पृष्ठम्:सिद्धान्तकौमुदी (बालमनोरमा उत्तर-१).djvu/३९

विकिस्रोतः तः
एतत् पृष्ठम् परिष्कृतम् अस्ति
२८
[भ्वादि
सिध्दान्तकौमुदीसहिता

२२२० । स्मोत्तरे लङ् च । (३-३-१७६)

स्मोत्तरे माङि लङ् स्याल्लुङ् च

२२२१ । च्लि लुङि (३-१-४३)

शबाद्यपवादः ।

२२२२ । च्लेः सिच् । (३-१-४४)

इचावितौ।

२२२२ । गातिस्थाघुपाभूभ्यः सिचः परस्मैपदेषु । (२-४-७७)

एभ्यः सिचो लुक्स्यात् । गापाविहेणादेशपिबती गृह्येते ।

२२२४ । भूसुवोस्तिङि । (७-३-८८)

‘भू’ ‘सू’ एतयोः सार्वधातुके तिङि परे गुणो न स्यात् ।

२२२५ । अस्तिसिचोऽपृक्ते । (७-३-९६)



तु अस्त्विति विभक्तिप्रतिरूपकमव्ययमित्यन्ये । स्मोत्तर इति ॥ चकारात् माडि लुद्दित्यनुकृष्यते । स्म इत्यव्ययं उत्तर यस्मादिति विग्रहः। तदाह । स्मोत्तरे माङीति ॥ अयमपि सर्वलकारापवादः। च्लिलुङीति॥ च्लि इति लुप्तप्रथमाकलुडि परे धातोः चिलप्रत्ययः स्यादित्यर्थः । शबाद्यपवाद इति ॥ आदिना श्यनादिविकरणसग्रहः। च्लेस्सिजिति । इताविति ॥ चिन स्वरश्चित्त्वस्य प्रयोजन । इदित्वस्य तु अमस्तेत्यत्र अनिदिता हल उपधाया इत्युपधालोपस्याप्रवृत्तिः प्रयोजनम् । गातिस्थेति ॥ गाति स्था घु पा भू एषा द्वन्द्वात् पञ्चमीबहुवचनम् । परस्येति शेषः । सिंच इति षष्ठी । गातीति श्तिपा निर्देशात् गाधातोर्ग्रहणम् । घु इत्यनेन दाधाध्वदाबिति घुसंज्ञकयोः दाधातोर्धाधातोश्च ग्रहणम्। ण्यक्षत्रियार्षत्रितो यूनिलुगणिञोरित्यस्माद्वयवहितादपि लुगिल्यनुवर्तते । जुहोत्यादिभ्यः श्लुरित्यव्यवहितमपि श्लुग्रहणं नानुवर्तते । व्याख्यानात् । तदाह । एभ्यास्सिच इत्यादिना । गापाविहेति ॥ इह गातिस्थेति सूत्रे गातीत्यनेन पाग्रहणेन च इणो गालुडीति लुग्विकरणस्येणो गादेशः शब्विकरणः पिबादेशयोग्यः पाधातुश्च गृह्यते इत्यर्थः । गापोर्ग्रहणे इण्पिबत्योर्ग्रहणमिति भाष्यादिति भावः । तथाच लुङस्तिबादेशे इनश्चेति इकारलोपे शबपवादे च्लिप्रत्यये तस्य सिचि तस्य लुकि अडागमे अभूत इति स्थिते पित्वात् ङित्वाभावे सार्वधातुकार्धधातुकयोरिति गुणे प्राप्ते । भूसुवोरिति ॥ मिदेर्गुण इत्यतो गुण इति, नाभ्यस्तस्याचि पितीत्यतो नेति सार्वधातुक इति चानुवर्तते । तदाह । एतयोरिति ॥ भू सू इत्यनयोरित्यर्थः । इह षूङ् प्राणिगर्भविमोचन इति लुग्विकरणस्थस्यैव ग्रहणम् । न तु सुबति सूयत्योश्शविकरणश्यन्विकरणयोरपि । तत्र तिङो विकरणेन व्यवधानात् । अथ अभूत् इत्यत्र तकारस्येडागममाशङ्कितुमाह । अस्ति सिच इति ॥ अस्तिश्च सिच्चेति समाहारद्व-