्यापृक्तस्य ईडागमस्स्यादिति प्राचीना व्याचक्षते । तथा सति लुडिX अस्तेर्भूभावे अभूदिति न स्यात् । भूभावस्य स्थानिवत्वेन अस्तितया तत्रापृक्तस्य हल ईडागमस्य दुर्वारत्वात् । तथा अगात् अस्थात् अपादित्यादावपि गातिस्थेति सिचो लुक्यपि स्थानिवत्वेन सिचः परत्वादीडागमस्स्यात् । अतः प्रकारान्तरेण व्याचष्ठे । सिञ्च अस् चेत्यादिना ॥ ननु सिचस् शब्दे सिचशब्दस्य पूर्वखण्डस्यान्तर्वर्तिविभक्त्या पदत्वाच्चोः कुरिति कुत्त्वप्रसङ्ग इत्यत आह । सिच्शब्दस्य सौत्रं भत्त्वमिति ॥ तथा च भत्त्वेन पदत्वस्य बाधान्नकुत्वामिति भाव । ननु सिचस्शब्दे अस् इत्यनेनैवास्तेलीभात् अस्तिग्रहण किमर्थमित्यत आह । अस्तीत्यव्ययेन कर्मधारय इति ॥ अस्तीति विभक्तिप्रतिरूपकमव्यय । लुप्तसुविभक्तिक विद्यमानार्थक । तेन सिचस्शब्दस्य कर्मधारय इत्यर्थःX । तथा च अस्तिासिचस् इत्येक पदमिति स्थित । ततः पञ्चम्यास्सौत्रो लुगिति ॥ सुपा सुलुगित्यनेनेति शेषः । तथा च अस्ति सिच इति पदात् लब्धार्थमाह । विद्यमानात्सिचोऽस्तेश्च परस्येति । हल इति ॥ उतो वृद्धिर्लकि हलीत्यतोऽनुवृत्तस्य हृलीत्यस्य षष्ठ्या विपरिणाम इति भावः । इतीट् नेहेति ॥ अनेन सूत्रेण अभूत् इत्यत्र ईडागमो नेत्यर्थः । कुत इत्यत आह । सिचो लुका लुप्तत्वादिति ॥ विद्यमानत्वविशेषणेन लुप्तात्सिचः परस्य नेति भावः । एवञ्च । अगादित्यादावपि लुप्तात्सिचः परस्य अस्तेर्लुडि कृतभूभावात्परस्य च नेत्युक्तप्रायम्। ऐधिषीति ॥ एधधातोर्लुडि उत्तमपुरुषैकवचन । इट् । अत्र इकारस्य सिचः परत्वेऽपि हल्त्वाभावात् ईडागमोनेति भावः । ऐधिष्टेति ॥ एधधातोर्लुडि प्रथमपुरुषैकवचनम् । अत्र त इत्यस्य सिचः परत्वेऽपि एकाल्प्रत्ययत्वाभावेनापृक्तत्वाभावात् ईडागमो नेति भावः । अभूतामिति॥ लुडस्तसि तस्य तामादेश । च्ले.सिच् । अट्। गुणनिषेधः । सिजभ्यस्तेति ॥ झेर्जुसिति सूत्रमनुवर्तते । नित्यड्डित इत्यतः डित इति च । तदाह। सिचोऽभ्यस्तादित्यादिना । इति प्राप्त इति ॥ लिडो झेर्जुसिति शेषः । आत इति ॥ झेर्जुसिति सूत्रमनुवर्तते । आतस्सिज्लुगन्तादिति वक्तव्यमिति वार्तिक भाष्ये पठितम् । ततश्च सिज्लुकि यदाकारान्त तस्मात्परस्य झेर्जुसिति