पृष्ठम्:सिद्धान्तकौमुदी (बालमनोरमा उत्तर-१).djvu/३८

विकिस्रोतः तः
एतत् पृष्ठम् परिष्कृतम् अस्ति
प्रकरणम्]
२७
बालमनोरमा ।

गित्किङिन्निमित्त इग्लक्षणे गुणवृद्धी न स्तः । भूयात् । भूयास्ताम् । भूयासुः । भूयाः । भूयास्तम् । भूयास्त । भूयासम् । भूयास्व । भूयास्म ।

२२१८ । लुङ् । (३-२-११०)

भूतार्थवृत्तेर्धातोर्लुङ् स्यात् ।


२२१९ । माङि लुङ् । (३-३-१७५)

सर्वलकारापवादः ।


डिति चेति लभ्यते । निमित्तसप्तम्येषा । इको गुणवृद्धी इत्यनुवर्तते । चकार इत्यर्थे । इक इत्युच्चार्य विहिते इति लभ्यते । न धातुलोप आर्धधातुक इत्यतः नेत्यनुवर्तते । तदाह । गित्किन्ङिन्निमित्ते इत्यादिना ॥ गितीत्यनुक्तौ तु ग्लाजिस्थश्च ग्स्नुरिति ग्स्नुप्रत्यये जिष्णुरित्यत्र गुणनिषेधो न स्यात् । न च ग्स्नुप्रत्ययः किदेव क्रियतामिति वाच्यम् । तथा सति घुमास्थेति किति विहितस्य ईत्वस्य प्रसङ्गात् । यादितु गिति किति डिति परतो गुणवृद्धी न स्त इति व्याख्यायेत, तदा च्छिन्नं भिन्नमित्यत्र क्तप्रत्यये परे लघूपधगुणनिषेधो न स्यात् । स्थानिभूतस्येक हला व्यवधानात् । नच येननाव्यवधानन्यायश्शङ्क्य । चितस्तुतभित्यादावव्यवहिते चरितार्थत्वात् । यदि च इको न गुणवृद्धी इत्येव व्याग्व्यायेत न त्विग्लक्षणे इति, तदा लिगोरपत्यं लैगवायन , नडादित्वात् फक्, इह आदिवृद्धेरोर्गुणस्य च वस्तुगत्या इक्स्थानिकत्वात् निषेधस्स्यादित्यलम् । भूयादिति॥ इहार्धधातुकत्वाल्लिडस्सलोप इत्यस्याप्रवृत्तेः स्कोरिति सलोप इत्युक्तम् न विस्मर्तव्यम् । न चैवमपि सयोगादिलोपस्यासिद्धत्वाद्धल्ड्यादिलोपः स्यादिति वाच्यम् । सुटि यासुटि च सति ताभ्या विशिष्टस्यैव प्रत्ययत्वेनापृक्तत्वाभावादित्यलम् । भूयास्तामिति ॥ आशिषि लिडस्तसस्तामादेशे आर्धधातुकत्वात् शबभावे यासुडागमे अतः परत्वाभावादियादेशाभावे सुटि झल्परसयोगादित्वेन यासुटस्सकारस्य लोपः गुणनिषेधश्च । भूयासुरिति ॥ झेर्जुसि यासुडागमे गुणनिषेधे रूपम् । भूया इति ॥ आशीर्लिडस्सिपि इतश्रेतीकारलोपः यासुट: स्कोरिति सलोपः, गुणनिषेधः, रुत्वविसगौं। भूयास्तमिति ॥ थसस्तमादेशे यासुटि गुणनिषेधः। एव थस्य तादेशेऽपि भूयास्तेति रूपम् । भूयासमिति ॥ मिपः अमादेशे यासुटि गुणनिषेधः । भूयास्वेति ॥ लिडो वस् नित्यं डित इति सकारलोपः । यासुट्। गुणनिषेधः । एव मसि भूयास्मेति रूपम् । इत्याशीर्लिड्प्रक्रिया। लुङिति ॥ धातोरिति भूत इति चाधिकृतम्। तदाह । भूतार्थवृत्तेरिति । माङि लुङिति॥ माङि प्रयुज्यमाने धातोर्लड् स्यादित्यर्थः । ननु लुड् इत्युदाहृतसूत्रेणैव सिद्धेः किमर्थमिदमित्यत आह । सर्वलकारापवाद इति ॥ मास्त्वित्यादौ तु मा इत्यव्ययान्तर प्रतिषेधार्थकमित्याहुः । आड् माडोश्चेति सूत्रभाष्ये तु डितो माशब्दस्य निर्देशात् प्रमाच्छन्द इत्यत्र न भवतीत्युक्तम् । माशब्दस्याव्ययान्तरस्य सत्त्वे तु तदवोदाह्रियेत। मस्त्वित्यत्र